| YouTube Channel

वावण्ठिता-त्री (vAvaNThitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वठि एकचर्यायाम्”@} 2 ‘वण्ठते त्वेकचर्यायां स्थौल्ये शपि वठेदिति।’ 3 इति देवः।
‘एकस्य चर्या = एकचर्या = सहायत्वेनागमनम्’ इति क्षीरतरङ्गिण्याम्।
‘-- असहायगमनम्’ इति धा।
का।
व्याख्यायाम् 4।
बालमनो- रमायामपि एवमेव।
5 वण्ठकः-ण्ठिका, वण्ठकः-ण्ठिका, विवण्ठिषकः-षिका, वावण्ठकः-ण्ठिका
वण्ठिता-त्री, वण्ठयिता-त्री, विवण्ठिषिता-त्री, वावण्ठिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककण्ठतिवत् 6 ऊह्यानि।
घञि वण्ठः = ‘वण्ठरण्डाकल्पः’ इति महाभाष्यं 7 ‘--मृतभार्य’ इति नागोजिभट्टो व्याचख्यौ।
‘-- दत्तद्रव्यो योद्धा’ इति क्षीरस्वामी।
क्विपि-प्रवन्-प्रवण्ठौ-प्रवण्ठः इति।
प्रासङ्गिक्यः
01
=>
(१५४४)
02
=>
(१-भ्वादिः-२६२। सक। सेट्। आत्म।)
03
=>
(श्लो। ८३)
04
=>
(१-३५)
05
=>
[पृष्ठम्११८८+ २४]
06
=>
(१४९)
07
=>
(३-३-२०)