| YouTube Channel

वावदूकः (vAvadUkaH)

 
Wordnet
Sanskrit
Synonyms:
वावदूकः
noun
एकः पुरुषः
"वावदूकः कुर्वादिगणपाठे वर्णितः"
शब्दकल्पद्रुमः
Sanskrit
वावदूकः, त्रि, (पुनः पुनरतिशयेन वा वदतीति ।वद + यङ् लुक् + “उलूकादयश्च ।” उणा० ।४१ इति ऊकः “सर्व्वस्वे तु ‘यजजप-दशामिति ।’ १६६ इति बहुलवच-नादन्यतोऽपि भवत्यूकप्रत्ययः इति कृत्वा वाव-दूक इति साधितम् ।” इत्युणादिवृत्तौ उज्ज्वल-दत्तः ।) अतिशयवचनशीलः तत्पर्य्यायः ।वाचोयुक्तिपटुः वाग्मी वक्ता इत्यमरः
वचक्नः सुवचाः प्रवाक् इति जटा-धरः
(यथा, महाभारते १२ १९ २४ ।“अमृतस्यावमन्तारो वक्तारो जनसंसदि ।चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“वद व्यक्तायां वाचि”@} 2 यजादिः।
‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 3 इति देवः।
वादकः-दिका, वादकः-परिवादकः-दिका, विवदिषकः-षिका, वावदकः-दिका
वदिता-त्री, वादयिता-त्री, विवदिषिता-त्री, वावदिता-त्री
वदन्-न्ती, 4 5 वादयन्-न्ती, विवदिषन्-न्ती
-- वदिष्यन्-न्ती-ती, वादयिष्यन्-न्ती-ती, विवदिषिष्यन्-न्ती-ती
-- 6 शास्त्रे 7 वदमानः, 8 कर्मकरान् उपवदमानः, 9 न्यायम् अपवदमानः, क्षेत्रे विवद- मानः, 10 विप्रवदन्तः-विप्रवदमाना वा मौहूर्तिकाः वैद्याः वा, कुलभार्यामुपवदमानः, 11 अनुवदमानः कठः कालापस्य, 12 सम्प्रवदमानः, गेहे विवदमानः, वादयमानः, 13 अभिवादयमानो गुरुं देवदत्तं देवदत्तेन वा, 14 वादयमानो वीणाम्, विप्रविवदिषमाणः, वावद्यमानः
शास्त्रे वदिष्यमाणः, वादयिष्यमाणः, विवदिषिष्यमाणः, वावदिष्यमाणः
15 उदितम्- 16 तः-तवान्, वादितः, विवदिषितः, वावदितः-तवान्
मधुरोद्-मधुरोदौ-मधुरोदः
-- -- -- 17 वदः, 18 अवादी, 19 वदावदः, 20 वावदूकः, प्रवावदूकः, 21 कद्वदः 22, 23 साधुवादी, 24 परिवादिनी, 25 प्रियंवदः-प्रियंवदा 26, वशंवदः 27, 28 प्रवादी, 29 ब्रह्मवादी, 30 परि- वादकः, वादः, विवदिषुः, वावदः
वदितव्यम्, वादयितव्यम्, विवदिषितव्यम्, वावदितव्यम्
वदनीयम्, वादनीयम्, विवदिषणीयम्, वावदनीयम्
31 अवद्यम्, 32 ब्रह्मोद्यम्-ब्रह्मवद्यम्, 33 मृषोद्यम्, सत्यवद्यः 34, अनृतोद्यम्, 35 36 वाद्यम्-प्रवाद्यम्, वाद्यम्, विवदिष्यम्, वावद्यम्
उद्यमानः, वाद्यमानः, विवदिष्यमाणः, वावद्यमानः
ईषद्वदः-दुर्वदः-सुवदः
-- -- -- वादः, वादः, विवदिषः, वावदः
वदितुम्, वादयितुम्, विवदिषितुम्, वावदितुम्
37 उदितिः, उत्तिः, वादना, विवदिषा, वावदा
वदनम्, वादनम्, विवदिषणम्, वावदनम्
38 उदित्वा 39, वादयित्वा, विवदिषित्वा, वावदित्वा
प्रोद्य, 40 अच्छोद्य, अनुवाद्य, प्रविवदिष्य, प्रवावद्य
वादम् २, उदित्वा २, वादम् २, वादयित्वा २, विवदिषम् २, विवदिषित्वा २, वावदम्
वावदित्वा
41 इतीञ्प्रत्ययः।
वदति तस्यामिति वादिः वीणा।]] वादिः, 42 इत्यान्यप्रत्ययः।
वदान्यो दाता।]] वदान्यः, 43 44 इति णिजन्तात् णित्रन्प्रत्ययः।
वाद्यते इति वादित्रम् मृदङ्गपणवादिकम्।]] वादित्रम्, 45 इति सप्रत्ययः।
‘तितुत्रस--’ 46 इतीण्निषेधः।
वत्सः = कुमारः, गोबालश्च।]] वत्सः 47
प्रासङ्गिक्यः
01
=>
(१५४७)
02
=>
(१-भ्वादिः-१००९। सक। सेट्। पर।)
03
=>
(श्लो। १०९)
04
=>
[[आ। ‘मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः।’ भ। का। ६०।]]
05
=>
[[B। ‘… शैलस्य दर्दुरपुटानिव वादयन्तः।’ शि। व। ५। ९।]]
06
=>
[पृष्ठम्११९०+ २८]
07
=>
[[१। अत्र ‘भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः’ (१-३-४७) इति वदतेस्तङ्। औत्सर्गिकस्य परस्मैपदस्यापवादः। अत्र भासनम् = दीप्तिः। शास्त्रे वदमानः, दीप्यमानः सन् पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसम्भाषणम् = उपसान्त्वनम्। कर्मकरान् उपवदमानः उपसान्त्वयन् इत्यर्थः। ज्ञानम् = सम्यक् अवबोधः। वदमानश्चार्वी लोकायते इत्युदाहरणम्। सम्यग्वक्तुं जानातीत्यर्थः। यत्नः = उत्साहः। क्षेत्रे वदमानः। क्षेत्रविषयकमुत्साहमाविष्करोतीत्यर्थः। विमतिः = नानामतिः। गेहे विवदमानः। विमतिपतिताः विचित्रं भाषन्ते इत्यर्थः। उपमन्त्रणम् = रहसि उपच्छन्दनम्। कुलभार्यामुपवदमानः। उपच्छन्दय- तीत्यर्थः।]]
08
=>
[[आ। ‘मासे सुतं वैजननेऽथ सूतम् आदाय शौरिः वदमानमद्यौत्।’ वा। वि। २-१४।]]
09
=>
[[२। ‘अपाद् वदः’ (१-३-७३) इति तङ्। न्यायापवादेन धनाद्यार्जनं करोति इत्यर्थः।]]
10
=>
[[३। ‘विभाषा विप्रलापे’ (१-३-५०) इति व्यक्तवाचां समुच्चारणेऽपि वदते- स्तङ्विकल्पः।]]
11
=>
[[४। ‘अनोरकर्मकात्’ (१-३-४९) इति तङ्। एतदपि व्यक्तवाग्विषयकमेव।]]
12
=>
[[५। ‘व्यक्तवाचां समुच्चारणे’ (१-३-४८) इति तङ्। व्यक्तवाचो मनुष्याः। तेन ‘वरतनु संप्रवदन्ति कुक्कुटाः’ इत्यत्र तङ्।]]
13
=>
[[६। ‘अभिवादिदृशोः--’ (वा। १-४-५३) इति वचनात् आत्मनेपदे प्रयोज्यस्य पाक्षिकं कर्मत्वम्।]]
14
=>
[[७। ‘न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवद-’ (१-३-८९) इति परस्मैपदनिषेधः। ‘अणावकर्मकात्--’ (१-३-८८) इत्यस्यापवादोऽयम्।]]
15
=>
[[८। निष्ठायाम्, ‘वचिस्वपियजादीनाम्-’ (६-१-१५) इति सम्प्रसारणम्। तेन पूर्वरूपम्।]]
16
=>
[[B। ‘सकलैः सकलैः परितः करुणैरुदितैः रुदितैरिव खं निचितम्।।’ भ। का। १०। ४।]]
17
=>
[पृष्ठम्११९१+ २९]
18
=>
[[१। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति नञि उपपदे ग्रह्यादित्वात् कर्तरि णिनिः।]]
19
=>
[[२। ‘चरिचलिपतिवदीनां द्वित्वम् अचि आक् अभ्यासस्य’ (वा। ६-१-१२) इति वचनेन पचाद्यचि द्वित्वम्, अभ्यासस्य आक् भवतः।]]
20
=>
[[३। ‘कुर्वादिभ्यो ण्यः’ (४-१-१५१) इत्यत्र वावदूकशब्दपाठात् वदतेरपि यङन्तात् ऊकप्रत्ययः इति माधवाचार्याः। एवं प्रवावदूकादयोऽपि शब्दा बोध्याः।]]
21
=>
[[४। पचाद्यचि ‘रथवदयोश्च’ (६-३-१०२) इति वदशब्दे परे कोः कत् आदेशः।]]
22
=>
[[आ। ‘येन जातं प्रियापाये कद्वदं हंसकोकिलम्।’ भ। का। ६-७६।]]
23
=>
[[५। अताच्छील्येऽपि ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
24
=>
[[६। ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति णिनिः। तद्धर्मेऽयं प्रत्ययः। ‘सप्तभिः परिवादिनी’ इति वीणाविशेषः।]]
25
=>
[[७। ‘प्रियवशे वदः खच्’ (३-२-३८) इति खच्। खित्त्वात् मुम्।]]
26
=>
[[B। ‘अनुका प्रार्थयांचक्रे प्रियाकर्तु प्रियंवदा।’ भ। का। ४-१९।]]
27
=>
[[C। ‘सौमित्रे मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्।’ भ। का। ४। २०।]]
28
=>
[[८। तच्छीलादिषु कर्तृषु ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
29
=>
[[९। ‘ब्रह्मणि वदः’ (वा। ३-२-७८) इति णिनिप्रत्ययः। अताच्छीलिकोऽयम्।]]
30
=>
[[१०। तच्छीलादिषु कर्तृषु ‘निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि--’ (३-२-१४६) इत्यादिना वुञ्प्रत्ययः।]]
31
=>
[[११। गर्ह्यमित्यर्थे ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इत्यनेन वदतेर्नञ्युपपदे यत् निपात्यते। अन्यत्र अनुद्यम् इत्येव। अत्र नञ्युपपदे वदतेः क्यप्। कित्त्वात् सम्प्रसारणम्।]]
32
=>
[[१२। ‘वदः सुपि क्यप् च’ (३-१-१०६) इति अनुपसर्गे सुपि उपपदे क्यव्विकल्पः। पक्षे यत्। क्यपि ब्रह्मोद्यम्। यति ब्रह्मवद्यम्।]]
33
=>
[[१३। अत्र ‘राजसूयसूर्यमृषोद्य--’ (३-१-११४) इति निपातनात् नित्यं क्यप्।]]
34
=>
[[ड्। ‘अनृतोद्यं तत्रास्ति सत्यवद्यं ब्रवीम्यहम्।’ भ। का। ६-५५।]]
35
=>
[पृष्ठम्११९२+ २५]
36
=>
[[१। ‘वदः सुपि--’ (३-१-१०६) इत्यत्र ‘सुपि’ इत्युक्तत्वात् सोपसर्गात्, निरुपसृष्टाच्च ण्यदेव। तेन वाद्यम्, प्रवाद्यम् इति सिद्ध्यतः।]]
37
=>
[[२। स्त्रियां क्तिनि ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनादिटि उदिति। क्षीरस्वामी तु उत्तिः इतीडागमाभावपक्षे मुख्यं रूपं साधयित्वा ‘इडपीष्यते उदितिः’ इत्याह।]]
38
=>
[[३। ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् सम्प्रसारणम्।]]
39
=>
[[आ। ‘उदित्वाऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता।।’ भ। का। ७। ८६।]]
40
=>
[[४। ‘अच्छ गत्यर्थवदेषु’ (१-४-६९) इति अच्छशब्दस्य गतिसंज्ञा। तेन ‘कुगतिप्रादयः’ (२-२-१८) इति समासे ल्यप्। कित्त्वात् प्रसारणम्।]]
41
=>
[[५। ‘वसिवपिवदि--’ [द। उ। १-५३]
42
=>
[[६। ‘वदेरान्यः’ [द। उ। ८-९]
43
=>
[[B। ‘वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेः…।’ प्रतापरुद्रीयं, ना। प्र। १६। श्लो।]]
44
=>
[[७। ‘भूवादि--’ [द। उ। ८-९१]
45
=>
[[८। ‘वृतॄवदि--’ [द। उ। ९-२१]
46
=>
(७-२-९)
47
=>
[पृष्ठम्११९३+ २५]