| YouTube Channel

वाटकः-टिका (vATakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वट वेष्टने”@} 2 “णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
‘बटेत्यपि बहुषु कोशेषु दृश्यते’ इति पुरुषकारः 4।
वाटकः-टिका, वाटकः-टिका, विवटिषकः-षिका, वावटकः-टिका
वटिता-त्री, वाटयिता-त्री, विवटिषिता-त्री, वावटिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककटतिवत् 5 ज्ञेयानि।
वटः, 6 वटिः, वटकः-वटका, वटकिनी, वटिभः, वाटः-वाटी, 7 वटुः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५३८)
02
=>
(१-भ्वादिः-३००। सक। सेट्। पर।)
03
=>
(श्लो। ७७)
04
=>
(श्लो। ७७)
05
=>
(१४८)
06
=>
[[१। औणादिके (द। उ। १-४६) इन्प्रत्यये रूपमेवम्। वटिः = तन्तुः।]]
07
=>
[[२। औणादिके उप्रत्यये रूपमेवम्। वटुः = ब्रह्मचारी, समर्थश्च।]]
1 {@“वट परिभाषणे”@} 2 घटादिः।
‘-- अवयवे’ इति काशकृत्स्नः।
वाटकः-टिका, वटकः-टिका, विवटिषकः-षिका, वावटकः-टिका
वटिता-त्री, वटयिता-त्री, विवटिषिता-त्री, वावटिता-त्री
वटन्-न्ती, वटयन्-न्ती, विवटिषन्-न्ती
-- इत्यादिकानि रूपाणि ण्यन्तं विना सर्वाण्यपि भौवादिककखतिवत् 3 ऊह्यानि।
अस्य धातोः घटादिपाठात् ण्यन्ते परं ‘घटादयो मितः’ 4 इति मित्त्वे ‘मितां ह्रस्वः’ 5 इति ह्रस्वे वटयन्-वटयिष्यन्-न्ती-ती, 6 वटयमानः, वटयिष्यमाणः, इत्यादिकानि ह्रस्वघटितानि रूपाणि भौवादिक- कखतिवत् 7 बोध्यानि।
णमुलि- 8 वटम् २-वाटम् २, वटयित्वा २। इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५३९)
02
=>
(१-भ्वादिः-७७९। सक। सेट्। पर।)
03
=>
(१४२)
04
=>
(गणसूत्रं भ्वादौ)
05
=>
(६-४-९२)
06
=>
[पृष्ठम्११८६+ २७]
07
=>
(१४१)
08
=>
[[१। ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परतः विकल्पेन दीर्घः। तेन रूपद्वयम्।]]