वार्क्षी (vArkSI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Mahabharata
EnglishVārkshī (“born of a tree”), a daughter of a muni. § 237 (Vaivāhikap.): I, 196, 7266 (munijā, wife of the ten Pracetases, acc. to Harivaṃśa, v. 96 foll., her name is Mārishā).
पुराणम्
Englishवार्क्षी / VĀRKṢĪ. Daughter of the hermit kaṇḍu. It is stated in (M.B. Ādi Parva, Chapter 195, Stanza 15, that she became the wife of the ten Pracetases. It is stated in bhāgavata, skandha 6, that dakṣa was born from this Vārkṣī
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवार्क्षी, (वृक्षस्यापत्यं स्त्री । वृक्ष + अण् ।ङीप् ।) स्त्रीविशेषः । (यथा, महाभारते ।१ । १९७ । १५ ।“तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः ।सङ्गताभूद्दश भ्रातॄन्नेकनाम्नः प्रचेतसः ॥
”इयं हि मारिषापरनाम्नी कण्डुमुनेरौरसात्प्रम्लोचागर्भगता सती पश्चात् वृक्षेभ्य उत्पन्ना ।तत्कथा यथा, विष्णुपुराणे । १ । १५ । १ -- ५३ ।पराशर उवाच ।“तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।अरक्ष्यमाणामावब्रुर्ब्बभूवाथ प्रजाक्षयः ॥
नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः ।दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥
तद् दृष्ट्वा जलनिष्क्रान्ताः सर्व्वे क्रुद्धाः प्रचेतसः ।मुखेभ्यो वायुमग्निञ्च तेऽसृजन् जातमन्यवः ॥
उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ॥
तानग्निरदहद् घोरस्तत्राभूद् द्रुमसंक्षयः ॥
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।भविष्यं जानता पूर्व्वं मया गोभिर्व्विवर्द्धिता ॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता ।भार्य्या वोऽस्तु महाभागा ध्रुवं वंशविवद्धिनी ॥
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः ।अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥
कण्डुर्नाम मुनिः पूर्व्वमासीद् वेदविदां वरः ।सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥
क्षोभितः स तया सार्द्धं वर्षाणामधिकं शतम् ।अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥
सा तं प्राह महात्मानं गन्तुमिच्छाम्यहं दिवम् ।प्रसादसुमुखो ब्रह्मन् अनुज्ञां दातुमर्हसि ॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।दिनानि कतिचिद् भद्रे स्थीयतामित्यभाषत ॥
एवमुक्ता ततस्तेन सार्द्धं वर्षशतं पुनः ।बुभुजे विषयांस्तन्वी तेन सार्द्धं महात्मना ॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदिवालयम् ।उक्तस्तयेति स मुनिः स्थीयतामित्यभाषत ॥
पुनर्गते वर्षशते साधिके सा शुभानना ।यामीत्याह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥
उक्तस्तयैवं स मुनिरुपगुह्यायतेक्षणाम् ।प्राहास्यतां क्षणं सुभ्रु चिरं कालं गमि-ष्यसि ॥
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः ।शतद्वयं किञ्चिदूनं वर्षाणामन्वतिष्टत ॥
गमनाय महाभागो देवराजनिवेशनम् ।प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥
तं सा शापभयाद् भीता दाक्षिण्येन चदक्षिणा ।प्रोक्ता प्रणयभङ्गार्त्तिवेदनी न जहौ मुनिम् ॥
तया च रमतस्तस्य महर्षेस्तदहर्निशम् ।नवं नवमभूत् प्रेम मन्मथाविष्टचेतसः ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।निष्क्रामन्तञ्च कुत्रेति गम्यते प्राह सा शुभा ॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथाभवेत् ॥
ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् ।किमद्य सर्व्वधर्म्मज्ञ परिवृत्तमहस्तव ॥
बहूनां विप्र वर्षाणां परिणाममहस्तव ।गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥
मुनिरुवाच ।प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।मया दृष्टासि तन्वङ्गि प्रविष्टा च ममाश्रमम् ॥
इयञ्च वर्त्तते सन्ध्या परिणाममहर्गतम् ।उपहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥
प्रम्लोचोवाच ।प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न ते मृषा ।किन्त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥
सोम उवाच ।ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥
प्रम्लोचोवाच ।सप्तोत्तराण्यतीतानि नववर्षशतानि ते ।मासाश्च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥
ऋषिरुवाच ।सत्यं भीरु वदस्येतत् परिहासोऽथ वा शुभे ।दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥
प्रम्लोचोवाच ।वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके ।विशेषेणाद्य भवता पृष्टा मार्गानुवर्त्तिना ॥
सोम उवाच ।निशम्य तद् वचः सत्यं स मुनिर्नृ पनन्दनाः ।धिङ्मां धिङ्मामतीवेत्थं निनिन्दात्मानमा-त्मना ॥
मुनिरुवाच ।तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।हतो विवेकः केनापि योषिन्मोहाय निर्म्मिता ॥
ऊर्म्मिषत्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।मतिरेषा हृता येन धिक् तं काममहाग्रहम् ॥
व्रतानि वेदविद्याप्तिकारणान्यखिलानि च ।नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥
विनिन्द्ये त्थं स धर्म्मज्ञः स्वयमात्मानमात्मना ।तामप्सरसमासीनामिदं वचनमब्रवीत् ॥
गच्छ पापे यथाकामं यत् कार्य्यं तत्कृतं त्वया ।देवराजस्य मत्क्षोभं कुर्व्वन्त्या भावचेष्टितैः ॥
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।सतां साप्तपदं मैत्रमुषितोऽहं त्वया सह ॥
अथवा तव को दोषः किं वा कुप्याम्यहं तवममैव दोषो नितरां येनाहमजितेन्द्रियः ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।त्वया धिक् तां महामोहमञ्जूषां सुजुगुप्सिताम् ॥
सोम उवाच ।यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् ।तावद् गलत्स्वेदजला सा बभूवातिवेपथुः ॥
प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् ।गच्छ गच्छेतिंसक्रोधं उवाच मुनिसत्तमः ॥
सा तु निर्भत्सिता तेन विनिष्क्रम्य तदाश्रमात् ।आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥
वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः ।निर्म्मार्ज्जमाना गात्राणि गलत्स्वदजलानि वै ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥
तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः ।मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥
वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना ।तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशान्ध-ताम् ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।ममापत्यं तथा वायोः प्रम्लोचा तनया च सा ॥
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।ब्रह्मपारमयं कुर्व्वन् जपमेकाग्रमानसः ।ऊर्द्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
