| YouTube Channel

वार्द्धीनस (vArddhInasa)

 
वाचस्पत्यम्
Sanskrit
वार्द्धीनस पुंस्त्री० वारि जलानि धयति धा--क्विप् वार्द्धीःनासा नासिका यस्य नसादेशः गण्डके त्रिका०स्त्रियां ङीष “त्रिप्लवं त्विन्द्रिवक्षीणं श्वेतं वृद्धमजा-पतिम् वार्द्धीनसः प्राच्यतऽसौ हव्ये कव्ये सत्कृतः”इत्युक्ते छागभेदे “वार्द्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी”सनुः पक्षिभेदे “रक्तपादो रक्तशिरा रक्तचञ्चुविह-ङ्गमः कृष्णो वर्णेन तथा पक्षी वार्द्धीनसो मतः मा-र्क०
पु०
अयं आद्धाङ्गम् वलिदानाङ्गं कलिका
पु०
६६ अ०उक्तो यथा “नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः ।वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः” पृषो०वार्ध्रीणमोऽप्यत्र