वामयमानः-वमयमानः (vAmayamAnaH-vamayamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“टु वम उद्गिरणे”@} 2 ‘उद्गिरणे = वमने’ इति काशकृत्स्नः।
ज्वलादिः, मिच्च।
‘उद्गिरणम् = अन्तर्गतस्य मुखेन निःसारणम्’ इति मा।
धा।
वृत्तिः।
‘-- भुक्तस्योर्ध्वगतिः’ इति क्षीरस्वामी।
‘उदित् इति काशकृत्स्नपाठः’ इति तरङ्गिण्याम्।
प्रकृतकाशकृत्स्नधातुपाठे तु ‘डु वम--’ इत्येव दृश्यते।
‘काश्यपादीनामपि उदित्पाठः’ इति मा।
धा।
वृत्तिः।
3 वामकः-मिका, वामकः-मिका, 4 वमकः-मिका, विवमिषकः-षिका, वंवमकः-मिका
5 वमिता-त्री, वामयिता-वमयिता-त्री, विवमिषिता-त्री, वंवमिता-त्री
वमन्-न्ती, वामयन्-वमयन्-न्ती, विवमिषन्-न्ती
-- वमिष्यन्-न्ती-ती, वामयिष्यन्-न्ती-ती, विवमिषिष्यन्-न्ती-ती
-- -- वामयमानः-वमयमानः, -- वंवम्यमानः, वंवमिष्यमाणः
वमितम्-तः-तवान्, 6 वान्तम्-वान्तः-वान्तवान्, वमितः, विवमिषितः, वंवमितः-तवान्
वमः- 7 वामः, 8 वमी, 9 वमथुः 10, वामः-वमः वामी, 11 वामनः, विवमिषुः, वंवमः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 12 ऊह्यानि।
13 वम्यम्, वान्तिः, 14 वमित्वा-वान्त्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१५५८)
02 (१-भ्वादिः-८४९। सक। सेट्। पर।)
03 [[४। ‘नोदात्तोपदेशस्य मान्तस्य--’ (७-३-३४) इत्यादिना वृद्धिनिषेधे प्राप्ते ‘अनाचमि- कमिवमीनाम्--’ (वा। ७-३-३४) इति वार्त्तिकात् वृद्धिनिषेधो न। तेन ण्वुलि वामकः इति रूपम्।]]
04 [[५। ‘ग्लास्नावनुवमाम्--’ (ग। सू। भ्वादिः) इति अनुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। ततः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः, तेन ण्यन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05 [पृष्ठम्१२०२+ ३०]
06 [[१। ‘आदितश्च’ (७-२-१६) इति चकारस्यानुक्तसमुच्चयार्थकत्वात् निष्ठायामनिट्त्वम् इति काशिकादौ। “‘धारानिपातैः सह किन्तु वा-तः चन्द्रोऽयमित्यार्ततरं रसासे’ इति पाणिनिः” इति प्रक्रियासर्वस्वटीकायाम् (पु। २६)। ‘वम्जप्- व्याश्वसो निष्ठायाः इड् वा इति केचित्’ इत्युक्त्या वमितः-वान्तः इति’ प्रक्रियाकौमुदी।]]
07 [[२। कर्तरि ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति विकल्पेन णप्रत्ययः। अचो- ऽपवादः। तेन रूपद्वयम्।]]
08 [[३। ‘जिदृक्षिविश्रीण्वम--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।]]
09 [[४। भावादौ दवितो धातोः ‘ट्वितोऽथुच्’ (३-३-८९) इति अथुच्प्रत्यये रूपमेवम्। ‘पुमांस्तु वमथुः समाः’ इत्यमरः।]]
10 [[आ। ‘सरक्तं वमथुं केचिद् भ्राजथुं न च केचन।।’ भ। का। ४-४३।]]
11 [[५। वृद्धिपक्षे ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। वामनः = लघुपरिमाणः विष्णोरवतारः।]]
12 (४९४)
13 [[६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्यये रूपम्। ण्यतोऽपवादः।]]
14 [[७। उदित्पक्षे क्त्वायाम् ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इडभावपक्षे ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे वान्त्वा इति रूपम्। तेन रूपद्वयं बोध्यम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
