| YouTube Channel

वाणगङ्गा (vANagaGgA)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)णगङ्गा,
स्त्री,
(बाणेन प्रकटिता गङ्गा नदी-विशेषः ।) रावणबाणनिर्भिन्नसोमेश्वरगिरि-भवनदीविशेषः यथा, --“सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै ।रावणेन प्रकटिता जलघारातिपुण्यदा ।बाणगङ्गेति विख्याता या स्नानादघहारिणी
स्नात्वा तु बाणगङ्गायां दृष्ट्वा बाणेश्वरं विभुम् ।गङ्गास्नानफलं प्राप्य मोदते देववद्दिवि
”इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति-क्षेत्रमहिमा त्रिवेण्यादिमहिमा नामाध्यायः