वातरक्तं (vAtaraktaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवातरक्तं, (वातदूषितं रक्तं यत्र ।) रोग-विशेषः । तस्य विप्रकृष्टं निदानमाह ।“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः ।क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥
कुलत्थमासनिष्पावशाकादिपललेक्षुभिः ।दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥
विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः ।प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्चविदाह्यन्नं संविदाहाशनस्य ॥
* ॥
क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी-र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः ।क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि-तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि-मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् ।पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव ।निष्पावः वोडाशाकम् । शाकं पत्रशाकम् ।आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते ।पललं शटितत्वादिदोषरहितमपि मांसं वात-शोणितं प्रकोपयेत् । शटितादि तु मांसंविशेषतो वातशोणितं प्रकोपयेत् । आरनालंसन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरंसन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतंदधि । सुरा सन्धानभेदः । आसवः सन्धान-भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् ।अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ।अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु-माराणां अल्पतरकायव्यापाराणाम् । अथवामिथ्याहारविहारिणाम् । अयथाहारविहा-राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य-श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधोगच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या-मप्यति चलतः । अश्नतः विदाह्यन्नम् । विदाहिनिष्पावकुलत्थसर्षपशाकादि । संविदाहाशनस्य ।संविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरिभुञ्जानस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनंविदग्धाजीर्णभोजनस्य विशेषतो हेतुत्वार्थम् ।पश्चात् वातशोणितं प्रकुप्येदित्यनेनान्वयः ।एतेषां कारणानां मध्ये केनचिद्वायुः केन-चिदुभयमपि प्रकुप्येत् ॥
* ॥
संप्राप्तिमाह ।“कृत्स्नं रक्तं विदहत्याशु तच्चदुष्टं स्रस्तं पादयोश्चीयते तु ।तत् संपृक्तं वायुना दूषितेनतत्प्राबल्यादुच्यते वातरक्तम् ॥
”पूर्व्वोक्तैर्हेतुभिः कृत्स्नं समस्तं रक्तं विदहतिअत्र दहधातुरविवक्षितकर्म्मकः । तेन विद-हति विदग्धं भवतीत्थर्थः । तच्च दुष्टं रक्तम् ।स्रस्तं अधोगतम् । पादयोश्चीयते सञ्चितंभवति । तद्रुधिरं दूषितेन स्वहेतुवायुनासंपृक्तं मिलितं वातरक्तं उच्यते । ननु चैत्रस्यसंप्राप्तिरुक्ता सुश्रुतेन ।“शीघ्रं रक्तं दुष्टिमायाति तच्चवायोर्मार्गं संरुणद्ध्याशु वातः ।क्रुद्धोऽत्यर्थं मार्गरोधात् स वायु-रत्युद्रिक्तं दूषयेदुक्तमाशु ॥
”अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमितिव्यपदेष्टुमुचितं भवत्यत आह । तत्प्राबल्या-दिति । तस्य वातस्य दोषत्वेन प्राधान्याद्वात-रक्तमिति व्यपदिश्यते ॥
* ॥
पूर्व्वरूपमाह ।“स्वेदोऽत्यर्थं न वा कार्श्यं स्मर्शाज्ञत्वं क्षतेऽति-रुक् ।सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ॥
जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु ।निस्तोदः स्फुरणं मेदो गुरुत्वं सुप्तिरेव च ॥
कण्डूः सन्धिषु रुक् दाहो भूत्वा नश्यति चास-कृत् ।वैवर्ण्यं मण्डलोत्पत्तिर्व्वातासृक्पूर्व्वलक्षणम् ॥
”अथाधिकृतवातस्य वातरक्तस्य लक्षणमाह ।“वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् ।शोथस्य रौक्षं कृष्णत्वं श्यावतावृद्धिहानयः ॥
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् ।शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥
”तत्र पादयोः शूलादिकमधिकम् । यत आहसुश्रुतः ।“स्पर्शोद्विग्नौ तोदभेदप्रशोफौस्वापोपेतौ वातरक्तेन पादौ ॥
” इति ।अत्र सुप्तिः स्पर्शाज्ञता ॥
* ॥
अधिकरक्तं वात-रक्तमाह ।“रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचिमा-यते ।स्निग्धरूक्षैः समं नैति कण्डूत्क्लेदसमन्वितः”अधिकपित्तं तदाह ।“पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मद-स्तृषा ।स्पर्शासहत्वं रुग्दाहः शोथपाकौ भृशोष्णता ॥
विदाहश्च पादावेव बोद्धव्यः । यत आह सुश्रुतः ।पित्तासृग्भ्यामुग्रदाहौ भवेता-मत्यर्थोष्णौ रक्तशोथौ मृदू च ॥
पदाविति शेषः ॥
अधिककफं तदाह ।कफैस्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः ।गुरुतादयः पादयोरेव । यत आह सुश्रुतः ।कण्डूमन्तौ स्वेदशीतौ सशोथौपीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते ॥
* ॥
अतिक्रियमाणवातरक्तस्य उपद्रवानाह ।“अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः ।मूर्च्छा च मन्दरुक् तृष्णा ज्वरमोहप्रकोपकाः ॥
हिक्वायाङ्गुल्मवीसर्पपाकतोदभ्रमक्लमाः ।अङ्गुलीवक्रतास्फोटदाहमर्म्मग्रहार्व्वुदाः ॥
”मांसकोथो मांसगलनम् ॥
* ॥
असाध्यत्वादिक-माह ।“एतैरुपद्रवैर्व्वर्ज्यं मोहेनैकेन वापि यत् ।अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ॥
एकदोषानुगं साध्यं नवं याप्यं द्बिदोषजम् ।त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ॥
”अथ वातरक्तस्य चिकित्सामाह ।“वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् ।अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् ॥
उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् ।शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्वेदनान्वितम् ॥
प्रच्छिन्नेन शिराभिर्व्वा देशाद्देशान्तरं व्रजेत् ।अङ्गे म्लाने न तत् स्राव्यं रूक्षे वातोत्तरञ्च यत् ।गम्भींरं श्वयथुं स्तम्भं कम्पं ग्लानिं शिरा-मयात् ।रोगानन्यांश्च वातोत्थान् कुर्य्याद्वायुररक्षितः ॥
विविधान् वातरोगान् वा मृत्युं वात्यवशेषितम् ।रक्तं कुर्य्यात्ततः स्निग्धात्तत्प्रमाणेन निर्हरेत् ॥
विरेचयेत्तु पित्तादौ स्नेहयुक्तैर्विरेचनैः ।बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः ।विरेकास्थापना स्ने हपानैर्गम्भीरमाचरेत् ॥
दिवास्वप्नञ्च कोपञ्च व्यायामं मैथुनं तथा ।कटूष्णं गुर्व्वभिष्यन्दि लवणाम्लौ च वर्ज्जयेत् ॥
पुराणा यवगोधूमशालयः षष्टिकास्तथा ।भोजनार्थे रसार्थेतु विष्किराः प्रतुदा हिताः ॥
आढकाश्चणका मुद्गा मसूराः सकुलत्थकाः ।यूषार्थे बहुसपिष्काः प्रशस्ता वातशोणिते ॥
सुनिषण्णकवेत्राग्रं काकमाची शतावरी ।वास्तूकोपोदिकाशाकं शाकं सौवर्च्चलं तथा ॥
घृतमांसरसैर्भृष्टं शाकमतस्या च दापयेत् ।हितो गोधूमचूर्णैश्च छागक्षीरघृतप्लुतैः ॥
लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्व्वृताः ॥
क्षीरपिष्टातसीभिर्व्वा वर्द्धमानफलैरपि ।दुग्धपिष्टैः प्रलेपैः स्याद्धितः पवनशोणिते ॥
गुडूचीक्वाथकल्काभ्यां सपयस्कं पलं सृतम् ।वातरक्तं निहन्त्याशु कुष्ठं हरति दुस्तरम् ॥
”गुडूचीघृतम् ॥
* ॥
“तुलां पचेद्गुडूच्यास्तु जलद्रोणचतुष्टये ।पादशेषः कषायस्तु गोदुग्धं द्रोणकस्तथा ॥
तिलतैलाढकं ताभ्यां पचेन्मृद्वग्निना भिषक् ।वक्ष्यमाणैस्ततो द्रव्यैः सम्यक्कल्कीकृतैः पचेत् ॥
मञ्जिष्ठा मधुकं कुष्ठं जीवनीयगणस्तथा ।एलागुरु च मृद्वीका मांसी व्याघ्रनखो नखी ॥
हरेणुः श्रावणी व्योषं स्थिरा त्वामलकी तथा ।शृङ्गी श्यामा शताह्वा च विष्णुक्रान्ता चपत्रकम् ॥
नागकेशरवालत्वक्पद्मकोत्पलचन्दनम् ।एतानि कल्कवस्तूनि कथितानीह कोविदैः ॥
पानेऽभ्यङ्गेऽनुवासे च तैलमेतन्निषेविणम् ।वातरक्तं तदुद्भूतोपद्रवानाशु नाशयेत् ॥
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् ।स्वेदकण्डूरुजायामशिरःकम्पार्द्दितामयान् ।हन्याद्व्रणकृतान् दोषान् गुडूचीतैलमुत्तमम् ॥
”इति गुडूचीतैलम् । इति भावप्रकाशः ॥
(यथा च ।“हुताग्निहोत्रमासीनमृषिमध्ये पुनर्व्वसुम् ।पृष्टवान् गुरुमेकाग्र्यमग्निवेशोऽग्निवर्च्चसम् ॥
अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः ।हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ॥
”“अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् ।कषायकटुतिक्ताल्परुक्षाहारादभोजनात् ॥
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनात् ।उष्णे चात्यध्वगमनाद्ब्यवायाद्वेगनिग्रहात् ॥
वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि ।क्रुद्धस्तद्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥
खुडं वातबलासाख्यमाढ्यं वातञ्च नामभिः ।तस्य स्थानं करौ पादावङ्गुल्यः पर्व्वसन्धयः ॥
कृत्वादौ हस्तपादे तु मूलं देहो विधावति ।सौक्ष्म्यात् सर्व्वसवत्वाच्च देहं गच्छन् शिरायवैः ।पर्व्वस्वभिहतं क्षुब्धं वक्रत्वादभितिष्ठते ।स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः ॥
करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु ॥
”“उत्तानमथ गम्भीरं द्विविधन्तत् प्रचक्षते ।त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्रयम् ॥
कण्डूदाहरुगायासतोदस्फुरणकुञ्चनैः ।अन्विता श्यावरक्ता त्वग्वाह्ये ताम्रा तथेष्यते ॥
गम्भीरे श्वयथु स्तब्धः कठिनोऽन्तर्भृशार्त्तिमान् ।श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ॥
रुग्विदाहा त्वतोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु ।छिन्दन्निव चरत्यन्तर्वक्रीकुर्व्वंश्च वेगवान् ॥
करोति खञ्जं पङ्गुं वा शरीरे सर्व्वतश्चरन् ।सर्व्वैर्लिङ्गेश्च विज्ञेयं वातासृगुभयाश्रयम् ॥
”“रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः ।निवेश्यान्योन्यमावार्य्य वेदनाभिर्हरेदसून् ॥
तत्र मुञ्चेदसृक्शृङ्गजलौकः सूच्यलावुभिः ।पुच्छनैर्व्वा शिराभिर्वा यथादोषं यथाबलम् ॥
रुग्दाहशूलतोदार्त्तादसृक्स्राव्यं जलौकसा ।शृङ्गैस्तम्भैर्हरेत् सूतिकण्डूचिमिचिमायनात् ॥
देशाद्देशं व्रजत् स्राव्यं शिराभिः पुच्छनेन वा ॥
”“सर्पिस्तैलवसामज्जापानाभ्यञ्जनवस्तिभिः ।मुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ॥
विरेचनघृतक्षीरपानैः सेकैः सवस्तिभिः ।शीतैर्निर्वापनैश्चापि रक्तपित्तोत्तरं जयेत् ॥
वमनं मृदुनात्यर्थं स्नेहसेकादिलङ्घनम् ।कोष्णलेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ॥
कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते ।विदाहः शोथरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ॥
पित्तरक्तोत्तरे दाहः क्लेदोऽवदरणं भवेत् ।उष्णैस्तस्माद्भिषग्दोषबलं बुद्ध्वाचरेत् क्रियाम् ॥
”“दत्त्वापरूषकद्राक्षाकाश्मर्य्येक्षुरसान् समान् ।पृथग्विदार्य्याश्च रसं तथा क्षीरञ्चतुर्गुणम् ॥
एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् ।वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ॥
”इति पारूषकं घृतम् ॥
* ॥
“मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे ।क्षीरे साध्यं शतकृत्वस्तदेवं मधुकात् शते ॥
सिद्धं देयं त्रिदोषे स्यात् वातास्रश्वासकासनुत् ।हृत्पाण्डुरोगीसर्पकामलादाहनाशनम् ॥
वलाकषायकल्काभ्यां तैलं क्षीरसमन्तथा ।सहसशतपाकं वा वातासृग्वातरोगनुत् ॥
रसायनं श्रेष्ठतमं इन्द्रियाणाम्प्रसादनम् ।जीवनं वृं हणं स्वर्य्यं शुक्रासृग्दोषनाशनम् ॥
”“चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे ।शयने पुलिनस्पर्शे शीतमारुतवीजिते ॥
चन्दनार्द्रकरार्द्राङ्ग्यः प्रिया नार्य्यः प्रियंवदाः ।स्पर्शात् शीतसुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥
”“गम्भीरे रक्तमाक्रान्तं स्याच्चेद्धातुं विवर्ज्जयेत् ।रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति ॥
भिन्नं सवति वा रक्तं विदग्धं पूयमेव वा ।तयोः क्रिया विधातव्याः व्यधः शोधनरोपणौ ॥
कुर्य्यादुपद्रवाणाञ्च क्रियां स्वात् स्वाच्चिकित्-सितात् ॥
”इति चरके चिकित्सास्थाने २९ अध्यायः ॥
“गन्धकं पारदं लौहं घनं तालं मनःशिला ।शिलाजतु पुरं शुद्धं समभागं विचूर्णयेत् ॥
विडङ्गं त्रिफला व्योषं वागुजी च पुनर्नवा ।चित्रकं देवकाष्ठञ्च दार्व्वी श्वेतापराजिता ॥
चूर्णमेषां पृथ तुल्यं सर्व्वमेकत्र कारयेत् ।त्रिफलाभृङ्गराजस्य रसेनैव पृथक् त्रिधा ॥
विभाव्य भक्षयेत् प्रातर्माषमात्रं दिने दिने ।क्रमानुपानं निम्बस्य पत्रं पुष्पं वचं समम् ॥
शाणमात्रं घृतैर्दद्यात् सर्व्ववात विकारनुत् ।वातरक्तं महाघोरं गम्भीरं सर्व्वजञ्जयेत् ॥
सर्व्वोपद्रवसंयुक्तं साध्यासाध्यं निहन्त्यलम् ॥
”इति वातरक्तान्तको रसः ॥
* ॥
“अथ शुद्धेन तालेन गन्धतुल्येन मेलयेत् ।द्वयोस्तुल्यं जीर्णताम्रं वालुकायन्त्रके पचेत् ॥
अयन्तालेश्वरो नाम रसः परमदुर्ल्लभः ।हन्यात् कुष्ठानि सर्व्वाणि वातरक्तमथापि वा ।शूलमष्टविधं श्वित्रं रसस्तालेश्वरो महान् ॥
”इति महातालेश्वरो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे वातरक्ताधिकारे ॥
अथात्र पथ्यापथ्यविधिः ।“द्वयोरस्रस्रुतिः सूचीजलौकाशृङ्ग्यलावुभिः ।शतधौतघृताभ्यङ्गो मेषीदुग्धावसेचनम् ॥
यवषष्टीकनीवारकलमारुणशालयः ।गोधूमाश्चणका मुद्गास्तुवर्य्योऽपि मुकुष्टकाः ॥
अजानां महिषीणाञ्च गवामपि पयांसि च ।लावतित्तिरिसर्पद्विट्ताम्रचूडादिविष्किराः ॥
प्रतुदाः शुकदात्यूहकपोतकटकादयः ।उपोदिकाकाकमाची वेत्राग्रं सुनिषण्णकम् ॥
वास्तुकं कारवेल्लञ्च तण्डुलीयः प्रसारणी ।पत्तूरो वृद्धकुष्माण्डं सर्पिः शम्पाकपल्लवम् ॥
पटोलं रुवुतैलञ्च मृद्वीकाश्वेतशर्करा ।नवनीतं सोमवल्ली कस्तूरी सितचन्दनम् ॥
शिंशपागुरुदेवाह्वसरलं स्नेहमर्द्दनम् ।तिक्तञ्च पञ्चमुद्दिष्टं वातरक्तगदे नृणाम् ॥
दिवास्वप्नाग्निसन्तापव्यायामातपमैथुनम् ।माषाः कुलत्था निष्पावाः कलायाः क्षारसेवनम् ॥
अम्बुजानूपमांसानि विरुद्धानि दधीनि च ।इक्षवो मूलकं मद्यं पिण्याकोऽम्लानि काञ्जिकम् ॥
कटुञ्च गुर्व्वभिष्यन्दि लवणानि च शक्तवः ।इत्यपथ्यं निगदितं वातरक्तगदे नृणाम् ॥
”इति वैद्यकपथ्यापथ्यविधिग्रन्थे वातरक्ताधि-कारः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
