| YouTube Channel

वावर्षकः-र्षिका (vAvarSakaH-rSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वर्ष स्नेहने”@} 2 ‘… स्नेहे तु वर्षते।।’ 3 इति देवः।
‘पर्ष--’ इति क्षीरस्वामी।
चन्द्रकाशकृत्स्नकातन्त्रहेरम्बवोपदेवादयः पठन्ति।
शाकटायनदेवमैत्रेयसायणभट्टोजिदीक्षितादयः ‘वर्ष स्नेहने’ इत्यभ्युपगच्छन्ति।
स्नेहनं = स्निग्धीभावः।
‘पर्ष वर्ष’ इति पृथक्त्वेन मैत्रेयः पठति।
वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वावर्षकः-र्षिका
वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वावर्षिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककर्बतिवत् 4 ज्ञेयानि।
अवावर्ट्- 5 अवावर्ड्-वर्षौ-वर्षः, 6 प्रियवर्षी, धनवर्षी, निष्ठायाम्-वर्षितम्-तः-तवान्, इमानि रूपाणि विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१५६६)
02
=>
(१-भ्वादिः-६१३। अक। सेट्। आत्म।)
03
=>
(श्लो। १७६)
04
=>
(१७३)
05
=>
[[१। क्विपि, ‘रात् सस्य’ (८-२-२४) इति नियमात् संयोगान्तलोपः।]]
06
=>
[[२। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।]]