| YouTube Channel

वारवाणिः (vAravANiH)

 
शब्दकल्पद्रुमः
Sanskrit
वारवाणिः,
पुं,
(वारं शब्दसमूहं वणते इति ।वण + इण् ।) वंशीवादकः इति त्रिकाण्ड-शेषः
उत्तमगायकः इति शब्दरत्नावली
धर्म्माध्यक्षः संवत्सरः इत्यजयपालः
एत-न्मते पवर्गीयादिः
वारवाणिः,
स्त्री,
(वारे अर्थदानावसरे वाणिःप्रियालापो यस्याः ।) वेश्या इति त्रिकाण्ड-शेषः