| YouTube Channel

वार्त्ताकुः (vArttAkuH)

 
शब्दकल्पद्रुमः
Sanskrit
वार्त्ताकुः,
स्त्री,
(वर्त्तते इति वृत् + “वृते-र्वृद्धिश्च ।” उणा० ७९ इति काकुः ।)स्वनामख्यातफलवृक्षः वेगुन इति भाषा
तत्पर्य्यायः हिङ्गुली सिंही भण्टाकी ४दुष्प्रधर्षिणी वार्त्ताकी वार्त्ता वाति-ङ्गणः वार्त्ताकः शाकविल्वः १० राज-कुष्माण्डः ११ इति जटाधरः
वार्त्तिकः १२वातिगमः १३ वृन्ताकः १४ वङ्गणः १५अङ्गणः १६ इति शब्दरत्नावली
कण्ट-वृन्ताकी १७ कण्टालुः १८ कण्टपत्रिका १९निद्रालुः २० मांसकफला २१ वृन्ताकी २२महोटिका २३ चित्रफला २४ कण्टकिनी २५महती २६ कट्फला २७ मिश्रवर्णफला २८नीलफला २९ रक्तफला ३० शाकश्रेष्ठा ३१वृत्तफला ३२ नृपप्रियफला ३३ अस्या गुणाःकटुत्वम् रुच्यत्वम् मधुरत्वम् पित्तना-शित्वम् बलपुष्टिकारित्वम् हृद्यत्वम् गुरु-त्वम् वातेषु निन्दितत्वञ्च इति राजनिर्घण्टः
अपि ।“अग्निप्रदा मारुतनाशिनी चशुक्रप्रदा शोणितवर्द्धिनी ।हृल्लासकासारुचिनाशिनी चवार्त्ताकुरेषा गुणसप्तयुक्ता
सा बाला कफवातघ्नी पृक्वा सक्षारपित्तला ।सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी
अङ्गारपक्वा वार्त्ताकुः किञ्चित्पित्तकरी मता ।कफमेदोऽनिलहरा सरा लघुतरा परा
”इति राजवल्लभः
अन्यच्च ।“वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम् ।ज्वरवातवलासघ्नं दीपनं शुक्रलं लघु
तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु ।वृन्ताकं पित्तलं किञ्चिदङ्गारोपरिपाचितम्
कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् ।तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम्
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भबेत् ।तदर्शःसु विशेषेण हितं हीनञ्च पूर्व्वतः
”इति भावप्रकाशः
वार्त्ताकुः,
पुं,
(वृत् + काकुः ।) वार्त्ताकी इतित्रिकाण्डशेषः