| YouTube Channel

वापयिता-त्री (vApayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् -वाजम् २, वापयित्वा -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम्
वावायित्वा
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
प्रासङ्गिक्यः
01
=>
(१५८४)
02
=>
(२-अदादिः-१०५०। सक। अनि। पर।)
03
=>
(श्लो। १०)
04
=>
(२-४९)
05
=>
[[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06
=>
[[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07
=>
[[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08
=>
[[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09
=>
[पृष्ठम्१२२२+ २७]
10
=>
[[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11
=>
[अग्निः, भिक्षुर्वा]
12
=>
[वातः]
13
=>
[[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14
=>
[[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15
=>
[[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16
=>
[[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17
=>
[[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18
=>
[[B। ‘मरुत्किमद्यापि तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19
=>
[[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20
=>
[[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21
=>
[[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22
=>
[पृष्ठम्१२२३+ २४]
1 {@“वा गतिसुखसेवनयोः”@} 2 ‘वात सुखसेवनयोः’ इति धातुवृत्तिबालमनोरमादिषु दृश्यते।
‘सुखाप्ति- गतिसेवासु’ इति वोपदेवः।
‘वात गतिसुखसेचनयोः--गतौ सुख- समाप्तौ’ इति काशकृत्स्नः।
वापकः-पिका, विवापयिषकः-षिका, वापयिता-त्री, विवापयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककालयतिवत् 3 ज्ञेयानि।
आदन्तत्वात् ण्यन्ते सर्वत्रास्य युगागमघटितरूपाणीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५८५)
02
=>
(१०-चुरादिः-१८८५। सक। सेट्। उभ।)
03
=>
(१७५)
1 {@“ओ वै शोषणे”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।’ 3 इति देवः।
4 वायकः-यिका, 5 वापकः-यिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, विवासिता-त्री, वावायिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि विशेषरूपाणि विना भौवादिकपायतिवत् 6 ज्ञेयानि।
7 वानम्, 8 इति उण्प्रत्यये रूपमेवम्।
वाति वायति वा द्रव्याणि इति वायुः।
“भाष्यकारमते अजेरपि धातोः ‘यजिमनि--’ 9 इत्यादिना बहुलग्रहणाद् युचि ‘वा यौ’ 10 इत्यनेन वादेशे ‘वायुः’ इति पदं सिद्ध्यति” इति प्रकृतसूत्रे 11 टिप्पन्यामुक्तम्।
तथा भाष्ये ‘न तर्हीदानीमिदं ‘वा यौ’ 12 इति वक्तव्यम्।
वक्तव्यं च।
किं प्रयोजनम्? नेयं विभाषा।
किं तर्हि? आदेशोऽयं विधीयते।
‘वा’ इत्ययमादेशो भवत्यजेर्यौ परतः--वायुरिति” इत्येवं दृश्यते।]] वायुः इमे रूपे विशेषेण भवतः।
प्रासङ्गिक्यः
01
=>
(१६५१)
02
=>
(१-भ्वादिः-९२१। सक। अनि। पर।)
03
=>
(श्लो। १०)
04
=>
[पृष्ठम्१२६८+ ३१]
05
=>
[[१। णिजन्ते सर्वत्र आदन्तलक्षणः पुगागम इति विशेषः।]]
06
=>
(१०६२)
07
=>
[[२। ‘ओदितश्च’ (८-२-४५) इति निष्ठातकारस्य नत्वे रूपमेवम्।]]
08
=>
[[३। ‘कृवापा--’ [द। उ। १-८६]
09
=>
(द। उ। १-१३४)
10
=>
(२-४-५७)
11
=>
(द। उ। १-८६)
12
=>
(२-४-७५)