वाटी (vATI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishवाटी - vATI - - hut
वाटी - vATI - - garden
वाटी - vATI - - site of a house
वाटी - vATI - - piece of enclosed ground
Apte
Englishवाटी [vāṭī], 1 The site of a house.
A house, dwelling.
A court, an enclosure.
A garden, park, orchard
वाटीभुवि क्षितिभुजाम् Āṣval.5
1.6.11.
A road.
The groin.
A kind of grain.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiवाटी
- वाट + ङीष्
वह भूखण्ड जहाँ पर कोई भवन बनाया है
वाटी
- -
"घर, आवास स्थान"
वाटी
- -
"अहाता, बाड़ा"
वाटी
- -
"उद्यान, उपवन, फलोद्यान"
वाटी
- -
सड़क
वाटी
- -
पानी रोकने के लिए लकड़ी के तख्तों का बाँध
वाटी
- -
एक प्रकार का अन्न
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishWordnet
Sanskrit वाटी, वाटः
वलयितं लघु उद्यानम्।
"नगरात् बहिः अस्माकं वाटी अस्ति।"
कुटीरः, कुटीरम्, कुटी, कुटिः, कुटिका, गञ्जा, पल्लिः, पल्ली, मथिका, वाटी, वाटिका, खदा
मृदा तथा च तृणादिभिः निर्मितं निवासस्थानम्।
"अस्याः नद्यः तटे धीवरस्य नैकानि कुटीराणि दृश्यन्ते। "
कुटी, कुटीरम्, कुटिका, कुटिः, तृणकुटिः, पल्लिः, पल्ली, पार्णः, वाटी, वाटीका
तृणादिभ्यः विनिर्मितं लघुगृहम्।
"रामेण ग्रामात् बहिः कुटी विनिर्मिता।"
अभिधानचिन्तामणिः
Sanskritआक्रीडः पुनरुद्यानं राज्ञां त्वन्तःपुरोचितम् ॥ १११२ ॥
तदेव प्रमदवनममात्यादेस्तु निष्कुटे ।
वाटी पुष्पाद्वृक्षाच्चासौ क्षुद्रारामः प्रसीदिका ॥ १११३ ॥
आक्रीड (पुं), उद्यान (क्ली), प्रमदवन (क्ली), वाटी (त्रि), पुष्पवाटी (स्त्री), वृक्षवाटी (स्त्री), क्षुद्राराम (पुं), प्रसीदिका (स्त्री)
वैजयन्तीकोषः
SanskritWord: वाटी
Root: वाटी
Gender: स्त्री
Number: all
अर्थः ⇒
Meaning(s):
⇒ Fruit garden
Shloka(s):
3|3|4|1 ► पुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत्। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|4|1 ⇢ वाटी (वाटी) (स्त्री) ⇒ Fruit garden ⇒
Related word(s):
Tamil
Tamilவாடீ : இடம், வீடு, இருப்பிடம், தோட்டம், சாலை.
शब्दकल्पद्रुमः
Sanskritवाटी, (वट्यते वेष्ट्यते इति । वट वेष्टने +घञ् । गौरादित्वात् ङीष् ।) वाट्यालकः ।इति शब्दरत्नावली ॥
कुटी । वास्तु । इतिमेदिनी । टे, २८ ॥
शेषस्य पर्य्यायः ।“वास्त्वस्त्री वेश्म भूर्व्वाटी वाटिका गृहपोतकः ॥
”इति शब्दरत्नावली ॥
तस्या लक्षणादिर्यथा, --विश्वकारुरुवाच ।“के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन ।भद्रा भद्रप्रदाश्चापि तान् वदस्व जगद्गुरो ॥
केषामन्तनियुक्तञ्च शिविरञ्च शुभाशुभम् ।दिशि कुत्र जलं भद्रमशुभञ्च वद प्रभो ॥
द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ।भद्रप्रदश्च को वृक्षो दिशि कुत्र प्रवर्त्तते ॥
किं प्रमाणं गृहाणाञ्च प्राङ्गणानां जगद्गुरो ।मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ॥
प्राकारं किंप्रमाणञ्च परिखाणां सुरेश्वर ।द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ॥
कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो ।अमङ्गलं वा केषां वा सर्व्वं मां वक्तुमर्हसि ॥
* ॥
श्रीभगवानुवाच ।आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्व्वत्र सुरकारो ! निशामय ।विल्वश्च पनसश्चैव जम्बीरो वदरी तथा ॥
प्रजाप्रदश्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा ।सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥
जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा ॥
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ।हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ।सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥
अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।खर्ज्जूरी कर्क्कटी चापि शिविरे मङ्गलप्रदाः ॥
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः ।लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥
प्रशस्तं कथितं कारो निषिद्धञ्च निशामय ॥
वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ।वटो निषिद्धः शिविरे नित्यं चौरभयं ततः ।नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ॥
शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् ।शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ॥
न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे ।वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ॥
स्वर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ।न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ॥
वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिविरे च तथैव च ॥
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ।अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ॥
कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ।हरौतकी च शुभदा ग्रामेषु नगरेषु च ।न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥
गजानामस्थि शुभदमश्वानाञ्च तथैव च ।कल्याणमुचैःश्रवसां वास्तौ स्थापनकारिणाम् ॥
न शुभप्रदमन्येषामुच्छन्नकारणं परम् ।वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥
कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् ।भेडकानां शूकराणां सर्व्वेषाञ्चशुभप्रदम् ॥
इशाने चापि पूर्व्वस्मिन् पश्चिमे च तथोत्तरे ।शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥
दीर्घे प्रस्थे ममानञ्च न कुर्य्यान्मन्दिरं बुधः ।चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥
प्रस्थे हस्तद्बयात् पूर्व्वं दीर्घे हस्तत्रयं तथा ।गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥
न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ।चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् ।अभद्रदं सूर्य्यवेधं शिविरं मङ्गलाप्रदम् ।अभद्रदं सूर्य्यवेधं प्राज्ञाङ्गनं तथैव च ॥
* ॥
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा ।प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥
मालती यूथिका कुन्दमाधवी केतकी तथा ।नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥
अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ।पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ॥
ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ।ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥
* ॥
सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ।वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ॥
ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ।भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥
* ॥
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥
सङ्केतपूर्व्वकञ्चैव परिखाद्वारमीप्सितम् ।शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥
* ॥
शाल्मलीनां तिन्तिडीनां हिन्तालानांतथैव च ।निम्बानां सिन्धुवाराणां उडुम्बराणामभद्रकम् ॥
धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् ।एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥
वृक्षञ्च वज्रहतकं दूरतो वर्ज्जयेद्बुधः ।पुत्त्रदारधनं हन्यात् इत्याह कमलोद्भवः ॥
कथितं लोकशिक्षाथं कुरु काष्ठं विना पुरीम् ।शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
