| YouTube Channel

वामाचारः (vAmAcAraH)

 
Apte Hindi
Hindi
वामाचारः
पुं*
वाम-आचारः -
तांत्रिक मत में प्रतिपादिक अनुष्ठानपद्धति
शब्दकल्पद्रुमः
Sanskrit
वामाचारः,
पुं,
(वामो विपरीतो वेदविरुद्धोवा आचारः ।) आचारविशेषः यथा, --“पञ्चतत्त्वं खपुष्पञ्च पूजयेत् कुलयोषितम् ।वामाचारो भवेत्तत्र वामा भूत्वा यजेत्पराम्
”इत्याचारभेदतन्त्रम्
तदाचारवतां नरकगमनं यथा, --“स्वधर्म्मरहिता विप्रा वेदान्यसेविनः सदा ।भ्रष्टाचाराश्च वामाञ्च ते यान्ति नरकं ध्रुवम्
”इति ब्रह्मवैव्रर्त्ते प्रकृतिखण्डे २४ अध्यायः
तत्पशंसा यथा, --“चत्वारो देवि वेदाद्याः पशुभावे प्रतिष्ठिताः ।वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः
”इति नित्यातन्त्रम्
“सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् ।वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम्
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।सिद्धान्तादुत्तमं कौलं कौलात् परतरं नहि
”इति कुलार्णवतन्त्रे खण्डम्
*
तदाचारयुक्तस्य निषिद्धकर्म्माणि यथा, --“न दद्यात् ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।वामकामो ब्राह्मणो हि मद्यं मांसं भक्ष-येत्
”तदनुकल्पो यथा कुलचूडामणौ ।“यत्रासवमवश्यन्तु ब्राह्मणन्तु विशेषतः ।तत्र गुडार्द्रकं दद्यात् ताम्रे वा विसृजेन्मधु
देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् ।एतद्द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन
वैश्यस्य माक्षिकं शुद्धं क्षत्त्रियस्य तु साज्यकम् ।ब्राह्मणस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु ।नारिकेलोदकं कांस्ये सर्व्वेषां द्रव्यशोधनम्
”क्षत्त्रियवैश्ययोस्तु गौडी माध्वी दातव्या तत्रतयोरधिकारात् तदभावे अनुकल्पविधानम् ।तथा ।“गोक्षीरं ब्राह्मणो दद्यात् द्रव्यमाज्यञ्चबाहुजः ।वैश्यश्च माक्षिकं द्रव्यं शूद्रः पैष्ट्यादिकं पुनः
”तेन शूद्रस्य नानुकल्पः
*
कुलार्णवे ।“जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् ।पौष्पं तरुभवं धान्यसम्भवं तक्रनिर्म्मितम्
सहकारभवं देवि त्रिविधं बहुभेदकम् ।मादकं धर्म्मसंभेदात् वर्ज्ज्यमासीत् सुलोचने
ज्ञानेन संस्कृतन्तत्तु महापातकनाशनम् ।तद्दाने पातकाभावो दिव्यभावविषयं वा
*
माकन्दफलजं रम्यं द्रव्यं सेव्यं द्बिजातिभिः ।अमादकत्वाद्देवेशि ऐक्षवं सेव्यते बुधैः
”एतेन क्षत्त्रियादिभिरमादकं द्रव्यं सेव्यं मादकस्यपापहेतुकत्वमुक्तम् भैरवतन्त्रे ।“मद्यं मांसं विना वत्स यत्किञ्चित् कुलसा-धनम् ।शक्त्यै दत्त्वा ततः शेषं गुरवे तन्निवेदयेत् ।तदनुज्ञां मूर्द्ध्नि कृत्वा शेषमात्मनि योजयेत्
”तेन क्षत्त्रियादीनां सुख्यदाने अधिकारः ।न पाने यत्तु ।“पीत्वा पीत्वा पुनः पीत्वा पतित्वा महीतले ।उत्थाय पुनः पीत्वा पुनर्ज्जन्म विद्यते
”वत्तु चयुर्थाश्रमिपरम्
*
तद्द्रव्यकरणेजातिचिन्तां कुर्य्यात् ।“मदिरायां मैथुने जातिचिन्तां कार-येत्
”एतेषां शोधनस्यावश्यकत्वम् तथा ।“संशोधनमनाचर्य्य स्त्रीषु मद्येषु साधकः ।आचार्य्य सिद्धिह्रानिः स्यात् क्रुद्धा भवतिसुन्दरी
”मद्येषु मुख्यानुकल्पेषु
*
तथा कुलपूजाया-मस्यावश्यकत्वम् तथा ।“मधु मांसं विना देवि कुलपूजां समाचरेत् ।जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति
*
अथ मांसादिशोधनम् ।“मांसन्तु त्रिविधं ज्ञेयं जलखेचरभूचरम् ।मांसन्तु त्रिविधं प्रोक्तं देवताप्रीतिकारकम्
मत्स्यञ्च त्रिविधं देवि उत्तमाधममध्यमम् ।उत्तमं त्रिविधं मत्स्यं शालपाठीनरोहितम्
प्रवीणं कण्टकैर्हीनं तैलाक्तं वल्कलैर्य्युतम् ।देव्याः प्रीतिकरञ्चैव मध्यमं तच्चतुर्व्विधम् ।क्षुद्राणि तानि सर्व्वाणि अधमानि विदुर्बुधाः
”भूचरमांसञ्च ।“गोमेषाश्वलुलापोत्थगोधाजोष्ट्रमृगोद्भवम् ।महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम्
”मांसाभावे अनुकल्पः समयाचारे ।“लवणार्द्रकपिण्याकतिलगोधूममाषकम् ।लशुनञ्च महादेवि मांसप्रतिनिधिः स्मृतः
*
मुद्रा तु द्बिविधा कुलार्णवे ।“कृषरं मण्डलाकारं चन्द्रपद्मनिभं शुभम् ।चारु पङ्कमनोहारि शर्कराद्यैश्च पूरितम् ।पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता
”यामले ।“भृष्टधान्यादिकं यावत् चर्व्वणीयं प्रकल्पयेत् ।तेषां संज्ञा कृता मुद्रा महामोदप्रदायिनी
”तेषां शोधनन्तु स्वतन्त्रतन्त्रे ओँ प्रतद्विष्णु-रित्यादि मांसम् त्र्यम्बकमित्यादि मीनम् ।तद्बिष्णोरित्यादि मुद्राम्
*
अथ शक्ति-शोधनम् तत्र भावचूडामणौ ।“अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ।तत्कथाश्रवणं चेत् स्यात् तत्तल्पगमनं यदि ।स कुलीनः कथं देवि पूजयेत् परमेश्वरीम्
”श्रीक्रमे संशोधनमनाचर्य्येति कौलिकतन्त्रे ।“अभिषेकाद्भवेच्छुद्धिर्म्मन्त्रस्योच्चारबिन्दुभिः ।बलाद्वा यत्नतो वापि अभिषेकं समाचरेत्
”अभिषेकमन्त्रस्तु ।“आदौ वाणीं समुच्चार्य्य त्रिपुरायै समुद्धरेत् ।नमःशब्दं समुच्चार्य्य इमां शक्तिं ततो वदेत्
पवित्रीकुरु शब्दान्ते मम सिद्धिं कुरु प्रिये ।वह्निजायां समुच्चार्य्य शुद्धिमन्त्रः सुरेश्वरि ।तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुद्धरेत्
”इति शक्तिशोधनम्
*
ततः शोधितद्रव्यमर्ध्ये क्षिपेत् श्रीक्रमे अर्ध्य-विधौ ।“पूर्व्वशोधितद्रव्यन्तु गुप्तैनैव संक्षिपेत्
”स्वतन्त्रतन्त्रे ।“आद्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः ।कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमं तथा ।अर्ध्यं दत्त्वा महेशानि सर्व्वसिद्धीश्वरो भवेत्
सुरया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ।महायोगी भवेद्देवि पीठप्रक्षालितैर्ज्जलैः
”भैरवतन्त्रे ।“पञ्चमात् तु परं नास्ति शाक्तानां सुखमोक्षयोः ।केवलैः पञ्चमैर्व्वापि सिद्धो भवति साधकः
”तेन पञ्चमकारेण पूजा कर्त्तव्या इति तन्त्र-सारः