| YouTube Channel

वालुकास्वेदः (vAlukAsvedaH)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)लुकास्वेदः,
पुं,
(बालुकाभिर्विहितःस्वेदः ।) तप्तबालुकाभिस्तापनम् यथा, --“वातश्लेष्मकृते स्वेदान् कारयेद्रुक्षनिर्म्मितान् ।स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान्
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुका स्वेदः ।शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्
स्रोतसां मार्द्दवं कृत्वा नीत्वा पावकमाशयम् ।हत्वा वातकफस्तम्भं स्वदो ज्वरमपोहति
”इति भावप्रकाशः