| YouTube Channel

वायसः (vAyasaH)

 
Apte
English
वायसः [vāyasḥ], [वयो$सच् णित्
Uṇ.*
3.118]
A crow
बलिमिव परिभोक्तुं वायसास्तर्कयन्ति
Mk.*
1.3.
Fragrant aloe-wood, agallochum.
Turpentine.
A house facing the north-east. -सम् a multitude of crows.
Comp.
-अरातिः, -अरिः an owl. -आह्वा A kind of esculent vegetable.-इक्षुः a kind of long grass. -विद्या the science of (augury from observing) crows
Bṛi. S.
Apte 1890
English
वायसः [वय एव अण् Uṇ. 3. 120] 1 A crow
बलिमिव परिभोक्तु वायसास्तर्कयंति Mk. 10. 3.
2 Fragrant aloe-wood, agallochum.
3 Turpentine.
Comp.
अरातिः,
अरिः an owl.
आह्वा a kind of esculent vegetable.
क्षुः a kind of long grass.
Apte Hindi
Hindi
वायसः
पुं*
- वयोऽसच् णित्
कौवा
वायसः
पुं*
- -
"सुगन्धित अगर की लकड़ी, अगुरुकाष्ठ"
वायसः
पुं*
- -
तारपीन
Wordnet
Sanskrit
Synonyms:
काकः, वायसः, ध्माक्षः, ध्वांक्षः, ध्वांक्षरावी, करटः, बलिभुक्, बलिभुज्, गृहबलिभुज्, गृहबलिभुक्, बलिपुष्टः, बलिपुष्टा, बलिपुष्टम्, चिरञ्जीवी, काणः, काणूकः, मौकुलिः, दिवाटनः, शक्रजः, सकृत्प्रजः, मलभुक्, मलभुज्, प्रातर्भोक्ता, कारवः, अन्यभृत्, यूकारिः, अरिष्टः, आत्मघोषः
noun
खगविशेषः- कृष्णवर्णीयः खगः यस्य ध्वनिः कर्कशः।
"काकः शाखायां स्थित्वा काकध्वनिं करोति।"
Tamil
Tamil
வாயஸ: : காக்கை, அகில், தூபம் போடும் பொருள்.
शब्दकल्पद्रुमः
Sanskrit
वायसः,
पुं,
(वयते इति वय गतौ “वयश्च ।”उणा० १२० इति असच् सच णित् ।)अगुरुवृक्षः श्रीवासः काकः इति मेदिनी ।से, ३८
(यथा, महाभारते २७० ३१ ।“श्वगृघ्रकङ्ककाकोलभासगोमायुवायसाः ।अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः
”)अस्योत्पत्तिर्यथा, --“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महा-बलौ ।सम्पातिश्च जटायुश्च प्रभूतौ पक्षिसत्तमौ ।सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः
”इति वह्निपुराणे वाराहप्रादुर्भावः
*
अस्य एकाक्षिनाशकारणं यथा, --मार्कण्डेय उवाच ।“गते तु भरते तस्मिन् रामः कमललोचनः ।लक्ष्मणेन सह भ्रात्रा भार्य्यया सीतया सह ।शाकमूलफलाहारो विचचार महावने
एकदा लक्ष्मणमृते रामदेवः प्रतापवान् ।चित्रकूटे वने देशे वैदेह्या सङ्गमाश्रितः
सुष्वाप सुमुहूर्त्तञ्च ततः काको दुरात्मवान् ।सीताभिमुखमभ्येत्य विददार स्तनान्तरम् ।विदार्य्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः
ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरम् ।शोकाविष्टान्तु सीतां तामुवाच कमलेक्षणः
किमिदं स्तनान्तरे भद्रे तव रक्तस्य कारणम् ।इत्युक्ता सा तं प्राह भर्त्तारं विनयान्विता
पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् ।येनैतच्च कृतं कर्म्म सुप्ते त्वयि महामते
रामोऽपि दृष्ट्वा तं काकं तस्मिन् क्रोधमथा-करोत् ।ऐषिकास्त्रं समादाय ब्रह्मास्त्रेणाभिमन्त्रितम्
काकमुद्दिश्य चिक्षेप सोऽवधावद्भयान्वितः
त्विन्द्रस्य सुतो राजन् इन्द्रलोकं विवेश ।रामास्त्रं प्रज्वलं दीप्तं तस्यानुप्रविवेश वै
विदितार्थश्च देवेन्द्रो देवैः सर्व्वैः समन्वितः ।निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम्
ततोऽसौ सर्व्वदेवैस्तु देवलोकाद्बहिष्कृतः ।पुनः सोऽभ्येत्य रामञ्च राजानं शरणं गतः
त्राहि राम महाबाहो अज्ञानादपकारि-णम् ।इति ब्रुवन्तं प्राह रामः कमललोचनः
अमोघाय ममास्त्राय अक्षि एकं प्रयच्छ मे ।ततो जीवसि दुष्टात्मन् मेऽपराधो महान् कृतः
इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् ।अस्त्रञ्च नेत्रमेकन्तु भस्मीकृत्य शमं ययौ
ततः प्रभृति सर्व्वेषां काकानामेकनेत्रता ।चक्षुषैकेन पश्यन्ति हेतुनानेन पार्थिव !
”इति नरसिंहपुराणे ४३ अध्यायः
(वायससम्बन्धिनि, त्रि यथा, महाभारते ।१२ ८२ -- ।“स काकं पञ्जरे बद्धा विषयं क्षेमदर्शिनः ।सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः
अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः ।अनागतमतीतञ्च यच्च संप्रति वर्त्तते
”)