वातः (vAtaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiवातः
- -
"हवा, वायु"
वातः
- -
"वायु का देवता, वायु की अधिष्ठात्री देवता"
वातः
- -
शरीर के तीन दोषों में से एक
वातः
- -
"गठिया, सन्धिवात"
वातः
- वा+क्त
वायु
वातः
- वा+क्त
वायु की अधिष्ठात्री देवता
वातः
- वा+क्त
शरीर के तीन दोषों में से एक
वातः
- वा+क्त
गठिया
वातः
- वा+क्त
जोड़ों की सूजन
वातः
- वा+क्त
"वायु सरना, शरीर से वायु का निकलना"
Wordnet
Sanskrit वातः
वैद्यकानुसारेण शरीरे वर्तमानः वायुः यः नैकेषां रोगाणां कारणम् अस्ति।
"वातस्य आधिक्यात् जान्वोः पीडाम् अनुभवामि।"
वायुः, वातः, अनिलः, पवनः, पवमानः, प्रभञ्जनः, श्वसनः, स्पर्शनः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः, आशुगः, समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः, नभस्वान्, अजगत्प्राणः, खश्वासः, वाबः, धूलिध्वजः, फणिप्रियः, वातिः, नभःप्राणः, भोगिकान्तः, स्वकम्पनः, अक्षतिः, कम्पलक्ष्मा, शसीनिः, आवकः, हरिः, वासः, सुखाशः, मृगवाबनः, सारः, चञ्चलः, विहगः, प्रकम्पनः, नभः, स्वरः, निश्वासकः, स्तनूनः, पृषताम्पतिः, शीघ्रः
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
"वायुं विना जीवनस्य कल्पनापि अशक्या।"
समुदायः, सङ्घः, समूहः, सङ्घातः, समवायः, सञ्चयः, गणः, गुल्मः, गुच्छः, गुच्छकः, गुत्सः, स्तवकः, ओघः, वृन्दः, निवहः, व्यूहः, सन्दोहः, विसरः, व्रजः, स्तोमः, निकरः, वातः, वारः, संघातः, समुदयः, चयः, संहतिः, वृन्दम्, निकुरम्बम्, कदम्बकम्, पूगः, सन्नयः, स्कन्धः, निचयः, जालम्, अग्रम्, पचलम्, काण्डम्, मण्डलम्, चक्रम्, विस्तरः, उत्कारः, समुच्चयः, आकरः, प्रकरः, संघः, प्रचयः, जातम्
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
"अस्मिन् समुदाये नैकाः महिलाः सन्ति।"
वातरोगः, वायुरोगः, वातामयः, वातव्याधिः, वातः, वायुः, रसवातः, अनिलामयः, अनिलरोगः, अनिलः, धनुर्वातः, पटीरं, गृध्रसी
रोगविशेषः- यस्मिन् सन्धिस्थाने पीडा तथा च शोथः जायते।
"सः वातरोगेन पीडितः।"
वातः
शूरस्य पुत्रः ।
"वातस्य उल्लेखः कोशे वर्तते"
वातः
एकः राक्षसः ।
"वातस्य उल्लेखः विष्णुपुराणे वर्तते"
वातः
एकः जनसमूहः ।
"वातस्य उल्लेखः कोशे वर्तते"
Tamil
Tamilவாத: : வாயு: = காற்று, வாயு தேவன், வாத நோய், உடலில் உள்ள காற்று.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवातः, (वातीति । वा + क्तः ।) पञ्च-भूतान्तर्मतचतुर्थभूतः । वातास इति भाषा ।तत्पर्य्यायः । गन्धवहः २ वायुः ३ पवमानः ४महाबलः ५ पवनः ६ स्पर्शनः ७ गन्धवाहः ८मरुत् ९ आशुगः १० श्वसनः ११ मातरिश्वा १२नभस्वान् १३ मारुतः १४ अनिलः १५ समी-रणः १६ जगत्प्राणः १७ समीरः १८ सदागतिः१९ जीवनः २० पृषदश्वः २१ तरस्वी २२ प्रभ-ञ्जनः २३ प्रधावनः २४ अनवस्थानः २५ धूननः२६ मोटनः २७ खगः २८ । अस्य गुणाः ॥
स्वैरत्वम् । लघुत्वम् । शीतत्वम् । रूक्षत्वम् ।सूक्ष्मत्वम् । संज्ञानकत्वम् । स्तोककारित्वञ्च ।तस्य कोपकारणं यथा । माधुर्य्यान्नभक्षणम् ॥
साभ्रकालः । अपराह्णकालः । प्रत्यूषकालः ॥
अन्नजीर्णसमयश्च । इति राजनिर्घण्टः ॥
* ॥
रोगविशेषः । यथा । अथ वातव्याध्यधिकारः ॥
तत्र वातव्याधीनां सामान्यतो विप्रकृष्टनिदाना-न्याह ।“कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतःपुरःपवनजागरप्रतरणाभिघातश्रमैः ।हिमादनशनात्तथा निधुवनाच्च धातु क्षयात्मलादिरपधारणात् मदनशोकचिन्ताभयैः ॥
अतिक्षतजमोक्षणात् गदकृतातिमांसक्षया-दतीव वमनान्नृणामतिविरेचनादामतः ।पयोदसमये दिनक्षणदयोस्तृतीयांशयो-र्ज्जरामतिगतेऽशिते शिशिरसंज्ञकालेऽपि च ॥
देहे स्रोतांसि रिक्तानि पूरयित्वानिलो बली ।करोति विविधान् रोगान् सर्व्वाङ्गैकाङ्गसंश्र-यान् ॥
”प्रमितञ्चात्र वैपरीत्ये प्रोपसर्गस्तेन अपरिमित-मित्यर्थः । प्रकर्षेण मितमत्यल्पं वा लघ्वन्न-मतिपुराणं शाल्यादि । कतिचिदन्नानि नवा-न्यपि वातलानि । यत आह । गुणरत्नमाला-याम् ।नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी-निष्पावाश्च मकुष्टकश्च वरटा मङ्गल्यकःकोद्रवः ॥
एते वातकरा इति शेषः । नीवारः प्रसाधिकातीनी इति लोके । त्रिपुटः यसारी । सतीनःकलायः । निष्पावो राजमाषः । वोडा इतिलोके । मकुष्टकः मोडः इति लोके । वरटावरटिका वररै इति लोके । मङ्गल्यकः मसूरीइति लोके । पुरःपवनः प्राग्वातः । आमतःआमेन मार्गावरणात् । यत उक्तम् ।वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन चेति ।पयोदसमये वर्षासु । जरामतिगतेऽशिते भुक्ते-ऽतीव जीर्णताङ्गते । देहे स्रोतांसीत्यादिनासंप्राप्तिरुक्ता । कषायादिभिर्हेतुभिर्व्वर्षादौसमये हेतुभूते बली अनिलः प्रवृद्धो वायुःकरोति विविधान् रोगान् । ते रोगाः कथ्यन्ते ।“शिरोग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः ।जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ॥
वाचालता प्रलापश्च रसानामनभिज्ञता ।वाधिर्य्यं कर्णनादश्च स्पर्शज्ञत्वं तथार्द्दितम् ॥
मन्यास्तम्भोऽत्र गणितो बाहुशोषोपबाहुकः ।चर्व्विता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ॥
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला ।तूणी च प्रतितूणी च वह्निवैषम्यमेव च ॥
आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च ।मुहुश्च मूत्रलं मूत्रनिग्रहो मलगाढता ।पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परः ॥
कलापखञ्जता चापि खञ्जता पङ्गुता तथा ।क्रोष्टुशीषककल्यौ च वातकण्टक एव च ॥
पादहर्षः पाददाहः आक्षेपो दण्डकाभिधः ।वातपित्तकृताक्षेपस्तथा दण्डापतानकः ॥
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ।आन्तरश्च तथा बाह्यौ धनुर्वातश्च कुब्जकः ॥
अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः ।कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा ॥
रौक्षं काश्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नाञ्च हर्ष-णम् ।अङ्गमर्द्वोऽङ्गविभ्रंशः शिरासङ्कोच एव च ॥
अङ्गशोषश्च भीरुत्वं मोहश्चञ्चलचित्तता ॥
निद्रानाशः स्वेदनाशो बलहानिस्तथैव च ।शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः ॥
एत एवाशीतिसंख्या रोगा योगेन रूढितः ।वातव्याधीति नामानो मुनिभिः परि-कीर्त्तिताः ॥
”एत एव शिरोग्रहादय एव । योगेन वातेन ।वाताद्वा व्याधिर्व्वातव्याधिरिति निरुक्त्या तदावातज्वरादिष्वपि प्रसङ्गः स्यादत आहरूढितः प्रसिद्धितः । शिरोग्रहादयोऽशीतिरेववातव्याधिसंज्ञा प्रसिद्धा न तु वातज्वरादयः ॥
* ॥
अथ वातव्याधिनां सामान्यचिकित्सामाह ।“मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रागुरुरविकरवस्तिस्वेदसन्तर्पणानि ।दहनजलदसेकाभ्यङ्गसंमर्द्दनानिप्रकुपितपवमानं शान्तमेतानि कुर्य्युः ॥
”इति भावप्रकाशः ॥
* ॥
अपि च ।“बलपुष्टिकराण्येव वायुबीजं निशामय ।भोजनानन्तरं सद्यो गमनं धावनं तथा ॥
छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ।वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव च ॥
अतिरूक्षमनाहारं युद्धं कलह एव च ।कटुवाक्यं भयं शोकः केवलं वायुकारणम् ॥
आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥
पक्वरम्भाफलञ्चैव सवीजं शर्करोदकम् ।नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम् ॥
माहिषन्दधि मिष्टञ्च केवलं वा सशर्करम् ।सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम् ॥
पक्वतैलविशेषश्च तिलतैलञ्च केवलम् ।लाङ्गलीतालखर्ज्जूरमस्तमामलकीद्रवम् ॥
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ।स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलम् ॥
एतत्ते कथितं वत्से सद्यो वातप्रणाशनम् ।वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥
”इति श्रीब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
* ॥
अन्यच्च ।“विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।प्रसारण्युग्रगन्धा च बृहती कण्टकारिका ॥
वला चातिवला रास्ना श्वदंष्ट्रा च पुनर्नवा ।एरण्डशारिवा पर्णीगुडत्तीकपिकच्छवः ॥
एषां दशपलिकान् भागान् क्वाथयेत् सलिले-ऽमले ।तेन पादावशेषेण तिलं पात्रे विपाचयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् । * ।द्रव्याणि यानि पेष्याणि तानि वक्ष्यामितच्छृणु ॥
शतपुष्पा देवदारु शालपर्णी वचागुरुः ।कुष्ठमांसी सैन्धवञ्च पलमेकं पुनर्नवा ॥
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ।हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ।गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ॥
अश्वानां वातभङ्गानां कुञ्जराणां नृणां तथा ।तैलमेतत् प्रदातव्यं सर्व्ववातविकारिणाम् ॥
”पुनश्च ।“पलद्धयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ।पञ्चप्रस्थं त्वारनालं तैलप्रस्थं पचेत्ततः ।ग्रहगृह्यप्लवप्लीहसर्व्ववातविकारनुत् ॥
”इति गारुडे १९८ अध्यायः ॥
(तथास्य गुणादयः ।“वातस्तु रुक्षलघुचलबहुशीघ्रशीतपरुषविषदा-स्तस्य रौक्ष्याद्वातला रुक्षा पचिताल्पशरीराःप्रततरुक्षक्षामभिन्नसक्तजर्ज्जरस्वराः जागरू-काश्च लघुत्वाच्च लघुचपलगतिचेष्टाहारव्यव-हाराः चलत्वादनवस्थितसन्ध्यस्थिभ्रूहन्वोष्ठजिह्वाशिरः स्कन्धपाणिपादाः बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः शीघ्रत्वात् शीघ्रसमारम्भक्षोभ-विकाराः शीघ्रोत्त्रासरागविरागाः श्रुत-ग्राहिणोऽल्पस्मृतयश्च शैत्यात् शीतासहिष्णवःप्रततशीतकोद्वेपकस्तम्भाः पारुष्यात् परुष-केशश्मश्रुरोमनखदशनवदनपाणिपादाङ्गा वैष-द्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनःत एवं गुणयोगात् वातलाः प्रायेणाल्पबला-श्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाधन्याश्च ।”इति चरके विमानस्थानेऽष्टमेऽध्याये ॥
अथास्यवृद्धिक्षयलक्षणं यथा ।“तत्र वातवृद्धौ त्वक् पारुष्यं कार्श्यं कार्ष्णगात्रस्फुरणमुष्णकामिता निद्रानाशोऽल्पबलत्वंगाढवर्च्चस्त्वञ्च ।”“तत्र वातक्षये मन्दचेष्टताल्पवाक्त्वमल्पहर्षोमूढसंज्ञा च ।” इति सुश्रुते सूत्रस्थाने पञ्च-दशेऽध्याये ॥
* ॥
स्थानविशेषेऽवस्थितस्यास्यचिकित्सा यथा, --“विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः ।आमाशयस्थे शुद्धस्य यथा दोषहरी क्रिया ॥
आमाशयगते वाते छर्द्दिताय यथाक्रमम् ।देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥
”“पक्वाशयगते वाते हितं स्ने हविरेचनम् ।वस्तयः शोघनीयाश्च प्राशाश्च लवणोत्तराः ॥
”स्ने हलवणम् ।“स्नुहीलवणवार्त्ताकुस्नेहान् छन्ने घटे दहेत् ।गोमयैः स्ने हलवणं तत्परं वातनाशनम् ॥
कार्य्यो वस्तिगते चापि विधिर्वस्तिविशोधाः ।त्वङ्मांसासृक्शिरा प्राप्ते कुर्य्यार्च्चासृग्विमोक्षणम् ॥
स्नेहोपनाहाग्निकर्म्मबन्धनोन्मर्द्दनानि च ।स्नायुसन्ध्यस्थि संप्राप्ते कुर्य्याद्वाते विचक्षणः ॥
स्वेदाभ्यङ्गावगाहांश्च हृद्यञ्चान्नन्त्वगाश्रिते ।शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥
विरेको मांसमेदःस्थे निरूहाः शमनानि च ।बाह्याभ्यन्तरतः स्ने हैरस्थिमज्जगतं जयेत् ॥
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् ।विवद्धमार्गं शुक्रन्तु दृष्ट्वा दद्याद्बिरेचनम् ॥
गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् ।सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः ॥
”इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारः ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं च गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् २ -वाजम् २, वापयित्वा २ -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम् २
वावायित्वा २
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
01 (१५८४)
02 (२-अदादिः-१०५०। सक। अनि। पर।)
03 (श्लो। १०)
04 (२-४९)
05 [[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06 [[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07 [[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08 [[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09 [पृष्ठम्१२२२+ २७]
10 [[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे च रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11 [अग्निः, भिक्षुर्वा]
12 [वातः]
13 [[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14 [[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15 [[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16 [[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17 [[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके च रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18 [[B। ‘मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19 [[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20 [[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21 [[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22 [पृष्ठम्१२२३+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
