| YouTube Channel

वाजं (vAjaM)

 
शब्दकल्पद्रुमः
Sanskrit
वाजं,
क्ली,
घृतम् (यथा, वाजसनेयसंहिता-याम् ।“वाचस्पतिर्वाजं नः स्वदतु
”)यज्ञः अन्नम् (यथा, ऋग्वेदे २२ ।“यो देवो देवतमो जायमानोमहो वाजेभिर्महद्भिश्च शुष्मैः
”“वाजेभिरन्नैः ।” इति तद्भाष्ये सायणः
)वारि इति मेदिनी जे, १४
(संग्रामः ।यथा, ऋग्वेदे ३५ ।“अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम्
”बलम् यथा, तत्रैव ८५ ।“वनेषु व्यन्तरिक्षं ततान वाजमर्व्वत्सु पयउस्रियासु
”)