| YouTube Channel

वामनव्रतं (vAmanavrataM)

 
शब्दकल्पद्रुमः
Sanskrit
वामनव्रतं,
क्ली,
(वामनदेवताकं व्रतम् ।) श्रवण-द्वादशीकर्त्तव्यो वामनदेवस्य व्रतविशेषः ।अथ श्रीवामनव्रतविधिः ।“नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् ।न हि सिद्धेद्गुरोर्भक्तिं नियमञ्च विना फलम्
”नियममन्त्रः ।“एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि ।भोक्ष्ये श्रीवामनानन्त शरणागतवत्सल
इति
“एकादश्यां रजन्यांवा द्वादश्यां वार्च्चयेत्प्रभुम् ।स्वर्णरूप्यमये पात्रे ताम्रवंशमयेऽपि वा
कुण्डिकां स्थापयेत् शार्श्वे छत्रिकापादुकास्तथा ।शुभाञ्च वैणवीं यष्टिमक्षसूत्रं पवित्रकम्
पुष्पैर्गन्धैः फलैर्धूपैः प्रदीपैश्चार्च्चयेद्धरिम् ।नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडोदनैः
जागरं निशि कुर्व्वीत गीतवादित्रनर्त्तनैः ।एवमाराध्य देवेशं प्रभाते विमले सति
आदावर्ध्यं प्रदातव्यं पश्चाद्देवं प्रपूजयेत् ।नारिकेलेन शुभ्रेण दद्यादर्घ्यञ्च पूर्व्ववत्
”तत्र मन्त्रः ।“वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय ।गृहाणार्ध्यं मया दत्तं वामनाय नमोऽस्तु ते
”वामनाय अर्घ्यं नमः ।“मत्स्यं कूर्म्मं वराहञ्च नरसिंहञ्च वामनम् ।रामं रामञ्च कृष्णञ्च क्रमात् द्वौ बुद्धकल्किनौ
पादयोर्ज्जानुनोर्गुह्ये नाभ्यामुरसि कक्षयोः ।भुजयोर्म्मूर्द्ध्नि सर्व्वाङ्गेष्वर्च्चयेदायुधानि
महापूजां ततः कृत्वा गोमहीं काञ्चनादिकम् ।शक्त्याचार्य्याय दातव्यं ब्राह्मणेभ्यश्च मन्त्रतः
ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् ।ददाति मन्त्रतो ह्येव दाता भक्तिसमन्वितः
”तत्र दानमन्त्रः ।“वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् ।वामनश्च प्रतिग्राही तेन मे वामने रतिः
वामनः प्रतिगृह्णाति वामनोऽपि ददाति ।वामनस्तारको द्बाभ्यां तेनेदं वामने नमः
”इति
“एवं कृत्वा विधानेन भोजनं पृषदाज्यकम् ।पूर्व्वं दद्याद्ब्राह्मणेभ्यः पश्चाद्भुञ्जीत बन्धुभिः
यद्वामनपुराणे यद्भविष्योत्तरे व्रतम् ।वामनस्योदितं तस्यानुसाराल्लिखितं त्विदम्
”ब्रह्मवैवर्त्ते ।“गृहीत्वा नियमं प्रातर्गत्वा नद्योश्च सङ्गमे ।सौवर्णं वामनं कृत्वा सौवर्णमाषकेण वा
यथाशक्त्याथ वित्तस्य कुम्भोपरि जगत्पतिम् ।स्वर्णपात्रे स्थापयित्वा मन्त्रैरेतैश्च पूजयेत्
ओँ वामनाय नमः पादौ कटिं दामोदराय ।उरू श्रीपतये गुह्यं कामदेवाय पूजयेत्
पूजयेज्जगतां पत्युरुदरं विश्वधारिणे ।हृदयं योगनाथाय कण्ठं श्रीपतये नमः
मुखञ्च पङ्कजाक्षाय शिरः सर्व्वात्मने नमः ।इत्थं संपूज्य वासोभिराच्छाद्य जगद्गुरुम् ।दद्यात् सुश्रद्धया चार्य्यं नारिकेलादिभिः फलैः
ओँ नमो नमस्ते गोविन्द बुध श्रवणसंज्ञक ।अघौघसङ्क्षयं कृत्वा प्रेतमोक्षप्रदो भव
”इत्यर्घ्यमन्त्रः
“छत्रोपानहगोदानं दद्यादत्र कमण्डलुम् ।विशेषेण द्बिजाग्र्याय वामनः प्रीयतामिति
दध्योदनसमायुक्तां वारिधानीं प्रदापयेत् ।पूजयित्वा जगन्नाथं वामनः प्रीयतामिति
यथाशक्त्या दानानि द्विजाग्र्येभ्यः प्रदापयेत् ।कुर्य्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम्
श्रद्धया परया युक्तो निशामनिमिषेक्षणः ।प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः ।कुर्य्यात् स्वयं श्रद्धया तत् सर्व्वं सफलतां व्रजेत्
”तन्माहात्म्यञ्च तत्रैव ।“एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने ।न दुर्लभतरं किञ्चिदिह लोकेऽथवा परे
फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः ।वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि
पावनतरं किञ्चिदतः परमिहोच्यते ।विजयाव्रततुल्यञ्च परं परिपठ्यते
”भविष्योत्तरे ।“समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे ।चतुर्युगानि राजेन्द्र ! सप्तसप्ततिसङ्ख्यया
प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् ।इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः
हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः रूपसौभाग्यसम्पन्नो दोर्घायुर्निरुजो भवेत् ।पुत्त्रपौत्त्रैः परिवृतो जीवेच्च शरदां शतम्
”इति श्रीहरिभक्तिविलासे १५ विलासः