| YouTube Channel

वाचालः (vAcAlaH)

 
शब्दकल्पद्रुमः
Sanskrit
वाचालः, त्रि, (बहु कुत्सितं भाषते इति वाच्+ “आलजाटचौ बहुभाषिणि ।” १२५ ।इति आलच् ।) बहुकुत्सितभाषी तत्पर्य्यायः ।जल्पाकः वाचाटः इत्यमरः
सुबहु-भाषिण्यपि जल्पाकादयस्त्रयो वर्त्तन्ते वाचाटोवाचालो जल्पाकः सुबहुभाषी स्यादितिश्लोकार्द्धपर्य्याये वोपालितः नित्यप्रगल्भ-वाचालामुपतिष्ठे सरस्वतीम् इति मुरारि-रिति तट्टीकायां भरतः
(यथा, कथा-सरित्सागरे ४० ३४ ।“वाचालैः कलहः क्लीवैस्त्रपाकृद्बाहुशालि-नाम्
”)