| YouTube Channel

वामनः (vAmanaH)

 
Apte Hindi
Hindi
वामनः
पुं*
- -
"बौना, ठिंगना"
वामनः
पुं*
- -
विष्णु का पाँचवां अवतार
वामनः
पुं*
- -
दक्षिण दिशा का दिक्पाल हाथी
वामनः
पुं*
- -
पाणिनि के सूत्रों पर काशिकावृति नामक भाष्य के प्रणेता
वामनः
पुं*
- -
अकोट नामक वृक्ष
Wordnet
Sanskrit
Synonyms:
वामनः, आदित्यः
noun
विष्णोः अवतारः यः बलिं वञ्चयितुम् अभवत्।
"बलिं वामनेन त्रिपदभूमिः याचिता।"
Synonyms:
वामनः
noun
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
"उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
वामनः
noun
रोगविशेषः
"वामनस्य उल्लेखः कोषे अस्ति"
Synonyms:
वामनः
noun
एकः पर्वतः
"वामनस्य उल्लेखः महाभारते अस्ति"
Synonyms:
वामनः
noun
एकः मुनिः
"वामनस्य उल्लेखः विवरणपुस्तिकायाम् अस्ति"
Synonyms:
वामनः
noun
हिरण्यगर्भस्य पुत्रः
"वामनस्य उल्लेखः हरिवंशे अस्ति"
Synonyms:
वामनः
noun
एकः राक्षसः
"वामनस्य उल्लेखः हरिवंशे अस्ति"
Synonyms:
वामनः
noun
गरुडपुत्रः
"वामनस्य उल्लेखः कोषे अस्ति"
Synonyms:
वामनः
noun
शिवस्य नाम
"वामनस्य उल्लेखः महाभारते अस्ति"
Synonyms:
वामनः
noun
एकः सर्पः
"वामनस्य उल्लेखः महाभारते अस्ति"
Synonyms:
वामनः
noun
एकः विशिष्टः मासः
"वामनस्य उल्लेखः वराहमिहिरस्य बृहत्संहितायाम् अस्ति"
Synonyms:
वामनः
noun
एकः पर्वतः
"वामनस्य उल्लेखः महाभारते वर्तते"
Synonyms:
वामनः
noun
गजविशेषः
"वामनः दक्षिणकोणं रक्षति"
Synonyms:
वामनः
noun
एकः लेखकः
"वामनस्य काव्यालङ्कारवृत्तिः इति ग्रन्थः ख्यातः"
Synonyms:
वामनः
noun
एकः कविः
"वामनस्य उल्लेखः राजतरङ्गिण्यां वर्तते"
Synonyms:
वामनः
noun
एकः लेखकः
"वामनस्य काशिकावृत्तिः इति ग्रन्थः ख्यातः"
Synonyms:
वामनः
noun
एकः मुनिः
"वामनस्य उल्लेखः विवरणपुस्तिकायां वर्तते"
Synonyms:
वामनः
noun
एकः दानवः
"वामनस्य उल्लेखः हरिवंशे वर्तते"
Synonyms:
वामनः
noun
सूर्यस्य अष्टादशसु अनुचरेषु एकः
"वामनस्य उल्लेखः कोशे वर्तते"
Synonyms:
वामनः
noun
हिरण्यगर्भस्य पुत्रः
"वामनस्य उल्लेखः बरिवंशे वर्तते"
Synonyms:
वामनः
noun
गरुडस्य पुत्रः
"वामनस्य उल्लेखः कोशे वर्तते"
Synonyms:
वामनः
noun
एकः सर्पासुरः
"वामनस्य उल्लेखः महाभारते वर्तते"
Synonyms:
वामनः
noun
एकः जनसमूहः
"वामनस्य उल्लेखः कोशे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: वामनः
Root: वामन
Gender: पुं
Number: all
अर्थः विष्णोः वामनावतारः
Meaning(s):
Dwarf
Incarnation of Viṣhṇu
Shloka(s):
1|1|19|1 उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|19|2 आदित्यो द्विपदस्तार्क्ष्यस्त्रिविक्रम उरुक्रमः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|20|1 विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|19|1 उपेन्द्रः (उपेन्द्र) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|19|1 इन्द्रावरजः (इन्द्रावरज) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|19|1 वामनः (वामन) (पुं) Dwarf
Incarnation of Viṣhṇu विष्णोः वामनावतारः
1|1|19|1 बलिकण्टकः (बलिकण्टक) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|19|2 आदित्यः (आदित्य) (पुं) Another name of the Trivikrama avatara विष्णोः वामनावतारः
1|1|19|2 द्विपदः (द्विपद) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|19|2 तार्क्ष्यः (तार्क्ष्य) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|19|2 त्रिविक्रमः (त्रिविक्रम) (पुं) Trivikrama incarnation of Viṣṇu विष्णोः वामनावतारः
1|1|19|2 उरुक्रमः (उरुक्रम) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
1|1|20|1 विष्णुः (विष्णु) (पुं) Epithet of Vāmana incarnation विष्णोः वामनावतारः
Related word(s):
परा_अपरासंबन्धः देवः
अवतारः विष्णुः
जातिः देवता
Tamil
Tamil
வாமன: : குள்ளன்.
शब्दकल्पद्रुमः
Sanskrit
वामनः,
पुं,
(वामयति वमति वा मदमिति ।वम + णिच् + ल्युः ।) दक्षिणदिग्गजः (यथा, भागवते २० ३९ ।“तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल-जगद्गुरुणा विनिवेशिता ये द्विरदपतयःऋषभः पुष्करचूडो वामनोऽपराजित इतिसकललोकस्थितिहेतवः
”) ह्रस्वः इत्य-मरः ४६
(यथा, रघौ १९ ५१ ।“व्योमपश्चिमकलास्थितेन्दु वापङ्कशेषमिव धर्म्मपल्वलम् ।राज्ञि ! तत्कुलमभूत् क्षयातुरेवामनार्च्चिरिव दीपभाजनम्
”यथाच तत्रैव ।“प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः
”अङ्कोठवृक्षः हरिः इति मेदिनी ने, १२९
(यथा, महाभारते १३ १४९ ३० ।“उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः
”शिवः यथा, महाभारते १३ १७ ७० ।“वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
”अश्वभेदः यथा, अश्ववैद्यके १५३ ।“एकेनाङ्गेन हीनेन भिन्नेन विशेषतः ।यमजं वाजिनं विन्द्याद्वामनं वामनाकृतिम्
”दनोः पुत्त्रभेदः यथा, हरिवंशे ८२ ।“अयोमुखः शम्बरश्च कपिलो वामनस्तथा
”भुजङ्गभेदः यथा, महाभारते ३५ ।“कालियो मणिनागश्च नागश्चापूरणस्तथा ।नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः
”गरुडवंशीयः पक्षिविशेषः यथा, महाभारते ।५ १०१ १० ।“पङ्कजिद्वज्रनिष्कुम्भो वैनतेयोऽथ वामनः ।वातवेगो दिशाचक्षुर्निमिषोऽनिमिषस्तथा
”हिरण्यगर्भस्य सुतभेदः यथा, हरिवंशे२५३ ।“गार्गः पृथुस्तथैवाग्र्यो जान्यो वामन एव
”क्रौञ्चद्वीपस्थपर्व्वतविशेषः यथा, महाभारते ।६ १२ १७ -- १८ ।“कौञ्चद्वीपे महाराज ! क्रौञ्चो नाम महा-गिरिः ।क्रौञ्चात्परो वामनको वामनादन्धकारकः
अन्धकारात्परो राजन् ! मैनाकः पर्व्वतोत्तमः ।मैनाकात्परतो राजन् ! गोविन्दो गिरि-रुत्तमः
”तीर्थभेदः यथा, महाभारते ८४ १२२ ।“ततस्तु वामनं गत्वा सर्व्वपापप्रमोचनम्
”महापुराणान्यतमः यथा, देवीभागवते ।३ ।“अयुतं वामनाख्यञ्च वायव्यं षट् शतानिच ।चतुर्व्विंशतिसंख्यातः सहस्राणि तु शौनक !
”)विष्णोः पञ्चमावतारः तस्य प्रादुर्भावो यथा ।श्रीसदाशिव उवाच ।“प्रह्नादस्य सुतो यज्ञे विरोचन इतीरितः ।तस्य पुत्त्रो महाबाहुर्बलिर्वैश्वानरप्रभः
तु धर्म्मविदां श्रेष्ठः सत्यशंसी जितेन्द्रियः ।हरेः प्रियतमो भक्तो नित्यं धर्म्मरतः शुचिः
जित्वा सकलान् देवान् सेन्द्रांश्च समरुद्ग-णान् ।त्रिलोकान् स्ववशे स्थाप्य राज्यं चक्रे महाबलः
इन्द्रादित्रिदशास्तस्य किङ्कराः समुपस्थिताः ।भ्रष्टराज्यं सुरपतिं दृष्ट्वा तस्य पितार्द्दितः
कश्यपो भार्य्यया सार्द्धं तपस्तेपे हरिं प्रति ।अदित्या सह धर्म्मात्मा पयोव्रतसमन्वितः
अर्च्चयामास देवेशं पद्मनाभं जनार्द्दनम् ।ततो वर्षसहस्राणि तेन संपूजितो हरिः
तथैवाविरभूत्तस्य देव्या सह सनातनः ।तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा
पत्न्या सह नमस्कृत्य तुष्टाव द्बिजोत्तमः
कश्यप उवाच ।नमो नमस्ते लक्ष्मीश ! सर्व्वज्ञ जगदीश्वर ।सर्व्वात्मन् सर्व्वदेवेश ! सृष्टिसंहारकारक
इत्यादिस्तुतिभिः सम्यक् स्तूयमानो महर्षिणा ।प्राह गम्भीरया वाचा परितुष्टो जनार्द्दनः
सन्तुष्टोऽस्मि द्विजश्रेष्ठ ! त्वया भक्त्या समर्च्चितः ।वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम्
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः ।पुत्त्रत्वं मम देवेश संप्राप्य त्रिदशां हितम्
कुरुष्व बलिना देव त्रैलोक्यं निर्ज्जितं बलात् ।इन्द्रस्यावरजो भूत्वा उपेन्द्र इति नामतः
येन केनात्ममार्गेण बलिं निर्ज्जित्य मायया ।त्रैलोक्यं मम पुत्त्राय देहि शक्राय शाश्वतम्
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः ।संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत
एतस्मिन्नन्तरे काले कश्यपस्य महात्मनः ।अदित्या गर्भमापेदे भगवान् भूतभावनः
”इति पाद्मोत्तरखण्डे ४८ अध्यायः
श्रीशिव उवाच ।“अथ वर्षसहस्रान्ते सर्व्वलोकमहेश्वरम् ।अदितिर्जनयामास वामनं विष्णुमच्युतम्
श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम् ।सुन्दरं पुण्डरीकाक्षं अतिखर्व्वतरं हरिम्
वटुवेशधरं देवं सर्व्ववेदान्तगोचरम् ।मेखलाजिनदण्डादिचिह्नेनाङ्कितमीश्वरम्
तं दृष्ट्वा देवताः सर्व्वे शतक्रतुपुरोगमाः ।स्तुत्व महर्षिभिः सार्द्धं नमश्चक्रुर्म्महौजसः
ततः प्रसन्नो भगवान् प्रोवाच सुरसत्तमान् ।किं कर्त्तव्यं मया वाद्य तद्ब्रवीत सुरोत्तमाः
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् ।अस्मिन् काले बलेर्यज्ञं वर्त्तते मधुसूदन
प्रथमं दानकालोऽयं तस्य दैत्यपतेः प्रभो ।याचित्वा त्रिदिवं लोकं ततस्तं दातुमर्हसि
इत्युक्तस्त्रिदशैः सर्व्वैराजगाम बलिं हरिः ।यागदेशे समासीनमृषिभिः सार्द्धमक्षयैः
अभ्यागतं वटुं दृष्ट्वा सहसोत्थाय दैत्यराट् ।अभ्यागतं स्वयं विष्णुं महाहर्षसमन्वितः
पूजयामास विधिना निवेश्य कुसुमासने ।प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम ।त्वामर्च्चयित्वा विप्रेन्द्र ! किं करोमि तव प्रियम्
आगतोऽस्मि यदर्थं त्वं मामुद्दिश्य द्विजोत्तम ।तत् प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर
ततः प्रहृष्टमनसा तमुवाच महीपतिम् ।शृणु राजेन्द्र ! वक्ष्यामि ममागमनकारणम्
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।मम त्रिविक्रमं पादं महीं संदातुमर्हसि
सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् ।यो ददाति महीं राजन् विप्रायाकिञ्चनाय वै
अङ्गुष्ठमात्रमथवा भवेत् पृथिवीपतिः ।न भूमिदानसदृशं पवित्रमिह विद्यते
तस्माद्भूमिं महीपाल प्रयच्छ त्रैपदं मम ।एतदल्पमहीं दातुं मा विशङ्क महीपते
जगत्त्रयप्रदानन्तत् मम भूप भविष्यति ।ततः प्रहृष्टवदनस्तथेत्याह महीपतिः
तस्मै महीप्रदानन्तु कर्त्तुं मेने विधानतः ।तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः
उशना अब्रवीद्बाक्यं मा राजन् दीयतां मही ।एष विष्णुः परेशो यो देवैः संप्रार्थितो नृप !
वञ्चयित्वा महीं सर्व्वां ततः प्राप्तुमिहागतः ।तस्मान्मही दातव्या तस्मै राजन् महात्मने
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते ! ।ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः
प्रीतये वासुदेवस्य पुण्यं सर्व्वं कृतं मया ।अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवागतो यदि
तस्यार्पयामि राज्यं हि जीवितञ्च महन्मम ।तस्मादस्मै प्रयच्छामि त्रीन् लोकानपि माचिरम्
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः ।वाञ्छितां प्रददौ भूमिं वारिपूर्व्वं विधानतः
परिणीय नमस्कृत्य दत्त्वा वै दक्षिणां वसु ।उवाच तं वटुं विप्रं प्रहर्षेणान्तरात्मना
धन्योऽस्म्यनुगृहीतोऽस्मि तव दत्त्वा महीं द्बिज ।यथेष्टं तव विप्रेन्द्र तद्गृहाण महीमिमाम्
पञ्चाशत्कोटिविस्तीर्णां सकाननमहीधराम् ।ससागराञ्च सद्वीपां सदेवासुरमानुषाम्
पादेनैकेन पुरुषो विक्रम्य मधुसूदनः ।उवाच तं दैत्यराजं किं करोमीति शाश्वतम्
तत्र त्रैविक्रमं रूपमीश्वरस्य महौजसः ।सम्मातुमपि देवानामृषीणाञ्च महात्मनाम्
वक्तुमपि शक्यं स्यात् ब्रह्मणः शङ्करस्य ।तत्पदं पृथिवीं सर्व्वामाक्रम्य गिरिजे शुभे
अतिरिक्तं समभवत् शतयोजनमायतम् ।दिव्यं चक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः
तस्मै सन्दर्शयामास स्वकं रूपं जनार्द्दनः ।तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलिः
प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः ।दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव
प्राह गद्गदया वाचा प्रहर्षेणान्तरात्मना ।धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम्
लोकत्रयं ममैवैतत् गृहाण मघुसूदन ।अथ सर्व्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम्
ऊर्द्ध्वे प्रसारयामास ब्रह्मलोकान्तमच्युतः ।सनक्षत्रग्रहोपेतं सर्व्वदेवसमावृतम्
पादेनापरिपूर्णोऽभूदच्युतः शुभानने ।ततः पितामहो दृष्ट्वा चक्रपद्मादिचिह्नितम्
श्रीपादं देवदेवस्य हर्षसंभ्रमचेतसा ।धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वं कम-ण्डलुम्
भक्त्या प्रक्षालयामास तत्र संस्थितवारिणा ।अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः
तत्तीर्थं मेरुशिखरे प्रापतद्विमलं जलम् ।जगतः पावनार्थाय चतुर्द्दिक्षु प्रवाहितम्
सीता चालकनन्दा वङ्क्षुर्भद्रा यथाक्रमात्
प्रसङ्गादिदमाख्यातं गङ्गाजन्म ह्यनुत्तमम्
ततो नारायणः श्रीमान् बलेर्दैत्यपतेः प्रभुः ।रसातलं शुभं लोकं प्रददौ भक्तवत्सलः
सर्व्वेषां दानवानाञ्च नागानां यादसाम्पतेः ।राजानञ्च बलिञ्चक्रे यावदाहूतसंप्लवम्
प्रतिगृह्य बलेर्लोकान् वटुवेशेन दैत्यहा ।महेन्द्राय ददौ प्रीत्या काश्यपिर्व्विष्णुरव्ययः
ततो देवाः सगन्धर्व्वा ऋषयश्च महौजसः ।तुष्टुवुः स्तुतिभिर्दिव्यैः पूजयामासुरच्युतम्
संक्षिप्य तन्महद्रूपं तेषां सन्दर्शनाय वै ।संपूज्यमानस्त्रिदशैरन्तर्धानं ययौ हरिः
”इति पाद्मोत्तरखण्डे ४९ अध्यायः
*
तदवतारप्रकारान्तरं यथा, --नारद उवाच ।“सांप्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः ।करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः
तत् कथं पूर्व्वकालेऽपि विभुरासीत् त्रिविक्रमः ।कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद
पुलस्त्य उवाच ।श्रूयतां कथयिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः ।यस्मिन् काले सम्बभूव यञ्च वञ्चितवानसौ
आसीत् धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः ।दनुगर्भसमुद्भूतो महाबलपराक्रमः
समाराध्य वरदं ब्रह्माणं तपसासुरः ।अवध्यत्वं सुरैः सर्व्वैः प्रार्थयत् तु नारद
तद्वरं तस्य प्रादात् तपसा पङ्कजोद्भवः ।परितुष्टः बली निर्ज्जगाम त्रिपिष्टपम्
चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् ।धुन्धुः शक्रत्वमकरोत् हिरण्यकशिपौ सति
तस्मिन् काले बलवान् हिरण्यकशिपुस्ततः ।चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः
ततोऽसुरा यथाकामं विहरन्ति त्रिपिष्टपे ।ब्रह्मलोके त्रिदशाः संस्थिता दुःखसंयुताः
ततोऽमरान् ब्रह्मसदोनिवासिनःश्रुत्वा धुन्धुर्दितिजानुवाच ।गच्छाम दैत्या वयमग्रजस्यसदो विजेतुं त्रिदशान् सशक्रान्
ते धुन्धुवाक्यन्तु निशम्य दैत्याःप्रोचुर्न नो विद्यति लोकपाल ।गतिर्यया याम पितामहाजिरंसुदुर्गमोऽयं परतो हि मार्गः
इतः सहस्रैर्ब्बहुयोजनाख्यै-र्ल्लोको महर्नाम महर्षिजुष्टः ।येषां हि नासापवनोदितेनदह्यन्ति दैत्याः सहसेक्षितेन
तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् ।गन्तुकामः सदनं ब्रह्मणो जेतुमीश्वरान्
कथन्तु कर्म्मणा केन गम्यते दानवर्षभाः ।कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः
ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम् ।कर्म्म तन्न वयं विद्मः शुक्रस्तद्वेत्त्यसंशयम्
दैत्यानां वचनं श्रुत्वा धुन्धुर्दैत्यपुरोहितम् ।पप्रच्छ शुक्र किं कर्म्म कृत्वा ब्रह्मसदोगतिः
ततोऽस्मै कथयामास दैत्याचार्य्यः कलिप्रियः ।शक्रस्य चरितं श्रीमान् पुरा वृत्तरिपोः किल
शक्रः शतन्तु पुण्यानां क्रतूनामजयत् पुरा ।दैत्येन्द्र ! वाजिमेधानां तेन ब्रह्मसदो गतः
तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्य्यवान् ।यष्टुं तुरगमेधानां चकार मतिमुत्तमाम्
आमन्त्र्याहासुरगुरुं दानवांश्चाप्यनुत्तमान् ।प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिणैः
आहूयन्ताञ्च निधयश्चाज्ञाप्यन्ताञ्च गुह्यकाः ।प्रयामो देविका यत्र गङ्गा प्राचीनवाहिनी
सा हि पुण्या सरिच्छ्रेष्ठा सर्व्वसिद्धिकरी शिवा ।जलं प्राचीनमासाद्य वाजिमेधान् यजामहे
इत्थं सुरारिवचनं निशम्यासुरयाजकः ।वाढमित्यब्रवीद्धृष्टो निधयः सन्दिदेश सः
ततो धुन्धुर्देविकायाः प्राचीने पापनाशने ।भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः
ततोऽग्निधूमेन मही सशैलाव्याप्ता दिशः खं विदिशश्च पूर्णाः ।तेनोग्रगन्धेन दिवस्पृशेनमरुद्ववौ ब्रह्मलोके महर्षे
तं गन्धमाघ्राय सुरा विषण्णाजानन्त धुन्धुं हयमेधदीक्षितम् ।ततः शरण्यं शरणं जनार्द्दनंजग्मुः सशक्रा जगतः परायणम्
प्रणम्य वरदं देवं पद्मनाभं जनार्द्दनम् ।प्रोचुः सर्व्वे सुरगणा भयगद्गदया गिरा
भगवन् देवदेवेश ! चराचरपरायण !विज्ञप्तिः श्रूयतां विष्णो सुराणामार्त्तिनाशन !
धुन्धुर्नाम्ना सुरपतिर्बलवान् बलवृंहितः ।शुक्रस्य मतमास्थाय सोऽश्वमेधाय दीक्षितः
शतं क्रतूनामिष्ट्वासौ ब्रह्मलोकं महासुरः ।आरोढुमिच्छति बली विजेतुं त्रिदशानपि
तस्मादकालहीनन्तु चिन्तयस्व जगद्गुरो ।उपायं मखविध्वंसे भवामो येन निर्वृताः
श्रुत्वा सुराणां वचनं भगवान्मधुसूदनः ।दत्त्वाभयं महाबाहुः प्रेषयामास सोऽथ तान्
विसृज्य देवताः सर्व्वा ज्ञात्वा जेतुं महासुरम् ।वञ्चनाय मतिञ्चक्रे धुन्धोरध्वरस्य वै
ततः कृत्वा भगवान् वामनं रूपमीश्वरः ।देहं कृत्वा निरालम्बं काष्ठवद्देविकाजले
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया ।दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैः सुरर्षिभिः
ततः कर्म्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः ।समुत्तारयितुं विप्रमद्रवन्त समाकुलाः
सदस्या यजमानाश्च ऋत्विजश्च महौजसः ।निमज्जमानमुद्धर्त्तुं सर्व्वे तं वामनं द्विजम्
समुत्तार्य्य हसन्तस्ते पप्रच्छुः सर्व्व एव हि ।किमर्थं पतितोऽसीह केन क्षिप्तोऽसि वा वद
तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः ।प्राह धुन्धुपुरोगांस्तान् श्रूयतामत्र कारणम्
ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः ।तस्य पुत्त्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम्
तस्य ज्येष्ठो मम भ्राता कनीयानवरस्त्वहम् ।नेत्रभाल इति ख्यातो ज्येष्ठो भ्राता ततो-ऽसुराः
मम नाम पिता चक्रे इति भासोऽतिकौतुकात् ।ततः कालेन महता आवयोः पिता मृतः
तस्यौर्द्धदेहिकं कृत्वा गृहमावां समागतौ ।ततो मयोक्तः भ्राता विभजामो गृहं वयम् ।तेनोक्तो नैव भवतो विद्यते भाग इत्यहम्
कुब्जवामनखञ्जानां क्लीवानां श्वित्रिणामपि ।उन्मत्तानां तथान्धानां धनभागो विद्यते
एवमुक्तो मया सोऽथ किमर्थं पैतृकाद्गृहम् ।धनार्द्धभागमर्हामि नाहं न्यायेन केन वै
इत्युक्तवति वाक्येऽसौ भ्राता मे कोपसंयुतः ।समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात्
ममास्यां निम्नगायान्तु मध्ये पुरतो गतः ।कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः ।के भवन्तश्च संप्राप्ताः सस्नेहा बान्धवा इव
ते वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः ।प्रोचुर्दैत्यपतिं सर्व्वे वामनार्थकरं वचः
इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्व्वचः ।प्राह द्विज ददामीति यावदिच्छसि वै धनम्
तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः ।प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः
सोदरेणापि हि भ्रात्रा ह्रियते यस्य सम्पदः ।तस्याक्षमस्य यद्दत्तं किमन्यो हरिष्यति
मम प्रमाणमालोक्य मामकञ्च क्रमत्रयम् ।संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः
इत्येवमुक्ते वचने महात्माविहस्य दैत्याधिपतिः सऋत्विक् ।प्रादाद्द्विजेन्द्राय पदत्रयं तदायदा नान्यत् जगृहे किञ्चन
क्रमत्रये तोयमवेक्ष्य दत्तंमहासुरेन्द्रेण विभुर्यशस्वी ।चक्रे ततो लङ्घयितुं त्रिलोकींत्रिविक्रमं रूपमनन्तशक्तिः
कृत्वा तु रूपं दितिजांश्च हत्वाप्रणम्य चर्षीन् प्रथमक्रमेण ।महीं महीध्रैः सहितां सहार्णवांजहार रत्नाकरपत्तनैर्युताम्
भुवं सनाकं त्रिदशाधिवासंसोमार्कऋक्षैरभिमण्डितं नभः ।देवो द्वितीयेन जगाम वेगात्क्रमेण देवप्रियलोकमीश्वरः
क्रमं तृतीयं यदास्य पूरितंतदातिकोपाद्दनुपुङ्गवस्य ।पपात पृष्ठे भगवांस्त्रिविक्रमोमेरुप्रमाणेन तु विग्रहेण
पतता वासुदेवेन दानवोपरि नारद ! ।त्रिंशद्योजनसाहस्री भूमिर्भूता घटीकृता
ततो दैत्यं समुत्पात्य तस्यां प्रक्षिप्य वेगतः ।वर्षसिक्ताभिवृष्ट्या तां गर्भभूमिमपूरयत्
ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः ।सुराश्च सर्व्वे त्रैलोक्यमवापुर्निरुपद्रवाः
भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे ।कालिन्द्यां रूपमाधाय तत्रैवान्तरधीयत
”इति वामने ७५ अध्यायः
वामनः, त्रि, (वामयतीति वम + णिच् + ल्युः ।)अतिक्षुद्रः तत्पर्य्यायः न्यङ् नीचः ३खर्व्वः ह्रस्वः इत्यमरः
अनुच्चः ६अनायतः इति जटाधरः
(यथा, नैषधे ।२२ ५७ ।“विधिस्तुषारर्त्तुदिनानि कर्त्तंकर्त्तं विनिर्म्माति तदन्तभिन्नैः ।ज्योत्स्नीर्न चेत् तत्प्रतिमा इमा वाकथं कथं तानि वामनानि
”)
कृदन्तरूपमाला
Sanskrit
1 {@“टु वम उद्गिरणे”@} 2 ‘उद्गिरणे = वमने’ इति काशकृत्स्नः।
ज्वलादिः, मिच्च।
‘उद्गिरणम् = अन्तर्गतस्य मुखेन निःसारणम्’ इति मा।
धा।
वृत्तिः।
‘-- भुक्तस्योर्ध्वगतिः’ इति क्षीरस्वामी।
‘उदित् इति काशकृत्स्नपाठः’ इति तरङ्गिण्याम्।
प्रकृतकाशकृत्स्नधातुपाठे तु ‘डु वम--’ इत्येव दृश्यते।
‘काश्यपादीनामपि उदित्पाठः’ इति मा।
धा।
वृत्तिः।
3 वामकः-मिका, वामकः-मिका, 4 वमकः-मिका, विवमिषकः-षिका, वंवमकः-मिका
5 वमिता-त्री, वामयिता-वमयिता-त्री, विवमिषिता-त्री, वंवमिता-त्री
वमन्-न्ती, वामयन्-वमयन्-न्ती, विवमिषन्-न्ती
-- वमिष्यन्-न्ती-ती, वामयिष्यन्-न्ती-ती, विवमिषिष्यन्-न्ती-ती
-- -- वामयमानः-वमयमानः, -- वंवम्यमानः, वंवमिष्यमाणः
वमितम्-तः-तवान्, 6 वान्तम्-वान्तः-वान्तवान्, वमितः, विवमिषितः, वंवमितः-तवान्
वमः- 7 वामः, 8 वमी, 9 वमथुः 10, वामः-वमः वामी, 11 वामनः, विवमिषुः, वंवमः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 12 ऊह्यानि।
13 वम्यम्, वान्तिः, 14 वमित्वा-वान्त्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५५८)
02
=>
(१-भ्वादिः-८४९। सक। सेट्। पर।)
03
=>
[[४। ‘नोदात्तोपदेशस्य मान्तस्य--’ (७-३-३४) इत्यादिना वृद्धिनिषेधे प्राप्ते ‘अनाचमि- कमिवमीनाम्--’ (वा। ७-३-३४) इति वार्त्तिकात् वृद्धिनिषेधो न। तेन ण्वुलि वामकः इति रूपम्।]]
04
=>
[[५। ‘ग्लास्नावनुवमाम्--’ (ग। सू। भ्वादिः) इति अनुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। ततः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः, तेन ण्यन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05
=>
[पृष्ठम्१२०२+ ३०]
06
=>
[[१। ‘आदितश्च’ (७-२-१६) इति चकारस्यानुक्तसमुच्चयार्थकत्वात् निष्ठायामनिट्त्वम् इति काशिकादौ। “‘धारानिपातैः सह किन्तु वा-तः चन्द्रोऽयमित्यार्ततरं रसासे’ इति पाणिनिः” इति प्रक्रियासर्वस्वटीकायाम् (पु। २६)। ‘वम्जप्- व्याश्वसो निष्ठायाः इड् वा इति केचित्’ इत्युक्त्या वमितः-वान्तः इति’ प्रक्रियाकौमुदी।]]
07
=>
[[२। कर्तरि ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति विकल्पेन णप्रत्ययः। अचो- ऽपवादः। तेन रूपद्वयम्।]]
08
=>
[[३। ‘जिदृक्षिविश्रीण्वम--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।]]
09
=>
[[४। भावादौ दवितो धातोः ‘ट्वितोऽथुच्’ (३-३-८९) इति अथुच्प्रत्यये रूपमेवम्। ‘पुमांस्तु वमथुः समाः’ इत्यमरः।]]
10
=>
[[आ। ‘सरक्तं वमथुं केचिद् भ्राजथुं केचन।।’ भ। का। ४-४३।]]
11
=>
[[५। वृद्धिपक्षे ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। वामनः = लघुपरिमाणः विष्णोरवतारः।]]
12
=>
(४९४)
13
=>
[[६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्यये रूपम्। ण्यतोऽपवादः।]]
14
=>
[[७। उदित्पक्षे क्त्वायाम् ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इडभावपक्षे ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे वान्त्वा इति रूपम्। तेन रूपद्वयं बोध्यम्।]]