| YouTube Channel

वाङ्मयं (vAGmayaM)

 
Hindi
Hindi
आवाज की
शब्दकल्पद्रुमः
Sanskrit
वाङ्मयं, त्रि, (वाक्स्वरूपम् वाच् + मयट् ।)वाक्यात्मकम् यथा, --“न्यरस्तजभ्नगैर्लान्तैरेभिर्द्दशभिरक्षरैः ।समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना
”अपि ।“पद्यं गद्यमिति प्राहुर्व्वाङ्मयं द्बिविधं बुधाः ।प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते
”पद्यं यथा, --“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।समं समचतुष्पादं भवत्यर्द्धसमं पुनः
आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्बितीयवत् ।भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्
”गद्यं यथा ।“अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् ।चूर्णकोत्कलिकाप्रायवृत्तगंन्धिप्रभेदतः
अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत्
भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम्
”इति छन्दोमञ्जरी
*
वाङ्मयपापानि यया, --“पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।असम्बन्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्
”तथा परुषवचनमपवादः पैशुन्यमनृतं वृथा-लापो निष्ठुरवचनं इति वाङ्मयानि षट् ।परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचार-परिच्छदशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनंपरुषम् ।“यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः ।परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम्
चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति ।प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते
”तेषामेव परुषवचनानां परोक्षमुदाहरणंअपवादः गुरुनृपतिबन्धुभ्रातृमित्रसकाशेअर्थोपघातार्थं दोषोपाख्यानं पैशुन्यम् ।अनृतं द्विविधं असत्यमसंवादश्चेति ।“देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् ।नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम्
गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः ।यदन्यद्बा वचो नीचस्त्रीपुंसोर्मिथुनाश्रयम्
इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् ।इह चामुत्र क्ररमनर्थं प्रतिपद्यते ।”प्रशंसया निन्दनं प्रशंसानिन्दनम् अत्र चतु-र्व्विधषड्विधयोरविरोधः समक्षत्वासमक्षत्व-भेदानादरेण पारुष्पापवादयोरैक्यात् निष्ठुरस्यपरुषान्तर्भावाच्च असम्बद्धप्रलापव्यर्थभाष-णयोः पर्य्यायत्वान्नार्थान्तरम् इति तिथ्यादि-तत्त्वम्