| YouTube Channel

वाशकः-शिका (vAzakaH-zikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वश कान्तौ”@} 2 ग्रह्यादिः।
कान्तिः = इच्छा इति क्षीरस्वामी।
वाशकः-शिका, वाशकः-शिका, विवशिषकः-षिका, 3 वावशकः-शिका
वशिता-त्री, वाशयिता-त्री, विवशिषिता-त्री
वावशिता-त्री
4 उशन्-न्ती, वाशयन्-न्ती, विवशिषन्-न्ती
-- वशिष्यन्-न्ती-ती, वाशयिष्यन्-न्ती-ती, विवशिषिष्यन्-न्ती-ती
-- -- वाशयमानः, वाशयिष्यमाणः, -- वावश्यमानः, वावशिष्यमाणः
उट्-उशौ-उशः
-- -- उशितम्-तः-तवान्, वाशितम्-तः, विवशिषितः, वावशितः-तवान्
वशः, 5 वशा, 6 गोवशा, वशी, वाशः, 7 वाशनः, 8 विवशिषुः, वावशः
वशितव्यम्, वाशयितव्यम्, विवशिषितव्यम्, वावशितव्यम्
वशनीयम्, वाशनीयम्, विवशिषणीयम्, वावशनीयम्
वश्यम्, वाश्यम्, विवशिष्यम्, वावश्यम्
ईषद्वशः-दुर्वशः-सुवशः
-- -- उश्यमानः, वाश्यमानः, विवशिष्यमाणः, वावश्यमानः
9 वशः, वाशः, विवशिषः, वावशः
वशितुम्, वाशयितुम्, विवशिषितुम्, वावशितुम्
10 उष्टिः, वाशना, विवशिषा, वावशा
वशनम्, वाशनम्, विवशिषणम्, वावशनम्
11 वशित्वा, वाशयित्वा, विवशिषित्वा, वावशित्वा
प्रोश्य, प्रवाश्य, प्रविवशिष्य, प्रवावश्य
वाशम् वशित्वा वाशम् वाशयित्वा विवशिषम् विवशिषित्वा वावशम्
वावशित्वा
12 उशिक्, 13 ईरन्प्रत्यये, कित्त्वात् संप्रसारणे रूपमेवम्।
उश्यते तदिति उशीरम् = गन्धद्रव्यम्।
उशीनरम् इति तु देशविशेषवाचकं शब्दान्तरम्।]] उशीरम्, 14 उशनाः।
प्रासङ्गिक्यः
01
=>
(१५७४)
02
=>
(२-अदादिः-१०८०। सक। सेट्। पर।)
03
=>
[[१। ‘न वशः’ (६-१-२०) इति यङि परतः वशेः संप्रसारणं भवति।]]
04
=>
[[२। शतरि, ‘ग्रहिज्यावयिव्यधिवष्टिविचति--’ (६-१-१६) इति किति ङिति प्रत्यये परतः संप्रसारणं भवति। तेनैवं रूपम्। एवं क्विप्-निष्ठा-क्तिनादिषु ज्ञेयम्।]]
05
=>
[[३। पचाद्यचि, तदन्तात् टापि रूपमेवम्। वशा = मांसम्।]]
06
=>
[[४। अत्र ‘पोटायुवतिस्तोककतिपयगृष्टिधेनुवशा--’ (२-१-६५) इत्यादिना तत्पुरुष- समासः। गोवशा = बन्ध्या गौरित्यर्थः।]]
07
=>
[[५। ण्यन्तात्, ‘नन्दिवाशि--’ (वा। ३-१-१३४) इत्यादिना संज्ञायां ल्युप्रत्यये रूपमेवम्।]]
08
=>
[[आ। ‘भृङ्गालीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण।’ भ। का। ६-७४।]]
09
=>
[[६। ‘वशिरण्योरुपसंख्यानम्’ (वा। ३-३-५८) इति भावे घञपवादोऽप्प्रत्ययः।]]
10
=>
[पृष्ठम्१२११+ २६]
11
=>
[[१। क्त्वाप्रत्यये, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् संप्रसारणम्।]]
12
=>
[[२। ‘वशेः कित्’ (द। उ। ४-९) इति धातोरिजिप्रत्यये कित्त्वात् संप्रसारणम्। वष्टि उश्यतेऽसौ श्रेयोऽर्थिभिरिति उशिक् = अग्न्यादिः।]]
13
=>
[[३। औणादिके [द। उ। ८-७३]
14
=>
[[४। ‘वशेः कनसिः’ (द। उ। ९-९९) इति कनसिप्रत्यये, कित्त्वात् ‘ग्रहिज्या--’ (६-१-१६) इत्यादिना सम्प्रसारणे रूपमेवम्। उशनाः = शुक्रः।]]
1 {@“वाशृ शब्दे”@} 2 3 ‘… वाशति…’ 4 इति प्रयोगदर्शनात् भौवादिकोऽपि अयं धातुः इति ऊह्यते।
‘चीचीकूचीति वाशन्ति सारिकाः--’ 5 इति च।]] ‘वासृ--’ इति काशकृत्स्नः।
‘वाशृ--’ इति कातन्त्राः, अन्ये वैयाकरणाः।
वाशकः-शिका, वाशकः-शिका, विवाशिषकः-षिका, वावाशकः-शिका
वाशिता-त्री, वाशयिता-त्री, विवाशिषिता-त्री, वावाशिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककाशतिवत् 6 ऊह्यानि।
शानचि- 7 उद्वाश्यमानः 8, 9 वाशनः 10, वाशा, वाशिका, वाशिरा, 11 वाशुरा, 12 वाशरः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
13
प्रासङ्गिक्यः
01
=>
(१५९२)
02
=>
(४-दिवादिः-११६३। अक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(ऋक् ५-५४-२)
05
=>
(महाभारते १६-३८)
06
=>
(१८६)
07
=>
[[३। उत्पूर्वकात् धातोः, लटः शानचि कर्तरि शपि, तस्य श्यनि रूपमेवम्।]]
08
=>
[[आ। ‘उद्वाश्यमानः पितरं सरामं लुठ्यन् सशोको भुवि रोरुदावान्।।’ भ। का। ३-३२]]
09
=>
[[४। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् ण्यन्तात् ल्युः प्रत्ययः।]]
10
=>
[[B। ‘भृङ्गालीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण।’ भ। का। ६-७४]]
11
=>
[[५। ‘मन्दिवाशि--’ (द। उ। ८-२१) इत्यादिना उरच्प्रत्यये रूपमेवम्। वाश्यतेऽत्यर्थमिति वाशुरः--गर्दभः। ‘मन्दिवासि--’ इति नारायणश्वेत- वनवासिनौ। अत्र धातुवृत्तौ ‘मन्दिवाशि--’ इत्यादिना किरच्प्रत्यये वाशिरः इति दृश्यते। वृत्त्यादावपि वाशुरा इत्येवोदाह्रियते। तरङ्गिण्या- मपि एवमेव।]]
12
=>
[[६। ‘अर्त्तिकमिभ्रमिदेविवाशि--’ (द। उ। ८-६२) इत्यादिना अरन्प्रत्यये रूपमेवम्। वाशरः = कोकिलः। अत्राह मनोरमाकारः-- ‘केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा ‘वाशृ शब्दे’ वाश्यते इति वाशरः = कोकिलः इत्याहुः’ इति।]]
13
=>
[पृष्ठम्१२२६+ २८]