| YouTube Channel

वालेयः (vAleyaH)

 
Apte Hindi
Hindi
वालेयः
पुं*
- -
गधा
शब्दकल्पद्रुमः
Sanskrit
बा(वा)लेयः,
पुं,
(बलये उपकरणाय साधुः बलि+ “छदिरुपघिवलेर्ढञ् ।” १३ इतिढञ् ।) रासभः इत्यमरः ७७
(यथा, मार्कण्डेये ५० ८५ ।“एकच्छागं द्बिबालेयं त्रिगवं पञ्चमाहिषम् ।षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय
”बलेः स्वनामख्यातस्य दैत्यस्यापत्यं पुमान् बलि+ ढञ् ।) दैत्यविशेषः इति धरणिः
(बलिःविरोचनपुत्त्रस्तस्य बाणज्येष्ठं पुत्त्रशतं जातम्ते बालेयनाम्ना विख्याताः यदुक्तमग्नि-पुराणे ।“विरोचनस्य पुत्त्रस्तु बलिरेकः प्रतापवान् ।बलेः पुत्त्रशतं जज्ञे राजानः सर्व्व एव ते
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहावलाः ।सहस्रबाहुर्ज्येष्ठश्च कन्य द्बे बलेः शुभे
बलेः पुत्त्रास्तु पौत्राश्च शतशोऽथ सहमशः ।बालेयो नाम विख्यातो गणो विक्रान्तपौरुषः
”जनमेजयवंशोद्भवस्य सुतपसो राज्ञः पुत्त्रोबलिस्तस्य पञ्च पुत्त्राश्च बालेयाः यथा, हरि-बंशे ३१ ३० -- ३३ ।“फेनस्य सुतपा जज्ञे जज्ञे सुतपसो बलिः ।जातो मानुषयोनौ तु राजा काञ्चनेषुधिः
महायोगी तु बलिर्बभूव नृपतिः पुरा ।पुत्त्रानुत्पादयामास पञ्च वंशकरान् भुवि
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव ।पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्त्रमुच्यते
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत !
”)अङ्गारवल्लरी इति विश्वः
चाणक्यमूल-कम् इति राजनिर्घण्टः
बालेयः, त्रि, (बालाय हितः बाल + ढञ् ।)मृदुः बालहितः इति मेदिनी
(बलये उपहाराय हितः बलि + छदिरुपधि-बलेर्ढञ् ।” १३ इति ढञ् तण्डुलः
यथा, सिद्धान्तकौमुद्याम् “बालेयास्तण्डुलाः
”बलियोग्यः यथा, रघौ १४ ७७ ।“पुष्पं फलञ्चार्त्तवमाहवन्त्योबीजञ्च बालेयमकृष्टरोहि ।विनोदयिष्यन्ति नवाभिषङ्गा-मुदारवाचो मुनिकन्यकास्त्वाम्
”वितुन्नकनाम्नो वृक्षस्य त्वचि क्ली तत्पर्य्यायोयथा, --“कुटन्नटं दासपुरं बालेयं परिपेलवम् ।प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि
मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)