| YouTube Channel

वापकः-पिका (vApakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“2 वप् बीजसन्ताने”@} 3 यजादिः।
“बीजसन्तानः = क्षेत्रे बीजविकिरणम्।
अयं गर्भाधानेऽपि दृश्यते।
यथा-- ‘मा वः क्षेत्रे परबीजा 4 न्यवाप्सुः’ 5 इति।
छेदनेऽपि दृश्यते, ‘केशान्वपति’ इति” इति मा।
धा।
वृत्तिः।
‘-- बीजतन्तुसन्ताने’ इति कातन्त्रः।
द।
उ।
वृत्तावपि 6 एवमेव।
‘-- छेदने’ इति केचित्।
‘--मुण्डबीजोप्त्योः’ इति वोपदेवः।
‘निपूर्वात् पितृक्रियार्थता’ इति धा।
का।
व्याख्यायाम् 7।
‘बीज- तन्तुसन्ताने, वपने, घर्षणे, तन्तुनिर्माणे च’ इति काशकृत्स्नः।
प्रणिवापकः-पिका, वापकः-पिका, 8 विवप्सकः-प्सिका, वावपकः-पिका
प्रणिवप्ता-वप्त्री, प्रणिवापयिता-त्री, विवप्सिता-त्री, वावपिता-त्री
9 प्रणिवपन्-आवपन् 10 -न्ती, वापयन्-न्ती, विवप्सन्-न्ती
-- वप्स्यन्-न्ती-ती, वापयिष्यन्-न्ती-ती, विवप्सिष्यन्-न्ती-ती
-- वपमानः, वापयमानः, विवप्समानः, वावप्यमानः
वप्स्यमानः, वापयिष्यमाणः, विवप्सिष्यमाणः, वावपिष्यमाणः
11 यवोप्-यवोब्-यवोपौ-यवोपः
-- -- 12 उप्तम्- 13 उप्तः-उप्तवान्, वापितः, विवप्सितः, वावपितः-तवान्
14 वपः, वपनः 15, प्रवापी 16, निवापी, धान्यवापी, वापः, 17 विवप्सुः, वावपः
प्रणिवप्तव्यम्, वापयितव्यम्, विवप्सितव्यम्, वावपितव्यम्
प्रणिवपनीयम्, वापनीयम्, विवप्सनीयम्, वावपनीयम्
18 वाप्यम्, वाप्यम्, विवप्स्यम्, वावप्यम्
ईषद्वपः-दुर्वपः-सुवपः
-- -- -- उप्यमानः, वाप्यमानः, विवप्स्यमानः, वावप्यमानः
वापः, 19 उप्त्रिमम्, 20 वापः, विवप्सः, वावपः
वप्तुम्, वापयितुम्, विवप्सितुम्, वावपितुम्
उप्तिः, 21 वपा, वापना, विवप्सा, वावपा
प्रणिवपनम्, वापनम्, विवप्सनम्, वावपनम्
उप्त्वा, वापयित्वा, विवप्सित्वा, वावपित्वा
प्रवोप्य, प्रवाप्य, प्रविवप्स्य, प्रवावप्य
वापम् उप्त्वा वापम् वापयित्वा विवप्सम् विवप्सित्वा वावपम्
वावपित्वा
22 वप्रिः, वापिः 23, 24 25 वप्रः 26, 27 वपुः।
प्रासङ्गिक्यः
01
=>
(१५५६)
02
=>
[डु]
03
=>
(१-भ्वादिः-१००३। सक। अनि। उभ।)
04
=>
[नि]
05
=>
(आप-धर्मसूत्रे-२-६-१३-६)
06
=>
(९। ३९)
07
=>
(२। ४२)
08
=>
[[१। ‘एकाच उपदेशे--’ (७-२-१०) इति धातोरनिट्त्वम्। सन्नन्ते अभ्यासस्येकारः।]]
09
=>
[[२। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपति--’ (८-४-१७) इत्या- दिना उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशे रूपमेवम्। एवं तव्य- अनीयर्-ल्युटादिप्रत्ययेष्वपि प्रक्रिया ज्ञेया।]]
10
=>
[[B। ‘तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकान् आवपतोऽभ्यनन्दत्।।’ शि। व। ३। ७६।]]
11
=>
[[३। यवान् वपतीत्यर्थः। ‘वपादेस्तु यवोब् विश्वोट् दोषवीश्च पटोत् तुकि।’ इति प्रक्रियासर्वस्वे।]]
12
=>
[[४। निष्ठायां यजादित्वात् ‘वचिस्वपि--’ (६-१-१५) इति संप्रसारणे रूपमेवम्। एवं यक्क्त्वाक्तिन्नादिष्वपि।]]
13
=>
[[C। ‘तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा।’ शि। व। ३। ५।]]
14
=>
[पृष्ठम्१२००+ २५]
15
=>
[[१। नन्द्यादिषु (३-१-१३४) पाठात् कर्तरि ल्युप्रत्ययः इति केचित्।]]
16
=>
[[२। ‘रक्षश्रुवपीनाम्’ (वा। ३-१-१३४) इति ग्रहादिपाठाण्णिनिप्रत्ययः।]]
17
=>
[[आ। ‘आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः।’ भ। का। ३। ४२।]]
18
=>
[[३। ‘आसुयुवपि--’ (३-१-१२६) इति ण्यत्प्रत्ययः। ‘पोरदुपधात्’ (३-१-९८) इति यतोऽपवादः।]]
19
=>
[[४। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति नित्यं मप्प्रत्यये रूपमेवम्।]]
20
=>
[[B। ‘असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौ।’ भ। का। ४। ३७।]]
21
=>
[[५। भिदादि (३-३-१०४) पाठात् स्त्रियां अङि रूपमेवम्। वपा = नाभेः श्वेतं मांसम्।]]
22
=>
[[६। ‘वङ्क्र्यादयश्च’ (द। उ। १-३५) इति क्रिन्प्रत्यये रूपम्। वप्रिः = क्षेत्रम्।]]
23
=>
[[७। ‘वसिवपिवदि--’ (द। उ। १-५३) इति इञ्प्रत्यये वृद्धौ रूपमेवम्। वपति अस्यामिति वापिः = पुष्करिणी। कृतसोपानकः कूपः।]]
24
=>
[पृष्ठम्१२०१+ २६]
25
=>
[[१। ‘वृधिवपिभ्यां रन्’ (द। उ। ८-४५) इति रन्प्रत्यये रूपमेवम्। उप्यतेऽस्मिन् बीजमिति वप्रम् = क्षेत्रम्, प्राकारजातिर्वा। ‘वप्रोऽस्त्री सानुमानयोः’ इति कोशः।]]
26
=>
[[आ। ‘… तीव्रं महाव्रतमिवात्र चरन्ति वप्राः।।’ शि। व। ४। ५८।]]
27
=>
[[२। ‘अर्त्तिपॄवपियजि--’ (द। उ। ९-३९) इति उसिप्रत्ययः। उप्यते प्राक्कर्मभिरिति वपुः = शरीरं, तेजश्च।]]
1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् -वाजम् २, वापयित्वा -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम्
वावायित्वा
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
प्रासङ्गिक्यः
01
=>
(१५८४)
02
=>
(२-अदादिः-१०५०। सक। अनि। पर।)
03
=>
(श्लो। १०)
04
=>
(२-४९)
05
=>
[[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06
=>
[[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07
=>
[[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08
=>
[[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09
=>
[पृष्ठम्१२२२+ २७]
10
=>
[[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11
=>
[अग्निः, भिक्षुर्वा]
12
=>
[वातः]
13
=>
[[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14
=>
[[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15
=>
[[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16
=>
[[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17
=>
[[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18
=>
[[B। ‘मरुत्किमद्यापि तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19
=>
[[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20
=>
[[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21
=>
[[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22
=>
[पृष्ठम्१२२३+ २४]
1 {@“वा गतिसुखसेवनयोः”@} 2 ‘वात सुखसेवनयोः’ इति धातुवृत्तिबालमनोरमादिषु दृश्यते।
‘सुखाप्ति- गतिसेवासु’ इति वोपदेवः।
‘वात गतिसुखसेचनयोः--गतौ सुख- समाप्तौ’ इति काशकृत्स्नः।
वापकः-पिका, विवापयिषकः-षिका, वापयिता-त्री, विवापयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककालयतिवत् 3 ज्ञेयानि।
आदन्तत्वात् ण्यन्ते सर्वत्रास्य युगागमघटितरूपाणीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५८५)
02
=>
(१०-चुरादिः-१८८५। सक। सेट्। उभ।)
03
=>
(१७५)
1 {@“वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@} 2 3 ‘ईज’ इत्यत्र ‘वीजेरलौकिकादवीजयत्’ इति क्षीरतरङ्गिण्यां दृश्यते।
‘वीज- धातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थः।
‘संवीजते’ इति प्रयोगस्तु जाम्बवतीविजये दृश्यते यथा-- ‘घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्।।’ इति तट्टीकायामुक्तम्।
‘वीजन्ति वालव्यजनैः--’ इति हरिवंशे 4 5 इति च।]] अत्र व्याप्तिः इत्यर्थः धातुवृत्ति, क्षीरतरङ्गिणी, जै, का।
कृ, द।
उ।
वृत्ति।
कातन्त्रशाकटायनीयेषु दृश्यते।
“प्रजनः = प्रथमगर्भग्रहणम्, असनं = क्षेपणं, अशनं = व्याप्तिरित्येके” इति क्षीरस्वामी।
‘प्रजननकान्त्यासन- खादनेषु च’ इति काशकृत्स्नधातुपाठे।
“कन्नडटीकायाम् आसनार्थस्य निर्देशात् काशकृत्स्ने ‘आसन’ इति पाठो द्रष्टव्यः।
यद्वा मूलपाठे प्रमाद- पठितस्यैव टीकाकृता तथा व्याख्यानं कृतं स्यात्” इति का।
कृ।
टीका।
‘अजेर्व्यघञपोः’ 6 इति सूत्रभाष्यरीत्या अस्य धातोः आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्।
“‘वी’ इत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते” इति सि।
कौमुदी।
‘--कान्तिगतिव्याप्तिक्षेपप्रजन- खादनेषु’ इति वोपदेवः।
वायकः-यिका, वायकः, 7 वापकः-पिका, 8 विवीषकः-षिका, वेवीयकः-यिका
9 वेता-त्री, वाययिता-वापयिता-त्री, विवीषिता-त्री, वेवीयिता-त्री
10 वियन्-ती, वाययन्-पुरोवातो गाः, प्रवापयन्, वापयन्-न्ती, विवीषन्-न्ती
-- वेष्यन्-न्ती-ती, वाययिष्यन्-वापयिष्यन्-न्ती-ती, विवीषिष्यन्-न्ती-ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकलिनातिवत् 11 ज्ञेयानि, प्राति- स्विकरूपाणि विना।
निष्ठायाम् वीतम्-तः, 12 वयः, क्तिनि-वीतिः, वेणिः 13, वेणुः 14, वीणा 15, 16 वेतनम्, 17 वेत्रम्, 18 वेतसः, वयः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१६१७)
02
=>
(२-अदादिः-१०४८, सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(१३-९२)
05
=>
(म। भारते ७-३०७)
06
=>
(२-४-५६)
07
=>
[[१। ‘प्रजने वीयतेः’ (६-१-५५) इति प्रजने वर्तमानस्य णौ विभाषा आत्वे, पुकि रूपमेवम्।]]
08
=>
[[२। सन्नन्तात् ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः।]]
09
=>
[पृष्ठम्१२४५+ २६]
10
=>
[[१। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रकृतेः इत्यङादेशे रूपमेवम्।]]
11
=>
(१४९२)
12
=>
[[२। ‘एरच्’ (३-३-५६) इति भावे अकर्तरि कारके संज्ञायामच्प्रत्यये रूपम्। घञोऽपवादः।]]
13
=>
[[३। ‘वीज्याज्वरिभ्यो निः’ (द। उ। १-१८) इति निप्रत्ययः। बाहुलकात् णत्वम्। वेणिः = केशबन्धः।]]
14
=>
[[४। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वेणुः = वंशः। अत्रापि बाहुल- कादेव णत्वम्।]]
15
=>
[[५। औणादिके (द। उ। ५-४७) नप्रत्ययो णत्वं गुणाभावश्च निपातनात्। तेन रूपमेवम्। वेति जायते स्वरोऽस्यामिति वीणा = वल्लकी। ‘वीणा तु वल्लकी। विपञ्ची’ इत्यमरः।]]
16
=>
[[६। ‘वीपतिभ्यां तनन्’ (द। उ। ६-५६) इति तनन्प्रत्ययः। वेतनम् = भृतकदानम्। भृतकर्मकधनमिति केचित्।]]
17
=>
[[७। ‘गुधृवी--’ (द। उ। ८-८९) इति त्रप्रत्यये रूपमेवम्। वेत्रम् = वीरुद्विशेषः।]]
18
=>
[[८। ‘वियस्तुट् च’ (द। उ। ९-४५) इति अचस्प्रत्यये तुडागमे रूपमेवम्। बेतसः = काष्ठजातिः।]]