| YouTube Channel

वहनम् (vahanam)

 
Apte
English
वहनम् [vahanam], [वह्-ल्युट्]
Carrying, bearing, conveying.
Supporting.
Flowing.
A vehicle, conveyance.
A boat, raft.
The undermost part of a column.
Comp.
-भङ्गः shipwreck
Ratn.
Apte Hindi
Hindi
वहनम्
नपुं*
- वह् + ल्युट्
"ले जाना, धारण करना, ढोना"
वहनम्
नपुं*
- -
सहारा देना
वहनम्
नपुं*
- -
बहना
वहनम्
नपुं*
- -
"गाड़ी, यान"
वहनम्
नपुं*
- -
"नाव, डोंगी"
Wordnet
Sanskrit
Synonyms:
वहनम्, परिवहनम्, संवहनम्
noun
कस्मादपि एकस्मात् स्थानात् अन्यत्स्थाने अपकर्षणम्।
"उपस्कराणां वहनं कर्तुं सः भारवाहकाय आह्वयति।"
कृदन्तरूपमाला
Sanskrit
1 {@“वह प्रापणे”@} 2 यजादिः।
‘प्रापणे = धारणे’ इति काशकृत्स्नः।
वाहकः-हिका, वाहकः-हिका, 3 विवक्षकः-क्षिका, वावहकः-हिका
4 वोढा-ढ्री, 5, वाहयिता-त्री, विवक्षिता-त्री, वावहिता-त्री
परिवहन्-उद्वहन् 6 -न्ती, प्रणिवहन्, प्रवहन्-न्ती, 7 व्यतिवहन्-न्ती, 8 वाहयन् भारं देवदत्तेन, वाहयन् यवान् बलीवर्दान्, विवक्षन्-न्ती
-- वक्ष्यन्-न्ती-ती, वाहयिष्यन्-न्ती-ती, विवक्षिष्यन्-न्ती-ती
-- वहमानः 9, वाहयमानः, विवक्षमाणः, वावह्यमानः
वक्ष्यमाणः, वाहयिष्यमाणः, विवक्षिष्यमाणः, वावहिष्यमाणः
10 11 विश्वोट्, 12 अनड्वान्-अनड्वाहौ-अनड्वाहः
-- -- 13 ऊढम्- 14 कल्पनापोढः- 15 प्रौढः-ऊढवान्, वाहितः, विवक्षितः, वावहितः-तवान्
16 वहः-वहनः-वाहः, 17 कूलमुद्वहः 18, वहः, 19 भारवाही, 20 प्रवाहणः
21 ऋषीवहः, कपीवहः, मुनीवहः, 22 वावहिः, वाहः, विवक्षुः, वावहः
प्रणिवोढव्यम्, वाहयितव्यम्, विवक्षितव्यम्, वावहितव्यम्
23 प्रणिवहनीयम्, वाहनीयम्, विवक्षणीयम्, वावहनीयम्
24 25 वह्यम् 26 27, वाह्यम्, वाह्यम्, विवक्ष्यम्, वावह्यम्
उह्यमानः, वाह्यमानः, विवक्ष्यमाणः, वावह्यमानः
ईषद्वहः-दुर्वहः-सुवहः
-- -- -- 28 वहः, वाहः, परिवाहः-परीवाहः, वाहः, विवक्षः, वावहः
प्रणिवोढुम् 29, वाहयितुम्, विवक्षितुम्, वावहितुम्
30 प्रौढिः, वहा, वाहना, विवक्षा, वावहा
वहनम्, 31 इक्षुवाहणम्, वाहनम्, दाक्षिवाहनम्-इन्द्रवाहनम्, भारवाहणम् 32, विवक्षणम्, वावहनम्
ऊढ्वा, वाहयित्वा, विवक्षित्वा, वावहित्वा
प्रवह्य, प्रवाह्य, प्रविवक्ष्य, प्रवावह्य
33 पुरुषवाहं 34, वाहम् ऊढ्वा वाहम् २, वाहयित्वा २, विवक्षम् २, विवक्षित्वा २, वावहम्
वावहित्वा
35 वह्निः, 36 वधूः।
37
प्रासङ्गिक्यः
01
=>
(१५८२)
02
=>
(१-भ्वादिः-१००४। द्विकर्म। अनि। उभ।)
03
=>
[[१। धातोरनिट्त्वात् सन्नन्ते, ‘हो ढः’ (८-२-३१) इति धातुहकारस्य ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वे रूपं बोध्यम्।]]
04
=>
[[२। तृचि, ‘सहिवहोरोद् अवर्णस्य’ (६-३-११२) इत्युपधाकारस्य ओकारे ढत्व- ष्टुत्वढलोपदीर्घेषु रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्। ‘आकाशो वै नामरूपयो- र्निर्वहिता--’ (छान्दोग्ये ८-१४-१) इत्यत्र तु छान्दसत्वात् ओकार उपधायाः। प्रत्ययस्येडागमोऽपि छान्दसत्वादेव। स्पष्टमिदमुपनिषद्भाष्येषु।]]
05
=>
[निर्वहिता]
06
=>
[[आ। ‘लाङ्गूलमुद्धतं धुन्वन् उद्वहन् परिघं गुरुम्।’ भ। का। ९। ७।]]
07
=>
[[३। “‘वि’ ‘अति’ इत्युपसर्गद्वयपूर्वकात् वहधातोः ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इत्यात्मनेपदे प्राप्ते ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति निषेधे व्यतिवहन् इति रूपं सिद्ध्यति। आचार्यचरणैः ‘वहेर्न निषेध इति केचित्’ इत्युक्तत्वात् तन्मते व्यतिवहते इत्युदाहृतम्” इति प्रक्रियाकौमुदी।]]
08
=>
[[४। ‘नीषह्योः प्रतिषेधः’ (वा। १-४-५२) इति अण्यन्तावस्थायां कर्तुः ण्यन्ते कर्मत्वस्य प्रतिषेधात् रूपमेवम्। ‘वहेः अनियन्तृक्र्तृकस्य’ (वा। १-४-५२) इति कर्मत्वस्य प्रतिप्रसवसद्भावात्, अत्र नियन्तृ = (सारथि) कर्तृकत्वात् कर्मत्वं भवत्येव।]]
09
=>
[[B। ‘सहैव चरमाणौ द्वौ वहमानौ मितं धनुः’। अत्र वयोवचने चानश् इति प्रक्रियासर्वस्वे।]]
10
=>
[पृष्ठम्१२१९+ २८]
11
=>
[[१। विश्वं वहतीत्यर्थे क्विपि सम्प्रसारणपूर्वरूपगुणढत्वादिकेषु रूपमेवम्।]]
12
=>
[[२। अनः वहतीत्यर्थे ‘अनसि हेः’ इति क्विपि, ‘डश्चानसः’ (द्रष्टव्या द। उ। ९-१०७) इति अनश्शब्दान्त्यवर्णस्य उकारे रूपमेवम्। ‘सावनडुहः’ (७-१-८२) इति नुम्।]]
13
=>
[[३। क्तप्रत्यये सम्प्रसारणढत्वष्टुत्वढलोपदीर्घादिषु रूपमेवम्। एवं क्त्वाक्तिन्प्रभृतिष्वपि।]]
14
=>
[[४। कल्पनायाः अपोढः इति वृत्तौ ‘अपेतापोढ--’ (२-१-३८) इति क्तान्तेन पञ्चमीसमासः।]]
15
=>
[[५। ‘प्रादूहोढोढ्येषैष्येषु’ (वा। ६-१-८९) इति वृद्धिः। एवं प्रौढिः इति क्तिन्नन्तेऽपि ज्ञेयम्।]]
16
=>
[[६। वह इत्यत्र पचाद्यच्। वहनः इति तु सारथ्यादिवाचकं पदं ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् कर्तरि ल्युटि बोध्यम्।]]
17
=>
[[७। कूलं उद्वहतीति वृत्तौ उत्पूर्वात् वहेः ‘उदि कूले रुजिवहोः’ (३-२-३१) इति खश्। खित्त्वात् नुम्। शित्त्वात् शपि तस्य ‘अतो गुणे’(६-१-९७) इति पररूपम्।]]
18
=>
[[आ। ‘उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः।’ भ। का। ६-९६।]]
19
=>
[[८। भारं वहतीति भारवाही। णिनिप्रत्ययान्तमिदम्।]]
20
=>
[[९। प्रपूर्वकात् ण्यन्तात् वाहयतेः नन्द्यादित्वात् कर्तरि ल्युः। ‘कृत्यचः’ (८-४-२९) इति णत्वम्, इति केचित्। वस्तुतस्तु ‘णेर्विभाषा’ (८-४-३०) इति प्राप्तं पाक्षिकं णत्वं बाधित्वाऽत्र संज्ञात्वात् ‘पूर्वपदात् संज्ञायां--’ (८-४-३) इति नित्यं णत्वमिति बोध्यम्।]]
21
=>
[[१०। ‘इको वहेऽपीलोः’ (६-३-१२१) इति इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति।]]
22
=>
[[११। ‘सासहिवावहि’ -- (वा। ३-२-१७१) इति निपातनात् यङन्तात् कर्तरि किः किन् वा प्रत्ययः। द्वित्वादिकं बोध्यम्।]]
23
=>
[[१२। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहति--’ (८-४-१७) इत्यादिना उपसर्गस्थात् निमित्तादुत्तरस्य नेः णत्वं बोध्यम्।]]
24
=>
[पृष्ठम्१२२०+ २६]
25
=>
[[१। वहत्यनेनेति करणार्थे शकटादिके विवक्षिते ‘वह्यं करणम्’ (३-१-१०२) इति निपातनात् यत्प्रत्ययान्तता। ण्यतोऽपवादः। करणभिन्नयोः भावकर्मणोरर्थयोः विवक्षितयोस्तु वाह्यम् इति ण्यदन्तत्वमेव।]]
26
=>
[[आ। ‘तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनम्।’ भ। का। ६-५२]]
27
=>
[शकटम्]
28
=>
[[२। वहन्त्यनेन बलीवर्दादयः भारमिति वहः = स्कन्धः। करणे ‘गोचरसञ्चरवह--’ (३-३-११९) इति घप्रत्ययान्तो निपातितः। हलन्तलक्षणघञोऽपवादः। वाहः अश्वः। अत्र तु वहतीति वाहः इति वा, उह्यतेऽनेनेति वा वृत्तिर्बोध्या।]]
29
=>
[[B। ‘वृद्धौ रसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय।’ भ। का। ३। ५४।]]
30
=>
[[३। प्रौढिरित्यत्र ‘प्रादूहोढोढ्येषैष्येषु’ (वा। ६-१-८९) इति वृद्धिः। इयं क्तिन्तन्त एव
\n\n क्तिजन्ते नेत्याहुः।]]
31
=>
[[४। अत्र ‘वाहनम् आहितात्’ (८-४-८) इति णत्वम्। वाहने यत् आरोपितं तत् आहितम्
\n\n उपरि निपतितेक्षुकं वाहनमित्यर्थः। दाक्षिवाहनम् इन्द्रवाहनम् इत्यादिषु तु आहितार्थकत्वाभावात् णत्वम्।]]
32
=>
[[C। ‘दूरादपावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः।।’ शि। व। १२। ३४।]]
33
=>
[[५। ‘कर्त्रोर्जीवपुरुषयोर्नशिवहोः’ (३-४-४३) इति कर्तृवाचिनि पुरुषशब्दे उपपदे वहेः णमुल्। पुरुषप्रेष्यो भूत्वा वहतीत्यर्थः।]]
34
=>
(वहति)
35
=>
[[६। ‘वहिश्रि--’ (द। उ। १-२१) इति निप्रत्ययः। वहति, उह्यते वा वह्निः = अग्निः।]]
36
=>
[[७। ‘वहेर्धश्च’ (द। उ। १-१६६) इति ऊप्रत्ययः, धात्वन्तस्य धकारादेशश्च। वहति गृहकार्यमिति वधूः = स्नुषा।]]
37
=>
[पृष्ठम्१२२१+ २७]