| YouTube Channel

वाजीकरणं (vAjIkaraNaM)

 
Apte 1890
English
वाजीकरणं Stimulating or exciting desire by aphrodisiacs.
शब्दकल्पद्रुमः
Sanskrit
वाजीकरणं,
क्ली,
(अवाजी वाजीव क्रियतेऽनं-नेति कृ + ल्युट् अभूततद्भावे च्विः ।) वीर्य्य-वृद्धिकरम् इति राजनिर्घण्टः
वाजी-करणद्रव्यस्य लक्षणमाह ।“यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरतक्षमम्तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः
”अत्र प्रसङ्गात् क्लैवस्य लक्षणं संख्या निदान-ञ्चाह ।“क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते ।तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यतेतैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ।ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते
द्वेष्यस्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम्
”तैस्तैर्भावैर्भयशोकक्रोधादिभिः अहृद्यैः हृद-याहितैः दुःखदत्वात् क्षते पीडिते अस्वस्थी-कृत इति यावत् ध्वजः शिश्नः पतति तून्न-मति संप्रयोगो मैथुनम्
“कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ।पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं तस्मात् प्रजायते
”कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन शुक्रस्यदग्धत्वात् क्लैव्यं भवति पित्तजमेतद्द्विती-यम्
“अतिव्यवायशीलो यो बाजीक्रियारतः ।ध्वजभङ्गमवाप्नोति शुक्रक्षयहेतुकम्
”शुक्रक्षयजं तृतीयम्
“महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत् ।वीर्य्यवाहिशिराछेदान्मेहनानुन्नतिर्भवेत्
बलिनः क्षुब्धमनसो निरोधाद्ब्रह्मचर्य्यतः ।षष्ठं क्लैव्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम्
”बलिनः पुष्टस्य पुरुषस्य क्षुब्धमनसः कामात्सञ्चलितस्य मनसः ब्रह्मचर्य्यतो निरोधात्क्लैव्यं भवति
“जन्मप्रभृति यत् क्लैव्यं सहजं तद्धि सप्तमम्
७असाध्यं क्लैव्यमाह ।“असाध्यं सहजं क्लैव्यं मर्म्मच्छेदाच्च यद्भवेत् ।”मर्म्मच्छेदात् वीर्य्यवाहिशिराच्छेदात्
*
अथ क्लैव्यस्य चिकित्सायां वाजीकरणविधि-माह ।“नरो वाजीकरान् योगान् सम्यक् शुद्धौनिरामयः ।सप्तत्यन्तं प्रकुर्व्वीत वर्षादूर्द्ध्वन्तु षोडशात्
वै षोडशादर्व्वाक् सप्तत्याः परतो ।आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति
क्षयवृद्ध्युपदंशाद्या घोराश्चातीवदुर्ज्जयाः ।अकालमरणञ्च स्याद्भजतस्त्रियमन्यथा
विलासिनामर्थवतां रूपयौवनशालिनाम् ।नराणां बहुभार्य्याणां विधिर्वाजीकरो हितः
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छ-ताम् ।योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम्
हिता वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः ।एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया
”वाजीकराण्याह ।“भोजनानि विचित्राणि पानानि विविधानिच ।वाचः श्रोत्राभिरामाश्च त्वचः स्पर्शसुखावहाः ।यामिनी सेन्दुतिलका कामिनी नवयौवना ।गीतं श्रोत्रमनोहारि ताम्बूलं मदिरा स्रजः
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि ।मनसश्चाप्रतीघातो वाजीकुर्व्वन्ति मानवम्
माक्षीकधातुमधुपारदलोहचूर्णंपथ्याशिलाजतुविडङ्गघृतानि लिह्येत् ।एकाग्रविंशतिदिनानि गदार्द्दितोऽपिसोऽशीतिकोऽपि रमयेत् प्रमदा युवेव
गवां बिरूढवत्मानां सिद्धं पयसि पायसम् ।गोधूमचूर्णञ्च तथा सितामधुघृतान्वितम् ।भुक्त्वा हृष्यति जीर्णोऽपि दशदारान् व्रजत्यपि
”अथ रसाला ।“दध्नार्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेःप्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्माष-कान् ।एलामासचतुष्टयं मरिचतः कर्षं लवङ्गं तथाधृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा-वयेत्
मृद्भाण्डे मृगनाभिचन्दनरसस्पृष्टेऽगुरूद्धूपितेकर्पूरेण सुगन्धिकं तदखिलं संलोड्य संस्था-पयेत् ।स्वस्यार्थे मथुरेश्वरेण रचिता ह्येषा रसाला स्वयंभोक्तुर्मन्मथदीपनी सुखकरी कान्तेव नित्यंप्रिया
*
गोक्षुरेक्षुरबीजानि वाजिगन्धा शतावरी ।मुषली वानरीबीजं यष्टी नागवला वला
एषां चूर्णं दुग्धसिद्धं गव्येनाज्येन भर्जितम् ।सितया मोदकं कृत्वा भक्ष्यं वाजीकरं परम्
चूर्णादष्टगुणं क्षीरं घृतं चूर्णसमं स्मृतम् ।सर्व्वतो द्विगुणं खण्डं खादेदग्निबलं यथा
वाजीकराणि भूरीणि संगृह्य रचितो यतः ।तस्माद्बहुषु योगेषु योगोऽयं प्रवरो मतः
”रतिवर्द्धनो मोदकः
*
“पिप्पलीलवणोपेते वस्ताण्डे घृतसाधिते ।कच्छपस्याथ वा खादेत्ते तु वाजीकरे भृशम्
पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तयेत्तच्छिन्नं जलयोगतो मृदुतरं संकुट्य चूर्णी-कृतम् ।तच्चूर्णं पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेत्गव्याज्याञ्जलिसंयुतेऽतिनिविडे दद्यात्तुलार्द्धांसिताम्
पक्वं तजज्वलनात् क्षितिं प्रतिनयेत् तस्मिन्पुनः प्रक्षिपेत्दद्यात्तत्तदुदाहरामि बहुला दृष्ट्वादरात्संहिताः ।एला नागवला वला सचपला जातीफला-लिङ्गिकाजातीपत्रसुपत्रचित्रकयुतं तच्च त्वचा संयुतम्
विश्वावीरणवारिवारिदवरा वांशी वरी वानरी-द्राक्षा सेक्षुरगोक्षुराथ महती खर्ज्जूरिकाक्षीरिका ।धान्याकं सकसेरुकं समधुकं शृङ्गाटकं जीरकंपृथ्वीक्वाथयवानिका वरटिका मांसी मिसि-र्मेथिका
कन्देष्वत्र विदारिकाथ मुषली गन्धर्व्वगन्धा तथाकर्व्वूरं करिकेशरं समरिचञ्चारस्य बीजं नवम् ।बीजं शाल्मलिसम्भवं करिकणा बीजञ्च राजी-वजंश्वेतं चन्दनमत्र रक्तमपि श्रीसङ्गपुष्पैः समम्
सर्व्वञ्चेति पृथक् पृथक् पलमितं संचूर्ण्य तत्रक्षिपेत्सूतं वङ्गभुजङ्गलोहगगनं सम्मारितं स्वेच्छया ।कस्तूरी घनसारचूर्णमपि प्राप्तं यथा प्रक्षिपेत्पश्चादस्य तु मोदकान् विरचयेद्विल्वप्रमाणा-नथ
तान् भोक्ताति सदा यथानलबलं भुञ्जीत नाम्लंरसंपूर्व्वस्मिन्नशिते गते परिणतिं प्राग्भोजनात्भक्षयेत् ।नित्यं श्रीरतिवल्लभाख्यकमिमं यः पूगपाकं भजेत्स स्याद्वीर्य्यविवृद्धिवृद्धमदनो वाजीव शक्तोरतौ
दीप्ताग्निर्ब्बलवान् बली विरहितो हृष्टः पुष्टःसदावृद्धो योऽपि युवेव सोऽपि रुचिरः पूर्णेन्दुवत्सुन्दरः
”वसुगुणे अष्टगुणे अञ्जलिरर्द्धशरावम् तुलार्द्धांपञ्चाशत्पलमिताम् संहिताः सुश्रुताद्याः ।नागवला गुरसकरी गुरखण्डी इति लोके ।वला वहंलियार तस्या मूलत्वक् चपलापिप्पली जातीपत्रकं जाइपत्री विश्वाशुण्ठी वीरणं एतस्य मूलं उशीरं ग्राह्यम् ।वारि सुगन्धवाला वारिदः मुस्तकः वरात्रिफला वांशी वंशरोचना वरी शतावरी ।वानरी कपिकच्छूस्तस्या बीजं ग्राह्यम् इक्षुरःकोकिलाक्षः तस्य बीजम् गोक्षुरस्यापिबीजम् महती खर्ज्जूरिका छोहारा ।क्षीरिका क्षीरी पृथ्वीका कारवी मगरैलाइति लोके वराटिका वररै इति लोके शालूक-मेषां कन्दः स्याद्वीजकोषो वराटिका मांसीजटामांसी मिसिः सौफः गन्धर्व्वगन्धा अश्व-गन्धा तस्या मूलम् श्रीसंज्ञं लवङ्गम् घन-सारः कर्पूरः विल्वप्रमाणान् पलप्रमाणान् ।रतिवल्लभाख्यपूगपाकः
*
“एतस्मिन्रतिवल्लभे यदि पुनः सम्यक् खुरा-शाणिकाधुस्तूरस्य तु बीजमर्ककरभा यासोऽब्धिशोष-स्तथा ।सन्माजूफलवं तथा स्वसफलत्वक् वापि निःचिप्यतेचूर्णार्द्धा विजया तदा हि भवेत् कारेश्वरःसंज्ञया
”इति महाकामेश्वरः
*
“रक्तपित्ताधिकारोक्तः खण्डकुष्माण्डको महान् ।रक्तपित्तादिरोगघ्नो महावाजीकरः स्मृतः
*
पक्वाम्रस्य रसे द्रोणे सितामाढकसंमिताम् ।घृतप्रस्थमिदं दद्यान्नागरस्य पलाष्टकम्
मरिचं कुडवोन्मानं पिप्पलीद्विपलोन्मितम् ।सलिलस्याढकं दत्त्वा सर्व्वमेकत्र कारयेत्
पचेत्तन्मृण्मये पात्रे दारुदर्व्व्या प्रचालयेत् ।चूर्णान्येषां क्षिपेत्तत्र घनीभूतेऽवतारिते
धान्यकं जीरकं पत्रं चित्रकं मुस्तकं त्वचम् ।बृहज्जीरकमप्यत्र ग्रन्थिकं नागकेशरम्
एलाबीजं लवङ्गञ्च पृथक् जातीफलं पलम् ।सिद्धं शीते प्रदद्याच्च मधुनः कुडवद्वयम्
भक्षयेद्भोजनादर्व्वाक् पलमात्रमिदं नरः ।अथवा नियता नात्र मात्रा खादेद्यथानलम्
मानवः सेवनादस्य वाजीव सुरते भवेत् ।समर्थो बलवान् पुष्टो हृष्टो नित्यं निरामयः
ग्रहणीं नाशयेदेष क्षयं श्वासमरोचकम् ।अम्लपित्तञ्च पित्तञ्च रक्तपित्तञ्च पाण्डुताम्
”बृहज्जीरकं नानागरैला इति आम्रपाकः
“शमयति गोक्षुरचूर्णं छागक्षीरेण साधितंसमधु ।भुक्तं क्षपयति जाड्यं यज्जनितं कुप्रयोगेण
द्रव्याणि चन्दनादिस्तु चन्दनं रक्तचन्दनम् ।पत्तङ्गमथ कालीयागुरुकृष्णागुरूणि
देवद्रुमः ससरलः पद्मकं तुणिकोऽपि ।कर्पूरो मृगनाभिश्च लताकस्तूरिकापि
सिह्लकः कुङ्कुमं नव्यं जातीफलकमत्र ।जातीपत्रं लवङ्गञ्च सूक्ष्मैला महती सा
कक्कोलफलकं त्वक् पत्रकं नागकेशरम् ।बालकञ्च तथोशीरं मांसी दारु सितापि वा
मुरा कर्पूरकश्चापि शैलेयं भद्रमुस्तकम् ।रेण्डका प्रियङ्गुश्च श्रीवासो गुग्गुलुस्तथा
लाक्षा नस्वश्च रालश्च धातकीकुसुमं तथा ।ग्रन्थिपणञ्च मञ्जिष्ठा तगरं सिक्थकं तथा
एतानि शाणमानानि कल्कीकृत्य शनैः पचेत् ।तैलं प्रस्थमितं सम्यक् एतत्पात्रे शुभे क्षिपेत्
अनेनाभ्यक्तगात्रस्तु वृद्धोऽशीतिशमोऽपि यः ।शुभ्रो भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः
बन्ध्यापि लभते गर्भं षण्डोऽपि तरुणायते ।अपुत्त्रः पुत्त्रमाप्नोति जीवेच्च शरदां शतम्
चन्दनादिमहातैलं रक्तपित्तं क्षयं ज्वरम् ।दाहप्रस्वेददौर्गन्ध्यं कुष्ठं कण्डुं विनाशयेत्
”पत्तङ्गं वकम् इति लोके कालीयं कलम्बकइति लोके लताकस्तूरिका मुषुकदाना इतिलोके कक्कोलफलस्याभावे जातीपुष्पं ग्राह्यम् ।तदलाभेऽपि लवङ्गं ग्राह्यम् दारुशिता दारु-चिनी शैलेयं छरा इति लोके श्रीवासःगुगुरी इति लोके ग्रन्थिपर्णः गठिवन् इतिलोक अशीतिसमः अशीतिवार्षिकः इतिचन्दनादितैलम्
*
“बीजानि कीशकच्छ्वाः कुडवमितानि स्वेदये-च्छनकैः ।प्रस्थे गोभवदुग्धे दुग्धं यावद्भवेद्गाढम्
त्वग्रहितानि कृत्वा सूक्ष्मं संपेषयेत्तानि ।पिष्टिकया लघुवटिकाः कृत्वा गव्ये पचेदाज्ये
द्विगुणितशर्करया वा वटिकाः संपक्वयालेप्याः ।वटिका माक्षिकमध्ये मज्जनयोग्येऽखिलाःस्थाप्याः
पञ्चटङ्कमितास्तास्तु सायं प्रातश्च भक्षयेत् ।अनेन शीघ्रद्रावी यो यश्च स्यात् पतितध्वजः
सोऽपि प्राप्नोति सुरते सामर्थ्यमिति वाजिवत् ।नानेन सदृशं किञ्चित् द्रव्यं वाजीकरं परम्
”इति वानरीवटिका
*
“आकारकरभा शुण्ठी लवणं कुङ्कुमं कणा ।जातीफलं जातिपुष्पं चन्दनं कार्षिकं पृथक्
चूर्णयेदहिफेणन्तु तत्र दद्यात् पलोन्मितम् ।सर्व्वमेकीकृतं माषमात्रं क्षौद्रेण भक्षयेत्
”शुक्रस्तम्भकरं पुंसामिदमानन्दकारकम् ।नारीनां प्रीतिजनकं सेवेत निशि कामुकः
इति भावप्रकाशः
(यथा ।“विदारीकन्दां शुमतीवृहत्यौ ।काकोलिकाभीरुपुनर्नवे द्बे ।शृङ्गाटकं मागधिका वला चचूर्णं सिताढ्यं सितया प्रयोज्यम्
जीर्णे पयः पायसमेव योज्यंकरोति पुंसां बलमेवमोजः ।स्त्रीणां सहस्रं भजतेऽपि षण्डोमासद्वयेनापि सेवमानः
”इति हारीते चिकित्सास्थाने ४६ अध्यायः
“वाजीकरणमन्विच्छेत् सततं विषयी पुमान् ।तुष्टिः पुष्टिरपत्यञ्च गुणवत्तत्र संश्रितम्
अपत्यसन्तानकरं यत् सद्यः संप्रहर्षणम् ।वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।तद्वाजीकरणं तद्धि देहस्योर्ज्जस्करं परम्
धर्म्म्य यशस्यमायुष्यं लोकद्वयरसायनम् ।अनुमोदामहे ब्रह्मचर्य्यमेकान्तनिर्म्मलम्
अल्पसत्त्वस्य तु क्लेशैर्वाध्यमानस्य रागिणः ।शरीरक्षयरक्षार्थं वाजीकरणमुच्यते
कल्पस्योदग्रवयसो वाजीकरणसेविनः ।सर्व्वेष्वृतुष्वहरहर्व्यवायो निवार्य्यते
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान् ।घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्
योगविद्योजयेत् पूर्व्वं क्षीरमांसरसाशिनम् ।ततो वाजीकरान् योगान् शुक्रापत्यविवर्द्धनान्
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः ।यथैकश्चैकशाखश्च निरपत्यस्तथानरः
स्खलद्गमनमव्यक्तवचनं धूलिधसरम् ।अपि लालाविलमुखं हृदयाह्लादकारकम्
अपत्यं तुल्यता केन दर्शनस्पर्शनादिषु ।किंपुनर्यद्यशोधर्म्ममानश्रीकुलवर्द्धनम्
शुद्धकाये यथाशक्ति वृष्य योगान् प्रयोजयेत् ।शरेक्षुकुशकाशानां विदार्य्या वीरणस्य
मूलानि कण्टकार्य्याश्च जीवकर्षभकौ वलाम् ।मेदे द्बे द्वे काकोल्यौ शूर्पपर्ण्यौ शतावरीम्
अश्वगन्धामतिवलामात्मगुप्तां पुनर्नवाम् ।वीरां पयस्यां जीबन्तीं ऋद्धिं रास्नां त्रिकण्ट-कम्
मधुकं शालिपर्णीञ्च भागांस्त्रिपलिकान् पृथक् ।माषाणामाढकञ्चैतद्द्विद्रोणे साधयेदपाम्
रसेनाढकशेषेण पचेत्तेन घृताढकम् ।दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम्
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत् ।वीरां स्वगुप्तां काकोल्यौ यष्ठीं फल्गूनि पिप्प-लीम्
द्राक्षां विदारी खर्ज्जूरं मधुकानि शतावरीम् ।तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत्
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन ।मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्राद्द्विकुडवेन ।पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक्
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।विदारीपिप्पलीशालिप्रियालेक्षुरकाद्रजः
पृथक् स्वगुप्तामूलाच्च कुडवांशं तथा मधु ।तुलार्द्धं शर्कराचूर्णात् प्रस्थार्द्धं नवसर्पिषः
सोऽक्षमात्रमतः खादेद् यस्य रामाशतं गृहे ।सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान्हिमान्
माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयो-ऽनुपः ।जागर्त्ति रात्रिं सकलामखिन्नः खेदयेत् स्त्रियः
वस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ।यः खादेत् ससितान् गच्छेत् स्त्रीशतमपूर्व्ववत्
चूर्णं विदार्य्या बहुशः स्वरसेनैव भावितम् ।क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति
”“कृष्णाधात्रीफलरजः स्वरसेन सुभावितम् ।शर्करामधुसर्पिर्भिर्लीढ्वा योऽनुपयः पिबेत्
नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति ।कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्
पयोऽनुपानं यो लिह्यान्नित्यवेगः ना भवेत्
”“उच्चटाचूर्णमप्येवं शातवर्य्याञ्च योजयेत्
चन्द्रशुभ्रं दधिसरं ससितं षष्टिकौदनम् ।पटे सुमार्ज्जितं भुक्त्रा वृद्धोऽपि तरुणायते
”“आचरेच्च सकलां रतिचर्य्याकामशास्त्रविहितामनवद्याम् ।देशकालबलशक्त्यनुरोधाद्-वैद्यतन्त्रसमयोक्त्यविरुद्धाम्
अभ्यञ्जनोद्वर्त्तनसेकगन्ध-स्रक्पत्रवस्त्राभरणप्रकाराः ।गान्धर्व्वकाव्यादिकथा प्रवीणाःसमस्वभावा वशगावयस्याः ।दीर्घिका स्वभवनान्तनिविष्टापद्मरेणुमधुमत्तविहङ्गाः ।नीलसानुगिरिकूटनितम्बेकाननानि पुरकण्ठगतानि
दृष्टिसुखा विविधा तरुजातिःश्रोत्रसुखः कलकोकिलनादः ।अङ्गसुखर्त्तुवशेन विभूषा-चित्तसुखः सकलः परिवारः
ताम्बूलमच्छमदिरा कान्ता कान्ता निशाशशाङ्काङ्का ।यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत्
मधुमुखमिव सोत्पलं प्रियायाःकणरणनापरिवादिनी प्रियेव ।कुसुमचयमनोरमा शय्याकिसलयिनी लतिकेव पुष्पिताग्रा
देशे शरीरे काचिदर्त्ति-रर्थेषु नाल्पोऽपि मनोविघातः ।वाजीकराः सन्निहिताश्च योगाःकामस्य कामं परिपूरयन्ति
”इति वाभटे उत्तरस्थाने ४० अध्यायः
तथाच ।“वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान् ।तदायत्तौ हि धर्म्मार्थौ प्रीतिश्च यश एव
पुत्त्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः ।वाजीकरणमग्य्रञ्च क्षेत्रं स्त्री वा प्रहर्षिणी
इष्टा ह्येकैकशोऽप्यर्थाः परं प्रीतिकराः स्मृताः ।किं पुनः स्त्रीशरीरे ये संघातेन व्यवस्थिताः
सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते ।स्त्र्याश्रयो हीन्द्रियार्थो यः सप्रीतिजननो-ऽधिकः
”“चित्रदीपः सरःशुष्कमधातुर्धातुसन्निभः ।निष्प जस्तृणपूलीति ज्ञातव्यः पुरुषाकृतिः
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ।मन्तव्यो निष्क्रियश्चैव यस्यापत्यं विद्यते
बहुमूर्त्तिर्बहुमुखो बहुव्यूहो बहुक्रियः ।बहुचक्षुर्बहुज्ञानो बह्वात्मा बहुप्रजः
मङ्गल्योऽयं प्रशस्तोऽयं धन्योऽयं वीर्य्यवानयम् ।बहुशाखोऽयमिति स्तूयते ना वहुप्रजः
प्रीतिर्ब्बलं सुखं वृत्तिर्विस्तारो विभवः कुलम् ।यशोलोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिता
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्
वाजीकरणनित्यः स्यादिच्छेत् कामसुखानि ।माषाणामात्मगुप्ताया बीजानामाढकं नवम्
जीवकर्षभकौवीरं मेदामृद्धिं शतावरीम् ।मधुकञ्चाश्वगन्धाञ्च साधयेत् कुडवोन्मिताम्
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ।विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य
दत्त्वा मृद्वग्निनासाध्यं सिद्धं सर्पिर्निधापयेत् ।शर्करायास्तुगाक्षीर्य्याः क्षौद्रस्य पृथक्पृथक्
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम् ।पलं पूर्व्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्
इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ।”इति वाजीकरणं घृतम्
*
“चटकानां सहंसानां दक्षाणां शिखिना-न्तथा ।शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि ।षष्टिकानाञ्च चूर्णानि चूर्णं गौधूममेव
एभिः पूपलिकाः कार्य्याः शष्कुल्यो वर्त्तिकास्तथा
पूपाधानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः ।एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा
शेफसा वाजिवद्याति यावदिच्छन् स्त्रियोनरः
”इति वृष्यपूपालिकयोगः
*
“मण्डलैर्जातरूपस्य तस्या एव पयःशृतम् ।अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्
”“आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा ।तप्ते सर्पिषि यः खादेत् गच्छेत् स्त्रीषु नक्षयम्
घृतभृष्टान् रसे छागे रोहितान् फलसाधिते
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत्
”इति गर्भाधानकरो योगः
*
“नर्त्ते वै षोडषाद्वर्षात् सप्तत्याः परतो नच ।आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति
अतिबालो ह्यसम्पूर्णसर्व्वधातुः स्त्रियो व्रजन् ।उपतप्येत सहसा तडागमिव काजलम्
शुष्करुक्षं यथाकाष्ठं जन्तुदग्धं विजर्ज्जरम् ।स्पृष्टमाशु विशीर्य्येत तथा वृद्धस्त्रियो व्रजन्
जरया चिन्तया शुक्रं व्याधिभिः कर्म्मकर्षणात् ।क्षयं गच्छत्यनशनात् स्त्रीणाञ्चातिनिषेवणात्
क्षयाद्भयादतिस्रम्भाच्छोकात् स्त्रीदोषदर्शनात् ।नारीणामरसज्ञत्वादभिचारादसेवनात्
तृप्तस्यापि स्त्रियो गन्तुं शक्तिरुपजायते ।देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा
”इति चरके चिकित्सितस्थाने द्वितीयेऽध्याये
)