| YouTube Channel

वात्सल्यः (vAtsalyaH)

 
शब्दकल्पद्रुमः
Sanskrit
वात्सल्यः,
पुं,
(वत्सल एव स्वार्थे ष्यञ् ।)रसविशेषः यथा, --“वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकःस्मृतः
”इति त्रिकाण्डशेषः
एतद्रसाधिकारी यथा, --“शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकी-र्त्तितः ।प्रेयास स्युः सखायो हि यशोदा वत्सले स्मृताः
मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः ।सखीयूथोऽद्भुते ज्ञेयो वीरे चारणगोवृषाः
करुणे वत्सवृक्षादिर्जटिलाद्यास्तु रौद्रके ।गोवर्द्धनेऽभिमन्युश्च भयानक उदाहृतौ
तपस्विन्यादयो ह्यत्र वीभत्से परिकीर्त्तिताः ।व्रजस्था नियता ज्ञेया आलम्बनविभावकाः
”इत्युज्ज्वलनीलमणिः
(वत्सलस्य भावः वत्सल + ष्यञ् ।) वत्सलस्यभावे,
क्ली,
(स्नेहः यथा, भागवते ३४ ।“चरन्तं विश्वसुहृदं वात्सल्ल्याल्लोकमङ्गलम्
”)