| YouTube Channel

वारुणकर्म्म (vAruNakarmma)

 
शब्दकल्पद्रुमः
Sanskrit
वारुणकर्म्म,
क्ली,
(वारुणं जलसम्बन्धि कर्म्म ।)जलाशयखननादि तस्य शुभाशुभकालादियथा, --यम उवाच ।“सुदिने शुभनक्षत्रे चन्द्रताराबलैर्युते ।सदृतुस्तु भवेद्यत्र काले तस्मिन् विधिः स्मृतः
सदृतौ तु कृते कर्त्तुः संपूर्णस्तन्मनोरथः ।कर्कटे पुत्त्रलाभस्तु सौख्यं तु मकरे भवेत्
मीने यशोऽर्थलाभस्तु कुम्भे सुबहूदकम् ।वृषे मिथुने वृद्धिर्वृश्चिके निर्ज्जलं भवेत्
पितृतृप्तिस्तु कन्यायां तुलायां सत्यसङ्गतिः ।सिंहे मेषे धनं नाशं जलस्य कुरुते द्विज ।तथा चैतेषु लग्नेषु वारुणं कर्म्म नो दिशेत्
”इति वह्निपुराणे वारुणारामप्रतिष्ठानामा-ध्यायः