| YouTube Channel

वामवेधशुद्धिः (vAmavedhazuddhiH)

 
शब्दकल्पद्रुमः
Sanskrit
वामवेधशुद्धिः,
स्त्री,
(वामे प्रतिकूले यो वेध-स्तद्विषये शुद्धिर्विशोधनम् यद्बा, वामेन विप-रीतेन वेधेन शुद्धिः ।) स्वराश्यपेक्षया द्बादश-चतुर्थनवमगृहस्थो विरुद्धोऽपि चन्द्रः यदि शुक्र-शनिकुजजीवार्कयुक्तगृहात् सप्तमगृहे तिष्ठतितदा नराणां अभिलषितफलदाता भवति ।यदि तु सितशनिकुजजीवार्कयुक्तगृहात् दशम-पञ्चमाष्टमगृहे तिष्ठति तदा नराणां स्वराश्य-पेक्षया यथासंख्यं अष्टमपञ्चमद्वितीयगृहगोऽपिचन्द्रः प्रचुरफलदाता भवति यथा, --“सितशनिकुजजीवार्कास्त इन्दुर्नराणांव्ययसुखनवमस्थोऽपीष्टदाता तथैषाम् ।खसुतनिधनगश्चेन्मृत्युपुत्त्रार्थगोऽपिप्रचुरशुभफलं स्याद्वामवेधेन शुद्धिः
”वामवेधत्वञ्च द्यूनजन्मेति एवमत्रेति वक्ष्यमाण-वचनाभ्यामेकार्थत्वाद्बोध्यम्
*
अथ दक्षिणवेधवामवेधकथनम् ।“लाभविक्रमखशत्रुषु स्थितःशोभनो निगदितो दिवाकरः ।खेचरैः सुततपोजलान्त्यगै-र्व्यार्किभिर्यदि विध्यते तदा
द्यूनजन्मरिपुलाभखत्रिग-श्चन्द्रमाः शुभफलप्रदस्तदा ।स्वात्मजान्त्यमृतिबन्धुधर्म्मगै-र्विध्यते विबुधैर्यदि ग्रहः
विक्रमाय रिपुगः शुभः कुजःस्यात्तदान्त्यसुतधर्म्मगैः खगैः ।चेन्न विद्ध इनसूनुरप्यसौकिन्तु घर्म्मघृणिना विध्यते
स्वाम्बुशत्रुमृतिस्वायगः शुभोज्ञस्तदा खलु विध्यते यदा ।आत्मजत्रिनवकाद्यनैधन-प्रान्त्यगैर्विविधुभिर्नभश्चरैः
स्वायधर्म्मतनयद्युनस्थितोनाकनायकपुरोहितः शुभः ।रिप्फरन्ध्रखजलत्रिगैर्यदाविध्यते गगनचारिभिर्नहि
आसुताष्टमतपोव्ययायगोविद्ध आस्फु जिदशोभनः स्मृतः ।नैधनास्ततनुकर्म्मधर्म्मधी-लाभवैरिसहजस्थखेचरैः
”इति ज्योतिस्तत्त्वम्