वाक्पारुष्यं (vAkpAruSyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवाक्पारुष्यं, (वाचा कृतं पारुष्यम् ।)अप्रियवाक्योच्चारणम् । तत्तु सप्तधाव्यसनान्त-र्गतव्यसनविशेषः । यथा, --“मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतज्ज्ञेयं व्यसनसप्तकम् ॥
”इति हेमचन्द्रः ॥
* ॥
तल्लक्षणं नारदेनोक्तम् ।“देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् ।यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥
”देशादीना आक्रोशन्यङ्गसंयुतम् । उच्चैर्भाषण-माक्रोशः न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थंउद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते ॥
तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्य-मभिधाय तल्लक्षणं तेनैवोक्तम् ।“निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।गौरवानुक्तमात्रस्य दण्डोऽपि स्यात् क्रमाद्-गुरुः ॥
साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् ।पतनीयैरुपाक्रोशैस्तीव्रमाहुर्म्मनीषिणः ॥
” इति ॥
तत्र निष्ठुराक्रोशे स्ववर्णविषये दण्डमाह ।“सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।क्षेपङ्करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥
काणञ्चाप्यथवा खञ्चमन्यं वापि तथाविधम् ।तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥
”इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदापुनः पुत्त्रादयो मात्रादीन् शपन्ति तदा शतंदण्डनीया इति तेनैवोक्तम् ।“मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् ।आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः ॥
”इति च ॥
एतच्च सापराधेषु मात्रादिषु गुरुषु निरप-राधायाञ्च जायायां द्रष्टव्यम् ॥
* ॥
अश्लीला-क्षेपे दण्डमाह ।“अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।शपन् तन्दापयेद्राजा पञ्चविंशतिकं दमम् ॥
दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः ।प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ॥
वणानामानुलोम्येन तस्मादर्द्धार्द्धहानितः ॥
” * ॥
मनुः ।“शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥
पञ्चशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने ।वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः ॥
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।शत्यस्तदर्द्धिकः पादो नासाकर्णकरादिषु ॥
अशक्तस्तु वदन्नेव दण्डनीयः पणान् दश ।तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।उपपातकयुक्ते तु दाप्यः प्रथमसाहसः ।त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥
”इति मिताक्षरा ॥
* ॥
वाक्पारुष्ये अभियोगमनिस्तीर्य्य प्रत्यभियोजनेप्रतिप्रसवो यथा, --“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ।”वाक्पारुष्ये शस्त्रादिप्रहारेषु च यथा पूर्व्व-महमप्यनेनाक्रुष्टः शस्त्रेण हतः इत्यपराधा-भावाय प्रत्यभियोगं कुर्य्यात् । इति व्यवहार-तत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
