| YouTube Channel

वह्निबीजं (vahnibIjaM)

 
शब्दकल्पद्रुमः
Sanskrit
वह्निबीजं,
क्ली,
(वह्नेर्बीजम् ।) रंबीजम् इतितन्त्रम्
(वह्निदायकं बीजमस्य ।) निम्बू-कम् इति राजनिर्घण्टः
(वह्नेर्बीजं वीर्य्यम् ।)स्वर्णम् इति हेमचन्द्रः
तस्योत्पत्तिर्यथा, --“एकदा सर्व्वदेवाश्च समूषुः स्वर्गसंसदि ।तत्र कृत्वा नृत्यञ्च गायन्त्यप्सरसां गणाः
विलोक्य रम्भां सुश्रोणीं सकामो वह्निरेव ।पपात वीर्य्यं चच्छाद लज्जया वाससा तथा
उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः ।क्षणेन वर्द्धयामास सुमेरुर्बभूव
हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ।इति ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे हिरण्योत्पत्ति-र्नाम १३० अध्यायः