| YouTube Channel

वार्धुषिक (vArdhuSika)

 
Spoken Sanskrit
English
वार्धुषिक - vArdhuSika -
m.
- banker
वार्धुषिक - vArdhuSika -
m.
- bankofficer
वार्धुषिक - vArdhuSika -
m.
- banker
धनागारपति - dhanAgArapati -
m.
- banker
कुसीदिक - kusIdika -
m.
- banker
अधिकोष-पति - adhikoSa-pati -
m.
- banker
आधिकौषिक - AdhikauSika -
m.
- banker
अभिधानचिन्तामणिः
Sanskrit
--source--
वृद्ध्याजीवो द्वैगुणिको वार्धुषिकः कुसीदकः
वार्धुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने ८८०
-wordlist-
वृद्ध्याजीव (पुं), द्वैगुणिक (पुं), वार्धुषिक (पुं), कुसीदक (पुं), वार्धुषि (पुं), कुसीद (पुं), अर्थप्रयोग (पुं), वृद्धिजीवन (पुं)
अभिधानरत्नमाला
Sanskrit
द्वैगुणिक
द्वैगुणिक, वार्धुषिक, वृद्ध्याजीव, कुसीदिक
द्वैगुणिको वार्धुषिको वृद्ध्याजीवः कुसीदिकः प्रोक्तः ५७१
verse 2.1.1.571
page 0065
शब्दकल्पद्रुमः
Sanskrit
वार्द्धुषिकः,
पुं,
(वृद्ध्यर्थं द्रव्यं वृद्धिः तां प्रयच्छतीति ।“प्रयच्छति गर्ह्यम् ।” ३० इति ठक् ।“वृद्धेर्वृधुषिभावो वक्तव्यः ।” इति वार्त्तिकोक्तेःवृधुषिभावः ।) वृद्धिजीवी लभ्यभुक् वाडि-खोर इति सुदखोर इति भाषा तत्प-र्य्यायः कुसीदकः वृद्ध्याजीवः वार्द्धुषिः ।इत्यमरः
कुसीदः कुसीदिकः इतिशब्दरत्नावली
तस्य लक्षणं यथा, --“समर्घं धान्यमादाय महार्घं यः प्रयच्छति ।स वै वार्द्धुषिको नाम हव्यकव्यबहिष्कृतः
”इति स्मृतिः
तस्य वृद्धिग्रहणनियमो यथा, मनुः ।“अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकःशतात् ।द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन्
द्विकं शतञ्च गृह्णानो भवत्यर्थकिल्विषी ।शतकार्षापणेऽशीतिभागं विंशतिकाः पणाः
”द्विकं पुराणद्वयम् एवंविधं नियममतिक्रम्यअनापदि स्वयमन्यद्बारा वा स्वाच्छन्द्येन योव्यवहरति तस्यैव प्रायश्चित्तम् आपदि तुस्वयं करणे नियमातिक्रमे दोषः इतिप्रायश्चित्तविवेकः इत्याह्निकतत्त्वम्