| YouTube Channel

वाद्यं (vAdyaM)

 
Apte 1890
English
वाद्यं [वद्-णिच् यत्] 1 A musical instrument.
2 The sound of a musical instrument
R. 16. 64 ( वाद्यध्वनिः Malli.).
Comp.
करः a musician.
भांडं {1} a band of music, a number of musical instruments. {2} a musical instrument.
शब्दकल्पद्रुमः
Sanskrit
वाद्यं,
क्ली,
(वद् + णिच् + यत् ।) वादयन्ति ध्वन-यन्ति यत् वाज्ना इति भाषा तत्पर्य्यायः ।वादित्रम् आतोद्यम् तच्चतुर्विधं यथा, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ।वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनम्
”इत्यमरः
“इदं ततादि चतुर्विधं चतुःप्रकारं वाद्यादिशब्द-द्वयवाच्यम् ।‘इदं चतुर्विधं वाद्यं वादित्रादिद्विनामकम् ।’वाद्यमितिसमस्तं प्रथमान्तं विशेष्यपदं इतिकलिङ्गादयः फलतो विशेष्यः ।” इति तट्टी-कायां भरतः
*
अथ वाद्यानि ।“तालेन राजते गीतं तालो वादित्रसम्भवः ।गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते
ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् ।ततं तन्त्रीगतं वाद्यं वंश्याद्यं शुषिरं तथा
चर्म्मावनद्धमानद्धं घनं तालादिकं मतम्
*
तत्र ततं यथा, --“अलावणी ब्रह्मवीणा किन्नरी लघुकिन्नरी ।विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया
हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी ।त्रिशवी शतचन्द्री नकुलौष्ठी ढंसवी
औडम्बरी पिनाकी निबन्धः शुष्कलस्तथा ।गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः ।कपिलासो मधुस्यन्दी घोणेत्यादि ततं भवेत्
”अलावणी यथा, --“कनिष्ठिका परिधर्द्धिमध्यच्छिद्रेण संयुतः ।दशयष्टिमितो दण्डः खादिरो वैणवोऽथवा
अधःकरभवानूर्द्ध्वे छत्रावल्याभिशोभितः ।नवाङ्गुलादधश्छिद्रोपरि चन्द्रार्द्धसन्निभाम्
निवेश्य चुम्बिकां भद्रालावुखण्डं निवेशयेत् ।द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम्
तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्म्मिताम् ।अलावुमध्यगां डौवीं कृत्वा स्वल्पान्तु काष्ठि-काम्
तथा संवेष्ट्य तन्मध्ये काष्ठिकां भ्रामयेत्ततः ।यथा स्यान्निश्चलालाबुर्ब्बन्धश्च करभोपरि
पञ्चाङ्गुलिषु संत्यज्यालावुं स्वल्पाञ्च बन्धयेत् ।केशान्तनिर्म्मिता पट्टमयी सूत्रकृताथवा
समाः सूक्ष्मा दृढा तत्र तन्त्री देया विचक्षणैः ।एतल्लक्षणसंयोग्यान्यालावणी प्रकीर्त्तिता
बिन्दुना समुपेतं तुम्बं निःक्षिप्य वक्षसि
मध्यमानामिकाभ्याञ्च वाद्या दक्षिणपाणिना
तारे मद्रे घोषे त्रिस्थाने बिन्दुरिष्यते ।तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत्
ततस्ताभिस्तु सर्व्वाभिः स्वरव्यक्तिर्विधीयते ।त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः
अलावण्यां स्थिता ज्ञेयाः सप्तषड्जादयः स्वराः ।रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः
अंशन्यासविभेदाच्च तथात्रापि विधीयते ।इयमलावणी प्रोक्ता मनःश्रवणरञ्जनी
प्रत्यक्षा सारदा देवी वीणारूपेण संस्थिता
”इत्यलावणी
अन्येषां लक्षणं विस्तरभया-न्नोक्तम्
*
शुषिरं यथा, --“वंशोऽथ पारीमधुरीतित्तिरीशङ्खकाहलाः ।तोडहीमुरलीवुक्काशृङ्गिकास्वरनाभयः
शृङ्गं कापालिकं वंशश्चर्म्मवंशस्तथापरः ।एते शुषिरभेदास्तु कथिताः पूर्व्वसूरिभिः
वर्त्तुलः सरलश्चैकपर्व्वदोषविवर्ज्जितः ।वैणवः स्वादिरो वापि रक्तचन्दनजोऽथवा
श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा ।राजतस्ताम्रजो वापि लौहजस्फाटिकोऽथवा
कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोधितः ।शिल्पविद्याप्रवीणेन वंशः कार्य्यो मनोहरः
वंशेनैव मतोऽपीति मतङ्गमुनिनोदितम् ।ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः
तत्र त्यक्त्वा शिरोदेशादधो द्बिमितमङ्गुलम् ।फुत्काररन्ध्रं कुर्व्वीत मितमङ्गुलिपर्व्वणा
पञ्चाङ्गुलानि संत्यज्य तावद्रन्ध्राणि कारयेत् ।कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात्
वदरीबीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् ।प्रान्तयोर्ब्बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे
सिक्थकेन कला देया तेन सुस्वरता भवेत् ।पञ्चाङ्गुलोऽयं वंशः स्यादेकैकाङ्गुलिवृद्धितः
षडङ्गुलानि नाम्ना स्याद्यावदष्टादशाङ्गुलम् ।फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम्
तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते
एकाङ्गुलो द्व्यङ्गुलश्च त्र्यङ्गुलश्चतुरङ्गुलः ।अतितारतरत्वेन वांशिकैः समुपेक्षितः
त्रयोदशाङ्गुलो वीणापरः ।निन्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः
महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा ।चत्वार उत्तमा वंशा मतङ्गमुनिसम्मताः
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ।द्वादशाङ्गुलमानस्तु विजयः परिकीर्त्तितः
चतुर्द्दशाङ्गुलमितो जय इत्यभिधीयते ।ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः
नैविड्यं प्रोढता चापि सुस्वरत्वञ्च शीघ्रता ।माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताःशीत्कारबहुलः स्तब्धो विस्वरः स्फुटतो लघुः ।अमधुराश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात्
वृथा प्रयोगबाहुल्यमल्पता गीतवादनं ।एभिर्दोषैर्युतोऽतीव निन्दितो वंशिको मतः
स्थानकादिलयाभिज्ञो गमकाढ्यः स्फुटाक्षरः ।शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते
प्रमुक्तिर्बद्धमुक्तिश्च युक्तिश्चेत्यङ्गुलेर्गुणाः ।सुस्थानत्वं सुस्वरत्वं अङ्गुलीसावनक्रिया
समस्तगमकज्ञानं रागरागाङ्गवेदिता ।क्रियाभाषाविभाषासु दक्षता गीतवादने
स्वस्थाने चापि दुःस्थाने नादनिर्म्माणकौशलम् ।गातॄणां स्थानदातृत्वं तद्दोषाच्छादनं तथा
वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः
”इति वंशः
काहला स्त्री निषङ्गः तोडही मुरली वुक्काइत्येते स्त्रियां सप्तस्वराणां नाभिरिव स्वर-नाभिः स्त्रियां वर्त्तते इतरेषां विस्तरभया-न्नोक्तम्
*
आनद्धं यथा, --“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः
”अपि ।“मुरजपटहढक्का विम्बको दर्पवाद्यंपणवघनसरुञ्जा लावजाह्वत्रिवल्यः ।करठकमठभेरी स्यात् कुडुक्का हुडक्काझनसमुरलि झल्ली ढुक्कली दौण्डिशाना
डमरुटमुकिमड्डुः कुण्डलीस्तङ्गुनामारणमभिघटवाद्यं दुन्दुभी रजश्च ।क्वचिदपि ढुढुकी स्यात् दर्दुरं चाप्युपाङ्गंप्रकटितमनबन्धं वाद्यमित्थं जगत्याम्
त्रिपुरमथनकर्त्तुस्ताण्डवे तत्प्रयाणेततमखशुषिरञ्चानद्धमित्थं घनञ्च * ।मर्द्दलः खादिरः श्रेष्ठो हीनः स्यादन्यदारुजः ।रक्तचन्दनजो वाद्यो गभीरध्वनिरुच्चकैः
सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते ।त्रयोदशाङ्गुलं वाममथवा द्वादशाङ्गुलम्
दक्षिणञ्च भवेद्धीनमेकेनार्द्धाङ्गुलेन वा ।करणानद्धवदनो मध्ये चैव पृथुर्भवेत्
षाण्मासीयो भवेत् वस्तस्तच्चर्म्म करणं मतम् ।मृत्तिकानिर्म्मितश्चैव मृदङ्गः परिकीर्त्तितः
पातयेत् खरलिं वाद्यं मादनार्थञ्च मर्द्दले ।विभूतिर्गैरिकं भक्तं केन्दुकेन सम्मतम्
यद्वा चिपीटकं देयं जीवनीसत्त्वमिश्रितम् ।सर्व्वमेकत्र पिष्टन्तल्लेपः खरलिरुच्यते
वामास्ये पूरिकां कृत्वा लेपं दद्याच्च दक्षिणे ।एवं मर्द्दलकः प्रोक्तः सर्व्ववाद्योत्तमो मतः
अस्य संयोगमासाद्य सर्व्वं वाद्यञ्च शोभते ।एतदङ्गे बीजकाष्ठे दलमर्द्धाङ्गुलं विदुः
*
तधिधोतेमिति ज्ञेयाः पाढवर्णा मृदङ्गजाः ।थों दं ढें धिक्कटस्तद्धी ताकं दं दं थोगं धिधि
खर्झ झिं नं गटं दं था कूटपाढा मता अमी ।तथिं थों ढें तक्क धी दों दं दं धिग् णां ततंतधि
तक्क तं धं धिदों तधि पाढखण्डे त्वयं क्रमः * ।तथा यतिमाने पाढखण्डः द्रगतथेजांगतथेजां धो धो धिक ताधिका थोजां थोजांतक तता धिका थोता द्रगत ताधि धि धिधि-कतता कडना थोधिक थोजां धोता द्रगतताद्रगतता द्रगतता धि इति यतिमानपाढ-खण्डः
*
“यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् ।गलपः सारिगोणी नादश्च कथितं तथा
प्रहरणं वृन्दनञ्च प्रबन्धा द्वादश स्मृताः
”यथा दं थात इत्येकताल्यां यतिः
*
ओडवाद्यं यथा दां तथो तधिक तधिक दंथा दं था थोधि थोधि तत्त तत्त थवि थविदिश्यां दिश्यां टटुनकि टटुनकि तदटकु तदटकुखवटकु खवटकु तगिनगि तगिनगि दां दां दंदं दीं दीं दं ता तथा इत्योडवाद्यम्
*
अवच्छेदवाद्यं यथा दं थातः दं थातः धिक्किधिक्कि दिग्गं दं थातः इत्यवच्छेदवाद्यम्
*
गजरवाद्यं यथा थोकटे नेञ ढें डें गथोगथोङ्क टेङ्क थोगतकि धिक्तकि धिक टेङ्गनधि धि कटतक थोक तधि कटतक्क कतथोगतङ्गीम् इत्येकताल्यां गजरः
*
रूपक-वाद्यं यथा तक धिक तक धिक्क थवितकिथवितक्कि धिक्क दं थातः इति रूपकवाद्यम्
ध्रुवकवाद्यं यथा तक्क तक्कट धिक्क धिक्कट ।इति निसारुताले ध्रुवकः
*
गलपो यथा ।तधिद्धि धिकतक तधिगल गं था था दें तथाटेञन इत्येकताल्यां गलपः
*
सारिगोणीयथा थोङ्ग टेञ तक्क धिक्क तकाधक तकथोहटङ्गन हटङ्गन थोगककथोः इति प्रथम-खण्डः
*
टेञखोः धिखोहः टेञ टेञ दक्कतगदक्क धिक्क तदिदक्क दं गदं गखो गखोकतक तक धिकत धिकत धोढेञ धोटेञ धटेगलखोग गल खोग खोहट गें टगें खोहटञइत्यस्य छन्दनम् इति सारिगोणी
*
नादो यथा, --“दांकारत्रितयं पूर्व्वं दां धिगिति ततस्त्रयम् ।दां दां धिकत्रयं यत्र इति नादः शचीप्रियः
”इति नादः
“द्रुतं मानसमारब्धं शुद्धं कूटविनिर्म्मितम् ।सप्तषण्डमयं वाद्यं करिभं तदिहोच्यते
”द्रुतमानद्धात् प्रतिताले यथा तत्तत तत्तततक्कि तक्कि दिदं धिगनखो धिगनखो धिक्कधिक धिक्क धिक्क धिक नगि नगमि थो थो धिधि धिः दां दां धिक्क थो थो थो हत्थोहनञिथो नञिथो थोह थोह डेढि डेढि थोहथोह तटी तटि तटुक गीं गीं धगि धगि तततधे तधे तत तगि ङीञङी थोग थोग थों थोगगथो गथो तत्ताता ।“इति सप्तपदान्याहुः कथितं वाद्यपण्डिताः ।प्रतितालेन तालेन पादवर्णसमासतः
गन्धर्व्वपतिना पूर्व्वमुर्व्वशीलास्यनर्त्तने ।सुधर्म्मारञ्जनार्थञ्च करीभं प्रकटीकृतम्
”प्रहरणं यथा थोगक्का तद्धिकाथा गकटगगों दं थोग दिद्धिक धिक्क धिकटेञ इत्येक-ताल्यां प्रहरणम्
“वाद्यं विमुच्यते येन छन्दनं तन्निगद्यते ।”यथा तद्धिथो दिञ टेञ तन्नः इति छन्दनम्
“कलासो विकलासश्च टाकली चार्द्धटाकली ।जोलाटा कलिका चैव गोमुद्री मुरजस्तथा
”अलावुजवाद्यं म्लेच्छवाद्यम् मर्द्दलः त्रयोदशा-ङ्गुलवाममुखो द्वादशाङ्गुलदक्षिणमुखः मुरज-स्त्वष्टादशाङ्गुलवाममुखः सप्तदशाङ्गुलदक्षिण-मुखः मर्द्दलमुरजयोरयं भेदः
*
घनंयथा, --“अनुरक्तं विरक्तञ्च द्विविधं घनवाद्यकम् ।गीतानुगमनुरक्तं विरक्तं तालसंश्रयम्
करतालः कांस्यबलो जयघण्टोऽथ शुक्तिका ।कम्बिका पटवाद्यञ्च पट्टातोघञ्च घर्घरम्
झञ्झातालश्च मञ्जीरकर्त्तर्य्युङ्कर इत्यपि ।द्वादशैते मुनीन्द्रेण कथिता घनसंज्ञकाः
त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनिर्म्मितौ ।मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ
पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ ।करतालावुभौ वाद्यौ पाढे झनटकैरिति
यद्वा त्रयोदशयवव्यामं वक्रयवोन्मितम् ।यवपञ्चकगम्भीरं मध्ये यवसप्तकम्
विमृतं वर्त्तुलं निम्नं यवत्रयमितं ततः ।पृष्ठतो मध्यदेशे शिवलिङ्गसमाकृतिम्
अत्यम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्म्मितम् ।संरक्ताङ्गुलिसुस्निग्धसुदीर्घमधुरध्वनिम्
घना निसा विसंरक्तं दृढं शुष्कं मनोहरम् ।काश्मीरादिसमुद्भूतं तालमाहुर्मनीषिणः
सुनादं दक्षिणं तालं ततो हीनञ्च वामकम् ।कुर्व्वीत तद्द्वयं कार्य्यं तर्ज्जन्यङ्गुष्ठयोर्गतः
वामहस्तस्थतालस्य मध्यमं सन्निनादितम् ।तिर्य्यग्दक्षिणतालस्य परिव्यंशेन तालयेत्
तालादौ वादयेच्चैव प्लुतदीर्घलघुद्रुतैः
”इति करतालविशेषः कर्त्तरीघनविशेषः उङ्कु-रश्च घनविशेषोऽदन्तरेफान्तपुंलिङ्गः अन्येषांलक्षणं विस्तरभयान्नोक्तम्
*
“रुक्मिण्याः सत्यभामायाः कालिन्दीमित्र-विन्दयोः ।जाम्बवत्या नाग्नजित्या लक्ष्मणाभद्रयोरपि
कृष्णस्याष्टमहिषीणां पुरोद्वाहमहोत्सवे ।ततं शुषिरमानद्धं घनञ्च युगपज्जनाः
अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः ।ततं वाद्यन्तु देवानां गन्धर्व्वाणाञ्च शौषिरम्
आनद्धं राक्षसानान्तु किन्नराणां घनं विदुः ।निजावतारे गोविन्दः सर्व्वमेवानयत् क्षितौ
यावन्ति वाद्यभाण्डानि रामरावणयोर्युधि ।तावत्यो नाभवन् सेनाः कुरुपाण्डवसङ्गरे
”किञ्च ।“लिलिम्प हृत्कम्पनतोमरेणरणे सुरारेर्मथनात् सुरेण ।अभूत्तताद्यैरपि सिंहनादैःसा पञ्चशब्दीति कणादवादः
”युद्धे सैन्यानां योऽहङ्काररवः सिंहनादः ।ततादिभिरेभिश्चतुर्भिर्वाद्यैश्चमूनां सिंहनादैश्चपञ्चशब्दीवाद्यमभूत् सिहनादेन सह वाद्यंपञ्चविधं भवतीत्यर्थः इति सङ्गीतदामोदरः
विष्णुगृहे वाद्यकरणफलं यथा, --“अन्योपहारैर्विविधैर्घृतक्षीराभिषेचनैः ।गीतवादित्रनृत्याद्यैस्तोषयस्वाच्युतं नृप
पुण्यरात्रिषु गोविन्दं गीतनृत्यरवोज्ज्वलैः ।भूपजागरणैर्भक्त्या तोषयाच्युतमव्ययम्
येषां वित्तं तैर्भक्त्या मार्ज्जनाद्युपलेपनैः ।तोषितो भगवान् विष्णुर्ददात्यभिमतं फलम्
देवकर्म्मणि सक्तानां तेषां संस्मृतिसंस्तवैः ।तोषितोऽभिमतान् कामान् प्रयच्छति जना-र्द्दनः
”इति वह्निपुराणे क्रियायोगनामाध्यायः
देवप्रतिष्ठायां वाद्यविधिर्यथा, --“ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः ।सर्व्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत्
”इति वाराहे शैलार्च्चास्थापनाध्यायः
देवताविशेषगृहे वाद्यविशेषनिषेधो यथा ।योगिनीतन्त्रे ।“शिवागारे झल्लकञ्च सूर्य्यागारे शङ्खकम् ।दुर्गगारे वंशीवाद्यं माधुरीञ्च वादयेत्
”झल्लकं कांस्यनिर्म्मितकरतालम् मत्स्यपुराणे
“गीतवादित्रनिर्घोषं देवस्याग्रे कारयेत् ।विरिञ्चेश्च गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत्
घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः
”इति तिथ्यादितत्त्वम्