| YouTube Channel

वायव्यं (vAyavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
वायव्यं, त्रि, (वायुर्देवतास्येति वायु + “वाय्वृतु-पित्रुषसो यत् ।” ३१ इति यत् ।)वायुसम्बन्धिदिगादि यथा विल्वयुग्ममुपक्रम्यगवाक्षतन्त्रे ।“वायव्यस्थं नैरृतस्थं गृह्णीयात् कदाचन
”इति तिथ्यादितत्त्वम्
(वायुदेवताकपशुहविरादि यथा, ऋग्वेदे ।१० ९० ।“तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् ।पशून्ताँश्चक्रे वायव्यानारण्यान् ग्रामाश्च ये
”“वायव्यान् वायुदेवताकान् ।” इति तद्भाष्येसायणः
*
क्ली,
षट्शताधिकचतुर्विंशति-सहस्रश्लोकात्मकवायुनामकमहापुराणम् यथा, देवीभागवते ।“अयुतं वामनाख्यञ्च वायव्यं षट्शतानि ।चतुर्विंशतिः संख्यातः सहस्राणि तु शौनक !
”अस्त्रविशेषः यथा, महाभारते १३६ १९ ।“आग्नेयेनासृजद्वह्निं वारुणेनासृजत् पयः ।वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान्
”)