| YouTube Channel

वाचिकं (vAcikaM)

 
शब्दकल्पद्रुमः
Sanskrit
वाचिकं, त्रि, (वाच् + ठक् ।) वाचा कृतम् ।यथा, --“शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः ।वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्
”इति प्रायश्चित्ततत्त्वम्
अपि ।“कायिकं वाचिकञ्चैव मानसं यच्च दुष्कृतम् ।एकजप्येन तत् सर्व्वं प्रणश्यति ममाग्रतः
”इति शाम्बपुराणे सूर्य्यस्तोत्रम्
अन्यच्च कायिकं मानसञ्च नमस्कारं हित्वाआचार्य्येण कथं वाचिको नमस्कारः कृतः ।इति मुग्धबोधटीकायां दुर्गादासः
(वागेव ।वाक् + “वाचो व्याहृतार्थायाम् ।” ३५ ।इति ठक् सन्देशोक्तौ, क्ली इति हारावली ।१६६
यथा, राजतरङ्गिण्याम् ३५ ।“भृत्यमेकं बणिग्वेश्म प्राहिणोद्दत्तवाचिकम्
”)