| YouTube Channel

वामः (vAmaH)

 
Apte Hindi
Hindi
वामः
पुं*
- -
"सजीव प्राणी, जन्तु"
वामः
पुं*
- -
शिव
वामः
पुं*
- -
"प्रेम के देवता, कामदेव"
वामः
पुं*
- -
साँप
वामः
पुं*
- -
"औड़ी, ऐन, स्त्री की छाती"
वामः
पुं*
- वाम्+ण अथवा वा+मन्
कामदेव
वामः
पुं*
- वाम्+ण अथवा वा+मन्
साँप
वामः
पुं*
- वाम्+ण अथवा वा+मन्
"छाती, ऐन, औड़ी"
वामः
पुं*
- वाम्+ण अथवा वा+मन्
निषिद्ध कार्य
Wordnet
Sanskrit
Synonyms:
वामः
noun
वर्णवृत्तविशेषः।
"वामस्य प्रत्येकस्मिन् चरणे सप्त जगणाः एकः यगणश्च भवति।"
Synonyms:
आपीनम्, ओधः, ऊधसम्, उधस्, वाणः, वामः
noun
सस्तनपशूनां अवयवविशेषः येन स्त्रीजातीयः तेषां नवजातान् दुग्धं पाययन्ति
"अस्याः गोः आपीनम् बृहत् अस्ति।"
Synonyms:
उरोजः, उरस्यः, कुचः, कुचकुम्भः, कूचः, चुचिः, धरणः, पयोधरः, पयोध्रः, प्रलम्बः, वण्ठरः, वामः, स्तनकुड्मलम्, अन्तरांसः
noun
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
"माता उरोजस्य दुग्धं बालकं पाययति।"
Synonyms:
वामतः, वामः, वामम्
adverb
वामे दिशि।
"अस्माकं गृहं शिवालयस्य वामे अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
वामः, त्रि, (वमति वम्यते वेति वम उद्गिरणे +“ज्वलितिकसन्तेभ्यो णः ।” १४० इतिणः यद्वा, वातीति वा गतिगन्धनयोः +“अर्त्तिस्तुसुहुसृधृक्षिक्षुभायावापदीति उणा०१ १३९ इति मन् ।) वल्गुः (यथा, रघौ ५७ ।“स दक्षिणं तूणमुखेन वामंव्यापारयन् हस्तमलक्ष्यताजौ ।आकर्णकृष्टा सकृदस्य योद्धुःमौर्व्वीव बाणान् सुषुवे रिपुघ्नान्
”)प्रतीपः (यथा, वैराग्यशतके ५३ ।“दुःखेनोपार्ज्ज्यन्ते पाल्यन्ते प्रत्यहञ्च लाल्यन्ते ।वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगु-णम्
”यथाच, साहित्यदर्पणे १० ।“वामा यूयमहो विडम्बरसिकः कीदृक् स्मरोवर्त्तते
”)सव्यः इत्यमरमेदिनीकारौ
(यथा, राज-तरङ्गिण्याम् ।“भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्सम्भृत-क्रीडत् कुण्डलिजृम्भितं जलधिजच्छायाच्छ-कण्ठच्छविः ।वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्द्धस्य वोभागः पुङ्गवलक्षणोऽस्तु यशसे वामोऽथवादक्षिणः
”)अधमः इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
वामहस्तेन जलपानभोजननिषेधो यथा ।हारीतः ।“न पिबेन्न भुञ्जीत द्बिजः सव्येन पाणिना ।नैकहस्तेन जलं शूद्रेणावर्ज्जितं पिबेत्
”इति आह्निकतत्त्वम्
अपि ।“न वामहस्तेनोद्धत्य पिबेद्बक्त्रेण वा जलम् ।नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत्
”इति कौर्म्मे १५ अध्यायः
“वामः कायो ब्राह्मणोऽपि मांसमद्यादिभुक्तये ।कृतो मया मोहनाय चार्व्वाकादिप्रवर्त्तकः
”इति कालिकापुराणे ७७ अध्यायः
(वननीयः यथा, ऋग्वेदे ५३ ।“अभिनो नर्य्यं वसु वीरं प्रयतदक्षिणम् ।वामं गृहपतिं नय ।”“वामं वननीयम् ।” इति तद्भाष्ये सायणः
वननीयं याचनीयं वनु याचने इत्यस्य प्रयोगोज्ञातव्यः
)
वामः,
पुं,
(वातीति वा गतिगन्धनयोः + मन् ।)हरः (यथा, भागवते ।“प्रजापतेस्ते श्वशुरस्य साम्प्रतंनिर्य्यापितो यज्ञमहोत्सवः किल ।वयञ्च तत्राभिसराम वाम ! तेयद्यर्थितामी विबुधा व्रजन्ति
”)कामदेवः पयोधरः इति मेदिनी मे, २९
(श्रीकृष्णस्य भद्रागर्भोत्पन्नः पुत्त्रविशेषः यथा, भागवते १० ६१ १७ ।“संग्रामजित् बृहत्सेनः शूरप्रहरणोऽरिजित् ।जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः
”)