| YouTube Channel

वातसहः (vAtasahaH)

 
शब्दकल्पद्रुमः
Sanskrit
वातसहः, त्रि, (वातं वातजनितरोगं सहते ।सह + अच् ।) अत्यन्तवायुयुक्तः यथा, --“वातासहो वातसहो वातूलो वातुलोऽपि ।”इति शब्दरत्नावली
(वायुवेगसहनशीलः यथा, महाभारते ।१४२
“ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ।ऊर्म्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच
”)