| YouTube Channel

वातगुल्मः (vAtagulmaH)

 
Apte Hindi
Hindi
वातगुल्मः
पुं*
वात-गुल्मः -
"आँधी, अंधड़"
वातगुल्मः
पुं*
वात-गुल्मः -
गठिया
शब्दकल्पद्रुमः
Sanskrit
वातगुल्मः,
पुं,
वातुलः यथा, --“वातुलो वातगुल्मः स्याच्चारवायुर्निदाघजः ।झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः
”इति त्रिकाण्डशेषः
(वातेन जातो गुल्मः ।) रोगविशेषः (यथा, मार्कण्डेये ३९ ५४ ।“वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ।यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत्
”अस्य चिकित्सा यथा, --“वचायवानीत्रिकटुदशमूलीजलं शतम् ।क्वाथश्चोष्णो हितः पाने धान्यनागरकोऽथवा
वातगुल्मेषु सर्व्वेषु ज्वरेषु विषमेषु ।रास्नाद्यपञ्चकं वापि वातगुल्मस्य पाचनम् ।शठी सौवर्च्चलं शुण्ठी पाचनं वातगुल्मिने
”“नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणा-युतम् ।चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम्
दन्त्याश्च भाग एकस्तु द्वौ भागौ हरी-तकी ।त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वारएव ।प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु
वटकं भक्षयेत् प्रातस्तस्योपरि जलं पिबेत् ।क्वथितश्च विवेकश्च वातगुल्मोपशान्तये
”इति वातगुल्मचिकित्सा
इति हारीते चिकि-त्सितस्थाने चतुर्थेऽध्याये
) तस्य निदानादिर्गुल्म-शब्दे द्रष्टव्यः