| YouTube Channel

वालयन्-न्ती (vAlayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वल संवरणसंचरणयोः”@} 2 घटादिः।
‘-- संवरणे’ इत्येव क्षीरतरङ्गिणी।
‘-- संवृतौ’ इति जैनेन्द्रे।
‘-- चलने संवरणे च’ इति कातन्त्रः।
‘-- स्मृतौ’इति वोपदेवः।
‘-- संवरणे--प्रसारे’ इति काशकृत्स्नः।
इतः पूर्वं भ्वादौ ‘वल निष्पत्तौ--फलितभावे’ इति पठितम्।
अन्यत्र कोशेषु अस्य पाठो दृश्यते।
‘वलतेरात्मनेपदमनित्यम्’ इति वामनालंकारे 3।
वालकः-लिका, 4 वलकः-वालकः-लिका, विवलिषकः-षिका, वावलकः-लिका
वलिता-त्री, वालयिता-त्री, विवलिषिता-त्री, वावलिता-त्री
-- वालयन्-न्ती, वालयिष्यन्-न्ती-ती
-- वलमानः, वालयमानः, विवलिषमाणः, वावल्यमानः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककलतिवत् 5 बोध्यानि।
शतरि वलन्- 6 न्ती।
7 8 वालः-वारः-वालिः, वलिः- 9 वली, वलिनः, 10 वलीकम्, वलिभः, वलभी, 11 वालाकिः, 12 वल्मीकम्, वलिः, 13 वल्कः, 14 वलाका-वलाकी, 15 16 इत्यूकप्रत्यये निरूढः।
वलूकम् = उत्पलद्रव्यम्।]] वलूकम्, 17 वलयम्
इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५६८)
02
=>
(१-भ्वादिः-४९१। सक। सेट्। आत्म।)
03
=>
(५-२-३)
04
=>
[[३। ‘दलिवलि…’ इति घटादिषु भोजसम्मतः पाठः। ‘घटादयो मितः’ (ग। सू। भ्वादिः) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। तेन वलकः इत्यादिकानि रूपाणि। ण्यन्ते सर्वत्र एवं ह्रस्वघटितरूपाणि ऊह्यानि।]]
05
=>
(१७४)
06
=>
[[४। ‘अनुदात्तेतां तङोऽनित्यत्वात् शतरि वलन्’ इति धा। का। व्याख्या- याम् (१-६३)।]]
07
=>
[पृष्ठम्१२०७+ २८]
08
=>
[[१। संज्ञायाम् ‘हलश्च’ (३-३-१२१) इति करणे घञ्प्रत्यये रूपमेवम्। ‘वालमूल--’ (वा। ८-२-१८) इत्यादिना पक्षे रः। तेन रूपद्वयं बोध्यम्। वालः = केशः, पुच्छम् च। वालिः = देवेन्द्रस्य पुत्रः।]]
09
=>
[[२। इन्नन्तात् ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति वा ङीष्।]]
10
=>
[[३। वलति आवृणोतीत्यर्थे ‘अलीकादयश्च’ (द। उ। ३-४३) इति ईकन्प्रत्ययः। ‘वलीकनीध्रे पटलप्रान्ते’ इत्यमरः।]]
11
=>
[[४। वलाकाया अपत्यमित्यर्थे ‘बाह्वादिभ्यश्च’ (४-१-९६) इतीञ्प्रत्यये रूपम्।]]
12
=>
[[५। ‘अलीकादयश्च’ (द। उ। ३-४३) इत्यत्र ईकनन्तो निपातितः। मुमागमोऽपि निपातनादेव। ‘वामलूरुश्च नाकुश्च वल्मीकं पुन्नपुंसकम्’ इत्यमरः। वल्मीके भवः इत्यर्थे अण्प्रत्यये इञि वाल्मीकिः = आदिकविः श्रीमद्रामायणस्य कर्ता।]]
13
=>
[[६। ‘शुकवल्कोल्काः’ (द। उ। ३-२०) इति कप्रत्यये निपातितः। वल्कः = वासः, तरुत्वक् च।]]
14
=>
[[७। ‘वलाकादयश्च’ (द। उ। ३-३२) इत्याकप्रत्यये, टापि रूपमेवम्। वलाका = पक्षिजातिः। वलाका अस्य सन्तीति ‘व्रीह्यादिभ्यश्च’ (५-२-११६) इति मत्वर्थे इनिः।]]
15
=>
[[८। ‘वलूकः’ [व्यलूकः]
16
=>
(द। उ। ३-४५)
17
=>
[[९। ‘वलिमलितनिभ्यः कयन्’ (द। उ। ८-१०) इति कयन्प्रत्यये रूपमेवम्। वलयम् = आभरणविशेषः। ‘कटकं वलये सानौ’ इत्यमरः।]]