वायकः-यिका (vAyakaH-yikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“अज गतिक्षेपणयोः”@} 2 क्षेपणम् = प्रेरणम्।
3 वायकः-यिका, वायकः-यिका विवीषकः- 4 अजिजिषकः-षिका,
वेवीयक
5 वेता-त्री, 6 अजिता-त्री, वाययिता-त्री, विवीषिता-त्री, अजिजिषिता, वेवीयिता-त्री
अजन् 7 -न्ती, वाययन्-न्ती, विवीषन्-न्ती, अजिजिषन्-न्ती
वेष्यन्-न्ती-ती, अजिष्यन्-ती-न्ती, बाययिष्यन्-ती-न्ती, विवीषिष्यन्-ती-न्ती, अजिजिषिष्यन्-ती-न्ती
वाययमानः, वाययिष्यमाणः, वेवीयमानः, वेवीयिष्यमाणः
परिवीः-परिव्यौ-परिव्यः, समक्-समजौ-समजः
वीतः, अजितः-वायितम्-तः, विवीषितः, अजिजिषितः, वेवीयितः-तम्-तवान्, अजः, 8 अजा, 9 आजिः, 10 पदाजिः, 11 विवीषुः, विवाययिषुः, अजिजिषुः, आजिजयिषुः, वेबीय
12 वेतव्यम्-अजितव्यम्, वाययितव्यम्, विवीषितव्यम्, अजिजिषितव्यम्, वेवीयितव्यम्
वयनीयम्, वायनीयम्, विवीषणीयम्, अजिजिषणीयम्, वेवीयनीयम्
वेयम्, वाय्यम्, विवीष्यम्, अजिजिष्यम्, वेवीय्यम्
ईषद्वयः, दुर्वयः, सुवयः
वीयमानः, वाय्यमानः, विवीष्यमाणः, अजिजिष्यमाणः
वेवीय्यमानः
13 समजः, 14 समाजः 15, उदाजः, -वायः, वात 16 मजा 17 ः 18, व्यजः 19, व्याजः 20
वेतुम्, अजितुम्, वाययितुम्, विवीषितुम्, अजिजिषितुम्, वेवीयितुम्
वीतिः, अक्तिः, 21 समज्या, वायना, विवीषा, विवाययिषा, अजिजिषा, आजिजयिषा, वेवीया
प्रवयणम् 22 -प्राजनम्, वायनम्, विवीषणम्, अजिजिषणम्, वेवीयनम्
वीत्वा, अजित्वा, वाययित्वा, विवीषित्वा, अजिजिषित्वा, वेवीयित्वा
प्रवीय, प्राज्य, प्रवाय्य, प्रविवीष्य, प्राजिजिष्य, प्रवेवीय्य
वायम् २, वीत्वा २, अजित्वा २, वायम् २ वाययित्वा २, विवीषम् २, विवीषित्वा २, अजिजिषम् २, अजिजिषित्वा २, वेवीयम् २, वेवीयित्वा २
औणादिके = अजिनम् 23 -अजिरम् 24
25
01 (९)
02 (भ्वादिः-१-२३०-सक। सेट्-पर-)
03 [[१। ‘अजेर्व्यघञपोः’ (२-४-५६) इति वीभावः।]]
04 [[२। ‘वलादावार्धधातुके वेष्यते’ (२-४-५६ वा) इति वा वीभावः।]]
05 [[१। आ। आर्धधातुकविवक्षायां वीभावात् हलादित्वात् यङ्।]]
06 [[२। ‘वलादावार्धधातुके वेष्यते’ (२-४-५६ वा) इति वा वीभावः।]]
07 [[आ। ‘अकर्जितोऽसौ हरिखर्जनोत्कधीः अजत्पशुब्रातमजेन तेजितम्’ धा-का-१-३१।]]
08 [[आ। ‘अकर्जितोऽसौ हरिखर्जनोत्कधीः अजत्पशुब्रातमजेन तेजितम्’ धा-का-१-३१।]]
09 [[३। ‘अजाद्यतष्टाप्’ (४-१-४) इति टाप्]]
10 [[४। ‘अज्यतिभ्याम्--पादे च’ (४-१३१) इत्यौणादिकः इण् प्रत्ययः।]]
11 [[४। ‘अज्यतिभ्याम्--पादे च’ (४-१३१) इत्यौणादिकः इण् प्रत्ययः।]]
12 [पृष्ठम्०००९+ ३९]
13 [[१। ‘समुदोरजः पशुषु’ (३-३-६९) इत्यपू।]]
14 [[१आ ‘अजिव्रज्योश्च’ (७-३-६०) इति कुत्वं न भवति। ‘पशूनां समजो ऽन्येषां समाजोऽथ सधर्मिणाम्’ इति अमरकोशः।]]
15 [[B। ‘गुहाद्वारेण निर्यातः समजेन पशूनिव’ भट्टिकाव्ये-७-५९।]]
16 [[C। ‘मेघात्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्’ भ-का-२-१७।]]
17 [[२। ‘वातशुनीतिलशर्घेषु अजधेट्जहातीनां’ (वा। ३-२-२८) इति खश्। मुम्। सार्वधातुकत्वान्न वीभावः।]]
18 (मृगाः)
19 [[३। ‘गोचरसंचरवहव्रजव्यज-’ (३-३-११९) इति घान्तो निपातितः।]]
20 [[ड्। ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः’ भ-का-२-३७।]]
21 [[४। ‘संज्ञायां समज-’ (३-३-९९) इति स्त्रियां क्यप्। निपातनात् वीभावो न।]]
22 [[५। ‘वा यौ’ (२-४-५७) इति वीभावो वा।]]
23 [[६। अजिनम् = चर्म। अजति-वीयते वा तत्-कर्म, कर्ता वा। इन प्रत्ययः।]]
24 [[७। अजिरम् = वेश्म। अजन्त्यस्मिन् इत्यधिकरणे किर प्रत्ययः।]]
25 [पृष्ठम्००१०+ २७]
1 {@“वय गतौ”@} 2 वायकः-यिका, वायकः-यिका, विवयिषकः-षिका, वावयकः-यिका
वयिता-त्री, वाययिता-त्री, विवयिषिता-त्री, वावयिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचयतिवत् 3 बोध्यानि।
शानचि- 4 वयमानः, 5 वयनः, 6 वयटः, 7 इति असच्प्रत्यये णित्संज्ञके च रूपमेवम्।
णित्त्वात् उपधावृद्धिः।
वायसः = काकः।]] वायसः, 8 असुन्प्रत्यये रूपमेवम्।
वयते गच्छति तदाशु इति वयः = शरीरावस्था।
पक्षी इति केचित्।]] वयः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
वयी = स्त्री, वायिः = सगोत्रः, वायः = व्यर्थः, वायम् = मुखम्।
01 (१५५९)
02 (१-भ्वादिः-४७५। सक। सेट्। आत्म।)
03 (५०२)
04 [पृष्ठम्१२०३+ २९]
05 [[१। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्प्रत्ययः।]]
06 [[२। ‘शकादिभ्योऽटन्’ (द। उ। ५-२) इत्यटन्प्रत्यये रूपमेवम्। वयटः = रसः।]]
07 [[३। ‘वयो णित्’ [द। उ। ९-४६]
08 [[४। औणादिके [द। उ। ९-४९]
1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं च गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् २ -वाजम् २, वापयित्वा २ -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम् २
वावायित्वा २
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
01 (१५८४)
02 (२-अदादिः-१०५०। सक। अनि। पर।)
03 (श्लो। १०)
04 (२-४९)
05 [[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06 [[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07 [[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08 [[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09 [पृष्ठम्१२२२+ २७]
10 [[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे च रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11 [अग्निः, भिक्षुर्वा]
12 [वातः]
13 [[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14 [[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15 [[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16 [[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17 [[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके च रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18 [[B। ‘मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19 [[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20 [[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21 [[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22 [पृष्ठम्१२२३+ २४]
1 {@“वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@} 2 3 ‘ईज’ इत्यत्र ‘वीजेरलौकिकादवीजयत्’ इति क्षीरतरङ्गिण्यां दृश्यते।
‘वीज- धातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थः।
‘संवीजते’ इति प्रयोगस्तु जाम्बवतीविजये दृश्यते यथा-- ‘घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्।।’ इति तट्टीकायामुक्तम्।
‘वीजन्ति वालव्यजनैः--’ इति हरिवंशे 4 5 इति च।]] अत्र व्याप्तिः इत्यर्थः धातुवृत्ति, क्षीरतरङ्गिणी, जै, का।
कृ, द।
उ।
वृत्ति।
कातन्त्रशाकटायनीयेषु न दृश्यते।
“प्रजनः = प्रथमगर्भग्रहणम्, असनं = क्षेपणं, अशनं = व्याप्तिरित्येके” इति क्षीरस्वामी।
‘प्रजननकान्त्यासन- खादनेषु च’ इति काशकृत्स्नधातुपाठे।
“कन्नडटीकायाम् आसनार्थस्य निर्देशात् काशकृत्स्ने ‘आसन’ इति पाठो द्रष्टव्यः।
यद्वा मूलपाठे प्रमाद- पठितस्यैव टीकाकृता तथा व्याख्यानं कृतं स्यात्” इति का।
कृ।
टीका।
‘अजेर्व्यघञपोः’ 6 इति सूत्रभाष्यरीत्या अस्य धातोः आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्।
“‘वी’ इत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते” इति सि।
कौमुदी।
‘--कान्तिगतिव्याप्तिक्षेपप्रजन- खादनेषु’ इति वोपदेवः।
वायकः-यिका, वायकः, 7 वापकः-पिका, 8 विवीषकः-षिका, वेवीयकः-यिका
9 वेता-त्री, वाययिता-वापयिता-त्री, विवीषिता-त्री, वेवीयिता-त्री
10 वियन्-ती, वाययन्-पुरोवातो गाः, प्रवापयन्, वापयन्-न्ती, विवीषन्-न्ती
-- वेष्यन्-न्ती-ती, वाययिष्यन्-वापयिष्यन्-न्ती-ती, विवीषिष्यन्-न्ती-ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकलिनातिवत् 11 ज्ञेयानि, प्राति- स्विकरूपाणि विना।
निष्ठायाम् वीतम्-तः, 12 वयः, क्तिनि-वीतिः, वेणिः 13, वेणुः 14, वीणा 15, 16 वेतनम्, 17 वेत्रम्, 18 वेतसः, वयः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
01 (१६१७)
02 (२-अदादिः-१०४८, सक। अनि। पर।)
03 [[[अ]
04 (१३-९२)
05 (म। भारते ७-३०७)
06 (२-४-५६)
07 [[१। ‘प्रजने वीयतेः’ (६-१-५५) इति प्रजने वर्तमानस्य णौ विभाषा आत्वे, पुकि च रूपमेवम्।]]
08 [[२। सन्नन्तात् ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः।]]
09 [पृष्ठम्१२४५+ २६]
10 [[१। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रकृतेः इत्यङादेशे च रूपमेवम्।]]
11 (१४९२)
12 [[२। ‘एरच्’ (३-३-५६) इति भावे अकर्तरि च कारके संज्ञायामच्प्रत्यये रूपम्। घञोऽपवादः।]]
13 [[३। ‘वीज्याज्वरिभ्यो निः’ (द। उ। १-१८) इति निप्रत्ययः। बाहुलकात् णत्वम्। वेणिः = केशबन्धः।]]
14 [[४। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वेणुः = वंशः। अत्रापि बाहुल- कादेव णत्वम्।]]
15 [[५। औणादिके (द। उ। ५-४७) नप्रत्ययो णत्वं गुणाभावश्च निपातनात्। तेन रूपमेवम्। वेति जायते स्वरोऽस्यामिति वीणा = वल्लकी। ‘वीणा तु वल्लकी। विपञ्ची’ इत्यमरः।]]
16 [[६। ‘वीपतिभ्यां तनन्’ (द। उ। ६-५६) इति तनन्प्रत्ययः। वेतनम् = भृतकदानम्। भृतकर्मकधनमिति केचित्।]]
17 [[७। ‘गुधृवी--’ (द। उ। ८-८९) इति त्रप्रत्यये रूपमेवम्। वेत्रम् = वीरुद्विशेषः।]]
18 [[८। ‘वियस्तुट् च’ (द। उ। ९-४५) इति अचस्प्रत्यये तुडागमे च रूपमेवम्। बेतसः = काष्ठजातिः।]]
1 {@“वेञ् तन्तुसन्ताने”@} 2 यजादिः।
‘वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
‘व्याप्तौ छादने चाह भट्टिः’ इति धा।
का।
व्याख्या 4।
5 6 वायकः-यिका, 7 वायकः-यिका, 8 विवासकः-सिका, 9 वावायकः-यिका
वाता-त्री, वाययिता-त्री, विवासिता-त्री, वावायिता-त्री
10 वयन्-न्ती, वाययन्-न्ती, विवासन्-न्ती
-- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 11 ज्ञेयानि।
12 तन्तुवायः, 13 प्रवाणी-निष्प्रवाणिः, 14 उतम्-उतः-उतवान्, प्रोतः, 15 प्रवयणम्, उत्वा, 16 प्रवाय, 17 ऊतिः, 18 विः = पक्षी, वेमा।
19 आवायः, 20 पटोत्।
21
01 (१६४०)
02 (१-भ्वादिः-१००६। सक। अनि। पर।)
03 (श्लो। १०)
04 (२-४३)
05 [पृष्ठम्१२६३+ ३१]
06 [[१। ‘आदेच उपदेशे--’ (६-१-४५) इत्याकारः। ‘आतो युक्--’ (७-३-३३) इति युगागमः।]]
07 [[२। ण्यन्ते सर्वत्रादन्तलक्षणपुगपवादः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमः।]]
08 [[३। धातोरनिट्त्वात् रूपाण्येवम्। सन्नन्तेऽभ्यासस्येकारः।]]
09 [[४। यङन्ते सर्वत्र औपदेशिकस्य एकारस्य आकार इति विशेषः। नच वाच्यम्। ‘ग्रहिज्यावयि--’ (६-१-१६) इत्यनेन यङन्ते ङित्त्वात् कथं न सम्प्रसारणमिति
\n\n यतोऽत्र ‘वयि’ ग्रहणात् ‘वेञो वयिः’ (२-४-४१) इति प्राप्तस्य वय्यादेशवि- शिष्टस्य वेञ एव ग्रहणम्
\n\n न त्वस्येति यङन्ते ङित्त्वेऽपि प्रत्ययस्य न सम्प्रसारण- मिति ज्ञेयम्। क्त्वादिषु तु यजादित्वात् सम्प्रसारणमिति विशेषः।]]
10 [[५। ‘-- अशिति’ (६-१-४५) इत्युक्तत्वात् शतरि न आकारः। अयादेशः।]]
11 (२६३)
12 [[६। तन्तून् वयति इति तन्तुवायः। ‘ह्वावामश्च’ (३-२-२) इति कर्मणि उपपदे अण् प्रत्ययः। ‘आतोऽनुपसर्गे कः’ (३-२-३) इत्यस्यापवादः। “आत्वभाविन एजन्तात् आकारान्तनिमित्तकः। प्रत्ययो ज्ञाप्यते सर्वो “ह्वावामश्चे” (३-२-२) त्यणा पुनः।।” इति पदमञ्जरी (६-१-४५)।]]
13 [[७। नवं वासः प्रवयन्त्यस्यामिति प्रवाणी तन्तुवायशलाका। ‘ल्युट् च’ (३-३-११५) इति अधिकरणे ल्युट्। टित्त्वात् स्त्रियां ङीप्।]]
14 [[८। निष्ठायाम् ‘वचिस्वपियजादीनाम् किति’ (६-१-१५) इति सम्प्रसारणे, पूर्वरूपे च रूपमेवम्। एवं क्त्वाप्रभृतिष्वपि ज्ञेयम्।]]
15 [[९। प्रवयणम् इत्यत्र ल्युट्। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।]]
16 [[१०। ‘न ल्यपि’ (६-१-४९) इति सम्प्रसारणनिषेधः।]]
17 [[११। ‘ऊतियूति--’ (३-३-९७) इति क्तिन्नन्तो निपातितः। ऊतिः = वयनम्--इति क्षीरस्वामी। काशिकादिषु तु अवतेरूठि स्वरार्थं निपातनम् इत्युक्तम्।]]
18 [[१२। ‘वेञो डित्’ (द। उ। १-६२) इति इण्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः। नीडं--वयतीति विः पक्षी
\n\n तन्तुवायो वा।]]
19 [[१३। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति आर्ङ्पूवकादस्मात् घापवादो घञ्। आवयन्ति अस्मिन् इति आवायः = तन्तुवायवाटिका।]]
20 [[१४। पटं वयतीति पटोत्। ‘क्विप् च’ (३-२-७६) इति क्विप्। सम्प्रसारणे पूर्वरूपे च ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। इति प्रक्रियासर्वस्वम्।]]
21 [पृष्ठम्१२६४+ २८]
1 {@“ओ वै शोषणे”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।’ 3 इति देवः।
4 वायकः-यिका, 5 वापकः-यिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, विवासिता-त्री, वावायिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि विशेषरूपाणि विना भौवादिकपायतिवत् 6 ज्ञेयानि।
7 वानम्, 8 इति उण्प्रत्यये रूपमेवम्।
वाति वायति वा द्रव्याणि इति वायुः।
“भाष्यकारमते अजेरपि धातोः ‘यजिमनि--’ 9 इत्यादिना बहुलग्रहणाद् युचि ‘वा यौ’ 10 इत्यनेन वादेशे ‘वायुः’ इति पदं सिद्ध्यति” इति प्रकृतसूत्रे 11 टिप्पन्यामुक्तम्।
तथा च भाष्ये ‘न तर्हीदानीमिदं ‘वा यौ’ 12 इति वक्तव्यम्।
वक्तव्यं च।
किं प्रयोजनम्? नेयं विभाषा।
किं तर्हि? आदेशोऽयं विधीयते।
‘वा’ इत्ययमादेशो भवत्यजेर्यौ परतः--वायुरिति” इत्येवं दृश्यते।]] वायुः इमे रूपे विशेषेण भवतः।
01 (१६५१)
02 (१-भ्वादिः-९२१। सक। अनि। पर।)
03 (श्लो। १०)
04 [पृष्ठम्१२६८+ ३१]
05 [[१। णिजन्ते सर्वत्र आदन्तलक्षणः पुगागम इति विशेषः।]]
06 (१०६२)
07 [[२। ‘ओदितश्च’ (८-२-४५) इति निष्ठातकारस्य नत्वे रूपमेवम्।]]
08 [[३। ‘कृवापा--’ [द। उ। १-८६]
09 (द। उ। १-१३४)
10 (२-४-५७)
11 (द। उ। १-८६)
12 (२-४-७५)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
