| YouTube Channel

वानप्रस्य (vAnaprasya)

 
वाचस्पत्यम्
Sanskrit
वानप्रस्य
पु०
वाने वनसमूहे प्रतिष्ठति स्था--क मधूकवृक्षे२ पलाशवृक्षे वनप्रस्थ एव स्वार्थे अण् “गृहस्थस्तुयदा पश्येत् वलीपलितमात्मनः पुत्रेषु दारान् नि-क्षिप्य वनं गच्छेत् सहैव वा” इत्युक्ते आश्रमभेदे मेदि० ।स द्विविधः पचमानः अपचमानश्च तत्र पचमानःअश्मकुट्टः अपचमानस्तु दन्तालूखलिकः ।तस्य धर्मो यथा “भूस्था मूलफलाशित्वं स्वाध्यायस्तपएव संविभागो यथान्यायं धर्मोऽयं वनवासिनः ।तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति स्वा-ध्याये चैव निरतो वनस्थस्तापसो मतः तपसाकर्षितोत्यर्थं यस्तु ध्यानपरो भवेत् सन्न्यासीहस विज्ञेयो वानप्रस्थाश्रमे स्थितः” गारुडे ४९ अ०याज्ञवल्क्य उवाच “वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तुमहर्षयः पुत्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैववा वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ।अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा भृत्यांस्तुतर्पयेत् श्मश्रुजटालोमभृदात्मवान् दान्तः स्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् स्वाध्यायवान् ध्यान-शीलः सर्वभूतहिते रतः अह्लो मासस्य षणां वाकुर्य्याद्वान्नपरिग्रहम् कृत्वा त्यजेदाश्वयुजे नयेत्कालं व्रतादिना पक्षे मासे तु वाश्नीयाद्दन्तोलूख-लिको भवेत् चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्फलादिना ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिले-शयः आर्द्रवासास्तु हेमन्ते योगाम्यासाद्दिनं नयेत् ।१०२ अ० “जटित्वम ग्नहोत्रित्वंभूशय्याऽजिनधारणम् ।वने वासः पयोमूलनीवारफलवृत्तिता प्रतिषिद्धा-न्निवृत्तिश्च त्रिस्नानं व्रतधारिता देवतातिथिपूजाच धर्मोऽयं वनवासिनः २१५ अ० “एवं गृहाश्रमेस्थित्वा द्वितीयभागमायुषः वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव निःक्षिप्य भार्य्यां पुत्रेषु गच्छे-द्वनमथापि दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ।शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे गत्वाप्यरण्यंनियमांत्तपः कुर्य्यात् समाहितः फलमूलानि प-त्राणि नित्यमाहारमाहरेत् यदाहारो भवेत्तेनपूजयेत् पितृदेवताः पूजयेदतिथिं नित्यं स्नात्वाचाभ्यर्चयेत् सुरान् ग्रामादानीय वाश्नोयादष्टौप्रासान् समाहितः जटाश्च विभृयान्नित्यं नखरो-माणि नो त्यजेत् स्वाध्यायं सर्वदा कुर्य्यात् नियच्छे-द्वाचमन्यतः अग्निहोत्रन्तु जुहुयात् पञ्च यज्ञान् समा-चरेत् मुन्यन्नैर्बिविधैर्मेध्यैः शाकमूलफलेन वा ची-रवासा भवेन्नित्यं स्नायात् स्त्रिषवणं शुचिः सर्व-भूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः दर्शेन पौर्णमासेन यजेत नियतं द्विजाः! पक्षेष्ट्या श्रावणे चैवचातुर्मास्यानि चाहरेत् उत्तरायणञ्च क्रमशो दक्षस्या-यनमेव वासन्तशारदैर्मध्यैर्मुन्यन्नैः स्वयमा-हरेत् पुरोडाशं चरुं चेव विधिवन्निर्वपेत् पृथक् ।देवत भ्यश्च तद्धुत्वा वन्थं मेध्यतरं हविः शेषं स-मुपभुञ्जीत लवणञ्ज स्वयंकृतम् वर्जयेन्मधुमांसादिभौमानि कवकानि भूस्तृणं शिग्रुकञ्चैव श्लेष्मा-तकफलानि फालकृष्टमश्नीयात् उत्सृष्टमपिकेनचित् ग्रामजातान्यार्त्तो वा पुष्पाणि चफलानि श्रावणे चैव विधिना वह्निं परिचरेत्सदा द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्ममो भवेत् ।न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत् ।जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ब्रह्म-चारी भवेनित्यं पत्नीमपि संश्रयेत् यस्तु पत्न्यावनं गत्वा नैथुनं कामतश्चरेत् तद्व्रतं तस्य लुप्येतप्रायश्चित्ती भवेत् द्विजः तत्र यो जायते गर्भो नसंस्पृश्यो द्विजातिभिः हि वेदाधिकारोऽस्य तत्त्व-मप्येवमेव हि अधः शयीत सततं सावित्रीजप-तत्परः शरण्यः सर्वभूतानां संविभागपरो भवेत् ।परीवादं मृषावादं निद्रालस्ये वर्जयेत् एकाग्नि-रनिकेतः स्यात् प्रोक्षितां मूमिमाश्रयेत् मृगैः सहचरेद्वासं तैः सहैव सवसेत् शिलायां शर्करायांवा शयोत सुसमाहितः सद्यःप्रक्षालको वा स्यात् माससञ्चयिकोऽपि वा षण्मासनिचयो वा स्यात्समानिचय एव वा नक्तञ्चान्नं समंश्नीयात् दिवा वा-हृत्य शक्तितः चतुर्थकालिको वा स्यात् स्याद् वाअष्टमकालिकः चान्द्रायणवियानैर्वा शुक्ले कृष्णेच वर्तयेत् पक्षे पक्षे समश्नीयात् यवागूकथितां तथा ।पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदां स्वाभाविकैःस्वयंशीणैर्वैखानसमते स्वितः मूमौ वा परि-वर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् स्थानासनाभ्यां विह-रेत् क्वचिद्धैर्य्यमुत्सृजेत् ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशिकः आर्द्रवासास्तु हेमन्ते क्रमशोवर्त्तयंस्तपः उपस्मृश्य त्रिषवणं पितृन् देवांश्च तर्प-येत् एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा प-ञ्चाग्निघूसपो वा स्वादूष्मपः सोमपोऽथ वा पयः पिबेत्शुक्लपक्षे कृष्णपक्षे तु गोमयम् शीर्णपर्णाशनो वास्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा योगाभ्यासरतो वास्याद्रुद्राध्यायी भवेत् सदा अथर्वशिरसापेतो वेदान्ता-भ्यासतत्परः यमान् सेवेत सततं नियमाश्चाप्यतन्द्रितः कृष्णाजिती सोपवीत्तः शुक्लयज्ञोपवीतवान् ।अथ वाग्नीन् समारोप्य स्वात्यनि ध्यानतत्परः चन-ग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् तापसेष्वेवविप्रेषु यात्रिकं भैक्षमाहरेत् गृहमेधिषु चान्येषुद्विजेषु वनवासिषु ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वनेवसन् प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् विद्यावि-शेषान् सावित्रीं रुद्राध्यायं तथैव महाप्रस्था-निकञ्चासौ कुर्य्यादनशनन्तथा अग्निप्रवेशमन्यद् वाब्रह्मर्पणविधौ स्थितः ये तु सम्यगिममाश्रम शिव-माश्रयन्त्यशुभपुञ्जनाशनम् ते विशन्ति पदमैश्वरंपरं यान्ति चैव जगतोऽस्य संस्थितिम्” कूर्मपु० २६ अ०