| YouTube Channel

वहुव्रीहि (vahuvrIhi)

 
वाचस्पत्यम्
Sanskrit
ब(व)हुव्रीहि
त्रि०
ब० अनेकधान्यादियुक्ते “तत्पुरुष!कर्म धारय येन यस्यां सदा बहुव्रीहिः” उद्भटः व्या०करणोक्ते प्रायेण अन्यपदार्थप्रधाने समासभेदे
पु०
तल्लक्षणादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथाबहुब्रीहिं लक्षयति “बहुव्रीहिः स्वगर्भार्थसम्बन्धि-त्वेन बोधकः निरूढथा लक्षणया स्वांशज्ञापकशब्द-वान्” समास इति प्रकृतं तथा स्वांशस्य निरूढ-लक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्यसम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भ-तादृशार्थसम्बन्धिबोधेन बहुव्रीहिरित्यर्थः आरूढवान-रोवृक्ष इत्यत्रारूढोवानरो यमिति व्युत्पत्त्या स्वकर्म-कारोहणकर्तृवानरसम्बन्धित्वेन वृक्षं, पीतपयस्कं पात्र-मित्यत्र पीतं पयोयेन इति रीत्या खकरणकपानकर्म-जलसम्बन्धित्वेन पात्रम्, पक्वतण्डुलश्चैत्र इत्यत्र पक्व-स्तण्डुलो येनेति दिशा स्वकर्तृकपाककर्मतण्डुलसम्ब-न्धित्वेन चैत्रं, दत्तदक्षिणोद्विज इत्यत्र दत्ता दक्षिणायस्मै इति क्रमेण स्वसम्प्रदानक्वदानकर्मदक्षिणासम्बन्धि-त्वेन द्विजं, पतितपत्रस्तरुरित्यत्र पतितं पत्रं यस्मा-दिति विग्रहेण स्वापादानकपतनाश्रयपत्रसम्बन्धित्वेनतरुं, चित्रगुरित्यत्र चित्रा गौर्यस्येति वाक्यानुसारेणश्चित्राभिन्नस्वगोसम्बन्धित्वेन चैत्रम्” रक्तपटः काय इत्यत्ररक्तः पटो यत्रेति व्युत्पत्या रक्ताभिन्नस्ववृत्तिपटसम्ब-न्धित्येन कायम्” एवं वाणच्छिन्नकरोनर इत्यादावपि ।वाणेन छिन्नः करो येन यस्य वा इत्यादि विग्रहेवाणकरणकस्वकर्तृकच्छिदाकर्मकरसम्यन्धित्वादिना नरा-दिकं बहुव्रीहिर्वोधयतीति सर्वत्र स्वगर्भतत्तदर्थसम्बन्धि-त्वेन धर्मिणामवगमः दक्षिणपूर्वा पूर्वोत्तरेत्यादिवि-दिग्बहुव्रीहिस्थले दक्षिणया पूर्वा यस्या इत्यादिविग्रहेणस्वपार्श्वस्थदक्षिणसहितपूर्वदिक्सम्बन्धित्वादिना आग्ने-यीप्रभृतीनां विदिशां बोधः अस्तिक्षीरा गौरीत्यादाव-प्यस्ति क्षीरं यस्या इत्यादिविग्रहेणास्तित्ववत्स्वक्षीरसम्ब-न्धित्वादिप्रकारेण गवादेरवगतिः इयांस्तु विशेषो यत्त-त्रैकेषाम्मतेऽस्तीत्यादिकं तिङन्तमन्येषां मते तत्प्रतिरूप-काव्ययमिति उप समीपे दश येषामिति समीपगणित-त्वार्थकपष्ठ्या विग्रहादुपदशाः शकुनय इत्यादौ स्वसमी-पगणितदशसम्बन्धित्वेन नवानामेकादशानानाञ्च पक्षिणा-मवगमस्तत्र दशशब्दस्य दशत्वलक्षणया स्वपर्थ्याप्तसंख्या-समीपगणितदशत्वसम्बन्धित्वेनैव नवादेर्बोध इति दुर्ग-प्रभृतयः अधिका दश येषामित्यादिविग्रहे अधिकदशाःपरुषा इत्यादावपि स्वपर्य्याप्तसंख्याधिकदशवृत्तिसंख्या-पर्य्याप्त्यधिकरणदशसम्बन्धित्वेन नवादिपुंसां प्रत्ययः ।द्वौ त्रयो वा येषां इत्यन्यतरार्थकवाशब्देन विग्रहे द्वित्राःपवित्राः इत्यादौ द्वित्र्यन्यतरपर्य्याप्तस्वपर्य्याप्त-सख्यासम्बन्धित्वेन द्वयोस्त्रयाणां वा पवित्राणां बोधः ।पटे घटे वा घटत्वमित्याद्यनुरोधेन वाकारस्यान्यतरार्थ-कताया व्युत्पाद्यत्वात् तस्य वृत्तौ गतार्थत्वादश्रुतिःपञ्च षड् वा येषामित्यादिविग्रहात् पञ्चषाः पुरुषाःइत्यादावप्युक्तरीत्यैवान्वयोद्रष्टव्यः परे तु द्वौ वा त्रयोवा येवामित्यादिबिग्रहे वाशब्दस्य संशयकोट्यर्थकंतयाद्वित्रा इत्यादि बहुव्रीहेः स्वधर्भिकसंशयकोटितापन्न-द्वित्रिसम्बन्धित्वेन द्विप्रभृतिबाधकत्वमित्याहुः” वैयाकर-णास्तु बहुव्रीहिप्रकरणपठितत्वमेव तत्त्वमित्याहुः तेनउन्मत्तगङ्गाद्यव्ययीभावे नातिव्याप्तिः तद्भेदौ तद्-गुणातद्गुणसावज्ञानौ तद्गुणसंविज्ञानशब्द ६२१७ पृ०उक्तौ तत्र समानाधिकरणपदघटितस्येव प्रायेण साधुत्वम्