| YouTube Channel

वाच्यं (vAcyaM)

 
Hindi
Hindi
से बात की
शब्दकल्पद्रुमः
Sanskrit
वाच्यं, त्रि, (उच्यते इति वच् + ण्यत् “वचो-ऽशब्दसंज्ञायाम् ।” इति कुत्वम् ।) कुत्-सितम् हीनम् वचनार्हम् इति मेदिनी ।ये, ५५
(यदुक्तम् ।“शत्रोरपि गुणा वाच्या दोषा वाच्या गुरो-रपि
”)शक्यम् यथा, --“न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते ।वाच्यवाचकभावोऽयमक्षपादादिशब्दवत्
विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते ।तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत्
”इति मलमासतत्त्वधृतभट्टवार्त्तिकवचनम्
अपि ।“अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।”एषां स्वरूपमाह ।“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणयामतः ।व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्यशक्तयः
”इति साहित्यदर्पणे परिच्छेदः
वाच्यं,
क्ली,
(वच् + ण्यत् ।) प्रतिपादनम् दूष-णम् इति धरणिः
(यथा, --“परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा
”)