| YouTube Channel

वार्त्तिकः (vArttikaH)

 
शब्दकल्पद्रुमः
Sanskrit
वार्त्तिकः,
पुं,
(वृत्तिं वेदेति वृत्ति + उक्थादित्वात्ठक् ।) प्रवृत्तिज्ञः चरः इति त्रिकाण्ड-शेषः
(यथा, कथासरित्सागरे ३४ ७६ ।“दुर्गतो वार्त्तिकजनो लोभात् किं नाम नाचरेत्
”(वार्त्ता कृष्यादिस्तत्र साधुः ठक् ।) वैश्यः ।(वार्त्ते आरोग्ये साधुरिति ठक् ।) वर्त्तिक-पक्षी इति राजनिर्घण्टः
वार्त्ताकी इतिशब्दरत्नावली
(वृत्तौ साधुरिति वृत्ति +“कथादिभ्यष्ठक् ।” १०२ इति ठक् ।सूत्रवृत्तिनिपुणे, त्रि
)