| YouTube Channel

वस्यन्-न्ती (vasyan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वसु स्तम्भे”@} 2 3 अयं दन्त्योष्ठ्यादिः इति आत्रेयदेवपुरुषकारकारादयः।
केचित् बकारादिं पठन्ति।
‘घसिस्तु सान्तेषु वसिः प्रसारिणी।।’ 4 इत्यत्र बशादिरेव 5 बसिः इति काशिकायामुपात्त इति धातुवृत्तिः।
परं तु साम्प्रतं वृत्तौ ‘वसिः’ इति दन्त्योष्ठयादिपाठ एवोपलभ्यते।
बस्तशब्दस्तु बशादित्व एव उपपन्नो भवतीत्यवधेयम्।]] ‘वस्यति स्तम्भने वस्ते छादने वसयेद् वसेत्।।’ 6 इति देवः।
वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका
वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री
वस्यन्-न्ती, वासयन्-न्ती, विवसिषन्-न्ती
-- वसिष्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवसिषिष्यन्-न्ती-ती
-- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः
इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना भौवादिकग्रसतिवत् 7 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१५८०)
02
=>
(४-दिवादिः-१२१४। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(व्याघ्रभूतिकारिका ७-२-१०)
05
=>
(बकारादिः)
06
=>
(श्लो। १८७)
07
=>
(४४०)