वापम्-वाजम् (vApam-vAjam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं च गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् २ -वाजम् २, वापयित्वा २ -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम् २
वावायित्वा २
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
01 (१५८४)
02 (२-अदादिः-१०५०। सक। अनि। पर।)
03 (श्लो। १०)
04 (२-४९)
05 [[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06 [[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07 [[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08 [[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09 [पृष्ठम्१२२२+ २७]
10 [[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे च रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11 [अग्निः, भिक्षुर्वा]
12 [वातः]
13 [[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14 [[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15 [[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16 [[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17 [[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके च रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18 [[B। ‘मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19 [[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20 [[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21 [[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22 [पृष्ठम्१२२३+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
