| YouTube Channel

वावृतु (vAvRtu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वावृत्
मूलधातुः:
वावृतु
धात्वर्थः:
वरणे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वावृत्यते
क्षीरतरङ्गिणी
Sanskrit
वावृतुँ वावृतु वरणे
- वावृत्यते ततो वावृत्यमाना सा रामशालामविक्षत इति भट्टिः (428) अन्ये भ्वादेरेव (1504) वरणे दिवादित्वं वा मन्यन्ते तेन वरणे द्युतादि कार्यं भवति-अवर्तिष्ट, वर्तिष्यते विवर्तिषते 50
कृदन्तरूपमाला
Sanskrit
1 {@“वावृतु वरणे”@} 2 वरणम् = आवरणम्।
‘वृतु वरणे’ इति धातुवृत्ति-धातुकाव्य-सि।
कौमुदी-काशकृत्स्नादयः।
सि।
कौमुद्यां ‘वृतु--’ इति पठित्वा पक्षान्तरे-वावृत्यते इति।
‘वृतु--’ इति धा।
का।
व्याख्या 3 पाठः।
किञ्च तत्र ‘केचित् पूर्वत्र पठितं वाग्रहणमस्यादिं कृत्वा ‘वावृतु--’ इत्याहुः’ इत्युपात्तम्।
कर्मणि क्तप्रत्यये पक्षद्वयेऽपि प्रयोगा दृश्यन्ते।
क्षीरस्वामी स्वतन्त्रेण ‘वावृतु’ इति पठित्वा “अन्ये भ्वादेरेव वरणे दिवादित्वं वा मन्यन्ते।
तेन वरणे द्युतादिकार्यं भवति।
वर्तिष्यते, विवर्तिषते” इति उक्तम्।
किं भ्वादौ ‘वृतु वरणे’ 4 इत्येके’ इति तत्र दृश्यते।
कातन्त्रीयाः ‘तप ऐश्वर्ये, वावृतु वर्तने’ इति पठन्ति।
ये वा-शब्दं ‘तप ऐश्वर्ये वा’ इत्येवं संबध्नन्ति, काशकृत्स्नपाठानुरोधेन तेषां ‘वा’ पदं समुच्चायकं भवितुमर्हति, विकल्पार्थकम्’ इति काशकृत्स्ने टिप्पन्या- मुक्तम्।
5 ‘ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत।’ इति भट्टि 6 प्रयोगश्चात्र अनुकूलः।
‘-- वर्तने च’ इति हेमचन्द्रः।
‘-- संभक्तौ वरणे’ इति वोपदेवः।
वावर्तकः-र्तिका, वावर्तकः-र्तिका, विवावर्तिषकः-षिका, वरीवावर्तकः-र्तिका
वावर्तिता-त्री, वावर्तयिता-त्री, विवावर्तिषिता-त्री, वरीवावर्तिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकगृध्यतिवत् 7 ज्ञेयानि।
शानचि 8 वावृत्यमानः, क्यपि- 9 वावृत्यम्, वावर्तितम् इमानि रूपाणि अस्य धातोः विशेषः।
प्रासङ्गिक्यः
01
=>
(१५९०)
02
=>
(४-दिवादिः-११६०। सक। सेट्। आत्म।)
03
=>
(२। ६०)
04
=>
(दिवादौ)
05
=>
[पृष्ठम्१२२५+ ३०]
06
=>
(४-२८)
07
=>
(४२४)
08
=>
[[१। ‘रीगृदुपधस्य च’ (७-४-८०) इति यङन्ते सर्वत्र अभ्यासे रीगागमः।]]
09
=>
[[२। ‘ऋदुपधात्--’ (३-१-११०) इत्यादिना क्यप्प्रत्यये रूपमेवम्।]]