| YouTube Channel

वातकर्म्म (vAtakarmma)

 
शब्दकल्पद्रुमः
Sanskrit
वातकर्म्म [न्], (वातस्य कर्म्म ।) मरुत्क्रिया ।पर्द्दनम् यथा, --वराह उवाच ।“स्पृश्यमानेन मे भूमे ! वातकर्म्म प्रमुञ्चति ।एवं हि पुरुषो युक्तो वातपीडितमानसः
मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः ।श्वा चैव त्रीणि वर्षाणि कूर्म्मो वै जायते नव
एषु वै तापनं देवि ! मेहनं मम शंसति ।यो वै शास्त्रं विजानाति मम कर्म्मपरायणः
श्रुत्वा वाक्यं भगवतो प्रत्युवाच वसुन्धरा
धरण्युवाच ।अतुलं लभते पापं तव कर्म्मपरायणः ।तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि
वाराह उवाच ।शृणु कार्त्स्न्येन मे देवि ! कथ्यमानं मयानघे ।अपराधमिमं कृत्वा सन्तरेद्येन कर्म्मणा
यावकेन दिनत्रीणि नक्तेन पुनस्त्रयः ।कर्म्म चैवं ततः कृत्वा मे नापराध्यति
सर्व्वशङ्कां परित्यज्य मम लोकाय गच्छति ।एतत्ते कथिथं भद्रे मरुत्कर्म्मापराधिनः
दोषञ्चैव गुणञ्चैव यत्त्वया परिपृच्छितम्
”इति वराहपुराणे मरुत्कर्म्मप्रायश्चित्तम्