| YouTube Channel

वाशिष्ठः (vAziSThaH)

 
शब्दकल्पद्रुमः
Sanskrit
वाशिष्ठः, त्रि, वशिष्ठसम्बन्धी वशिष्ठस्येदं इत्यर्थेष्णप्रत्ययेन निष्पन्नः
(यथा, महाभारते ।३ ११५ ।“लोमशस्तस्य तान् सर्व्वानाचख्यौ तत्र ताप-सान् ।भृगूनङ्गिरसश्चैव वाशिष्ठानथ काश्यपान्
”क्ली, उपपुराणविशेषः यथा, देवीभागवते ।१ १६ ।“माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् ।एतान्युपपुराणानि कथितानि महात्मभिः
”तीर्थभेदः यथा, महाभारते ८४ ४५ ।“ऋषिकुल्यां समासाद्य वाशिष्ठञ्चैव भारत ! ।वाशिष्ठं समतिक्रम्य सर्व्वे वर्णा द्बिजातयः
”)